"जैमिनीयं ब्राह्मणम्/काण्डम् १/२०१-२१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
प्र वो महे महेवृधे भरध्वम् इत्य् एता वै विराजः। अनुष्टुप्सु षोडशिसाम कुर्वीत यः कामयेत न मान्या वाग् अतिवदेद् इति। वज्रो वै षोडशी वाग् अनुष्टुप्। वज्रेणैव वाचं स्पृणोति नैनम् अन्या वाग् अतिवदति। आ तिष्ठ वृत्रहन् रथम् इत्य् एता वा अनुष्टुभः। अथैतास् त्र्यक्षरा एकपदा भवन्ति। विष्णोश् छन्दो भूरिजश् शक्वर्य इति। एताभिर् वा इन्द्रो वृत्रम् अहन्न् एताभिश् श्रियाम् आश्नुतौषम् एव। द्विषन्तं भ्रातृव्यं हन्त्य् ओषं श्रियम् अश्नुते य एवं वेद॥
 
<poem>हिरण्यं संप्रदायं षोडशिना स्तुवन्ति। षोडशिनम् एव तज् ज्योतिष्मन्तं कुर्वन्ति॥
अश्व उपतिष्ठते साम्येक्ष्याय। भ्रातृव्यलोकं वावैषां तद् विधमंस् तिष्ठति॥
यस्माज् जातो न परो ऽन्यो अस्ति य आ बभूव भुवनानि विश्वा।
प्रजापतिः प्रजया संरराणस् त्रीणि ज्योतींषि सचते स षोडशी॥</poem>
इति षोडशिग्रहम् अवेक्षते॥