"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
उद्गातृवरणार्हणे
 
अथोद्गातर्यागते यजमानः पर्जन्यो म उद्गातेति तस्य देववरणं यज्ञशर्मा मानुष इति मानुषवरणं च कुर्यात् । स एतान् देवान् ऋत्विजो वृत्वा अथैतान् मानुषान् वृणीत (ष० ब्रा० ३३३) इति श्रुतेः । यजमान- परिचारका उद्गातारमर्हयिष्यन्तो विष्टरद्वयपाद्यार्घ्याचमनीयमधुपर्काना- हरन्ति । उद्गाता त्वर्हणे(मं० ब्रा० २.८.१) ति गां निरीक्ष्य इदमहमिमाम् (मं० ब्रा० २.८.२) इति तिष्ठन् जपेत् । विष्टराविति त्रिरुक्ते तौ

3
प्रतिगृह्य तयोरकस्मिन् या ओषधीर् ( मं० ब्रा० २.८.३) इति पूर्वमन्त्रेणोपविशेत् । पाद्यमिति त्रिरुक्ते यतो देवीर् (मं० ब्रा० २ ८.५) इति पाद्यजलं प्रोक्ष्य सव्यं पादम् (मं० ब्रा० २.८.६) इति सव्ये निनयेत् । दक्षिणं पादम् (मं० ब्रा० २.८.७) इति दक्षिणे च । पूर्वमन्यम् (मं० ब्रा० २.८.८) इति पादद्वये जलं निनीय या ओषधीर् (मं० ब्रा० २.८.४) इत्युत्तरेण मन्त्रेण इतरस्मिन् विष्टरे धौतौ पादौ निदध्यात् । अर्घ्यति त्रिरुक्ते अन्नस्य (म० ब्रा० २.८.९) इति अर्घ्यं प्रतिगृह्णीयात् । आचमनीयमिति त्रिरुक्ते यशोऽसि यशो मयि धेहि ४० ब्रा० २ .८. १०) इति तत् प्रतिगृह्य आचमेत् । मधुपर्क इति त्रिरुक्ते यशसो यशोऽसि (मं० ब्रा० २.८.११) इति प्रतिगृह्य तस्यैकदेशम् इदमन्नमयं रस इमा गावः सह श्रिया । तत् सवितुर्वरेण्यं वाग्बहु बहु मे भूयात् स्वाहा इति पीत्वा हस्तं प्रक्षाल्य पुनस्तस्यैकदेशम् इदमन्नयंरस इमा गावः सह श्रिया भर्गो देवस्य धीमहि प्राणो वै वाचो भूयात् बहुर्मे भूयो भूयात् स्वाहेति पुनस्तथैव । इदमन्नमयंरस इमा गावः सह श्रिया धियो यो नः प्रचोदयान्मनो वाव सर्वं सर्वं मे भूयात् स्वाहेति पीत्वा पुनस्तूष्णीं पीत्वाचम्य शेषं ब्राह्मणाय दद्यात् । गौरिति त्रिरुक्ते मांसभक्षणेच्छुश्चेत् कुरुतेति ब्रूयात् । उत्सृक्ष्यन् ओं कृतो धर्मस्तृणान्यत्तु पिबतूदकम् उत्सृजत ( द्रा० श्रौ० १ .२. १९) डति ब्रूयात् । अस्मिन्नर्हणविधौ सूत्रोक्तव्यतिरिक्तं गृह्यमुपसंहृतमविरुद्धत्वात् । तत्रान्ये ब्रुवते । सूत्रकारेण क्रत्वङ्गतया पृथगेव मधुपर्कप्रयोगस्य विधानात् गृह्यकारेण चैवमयज्ञे कुरुते(द्रा० गृ० ४.४.२५-६)ति वचनात्तदा यज्ञेऽपि स्वोक्तस्य कृत्स्नस्य विधेरभ्युपगमात् सूत्रगृह्योक्तयोर्विकल्प एवाश्रयणीयो न त्वनयोरुपसंग्रह इति ।
 
[ देवयजनयाचनम्]
 
मधुपर्कप्रतिग्रहानन्तरं पर्जन्यो म उद्गाता । स मे देवयजनं ददातु इत्युपांशु जपपूर्वमुद्गातर्देवयजनं मे देहि इत्युच्चैर्वचनेन देव- यजनयाचने यजमानेन कृते देवयजनवान् भूयाः इत्युक्त्वा ततो देवयजनगमनकालात् प्राक् तत्तत्कर्मानुष्ठानार्थं प्रस्तोतृसुब्रह्मण्यौ स्था- पयित्वा स्वगृहं गच्छेत् । आपस्तम्बेन तु देवयजनयाचनप्रत्याम्नायत्वेन देवतापस्थानपक्षः उक्तः । सूत्रकारोऽपि तमेव पक्षमाश्रयदित्यवगम्यते । प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौ (ला० श्रौ० १.१.१३) इति वचनात् । स्वयं व्रजेत् क्रय औपवसथे व (ला० श्रौ० १. १.२०) इत्यादिना देवयजनगमनं विधाय पश्चान्मधुपर्कप्रयागेविधानाच्च । यदा हि देवयजनदानार्थमुद्गाता यजमानगृहं गतः तदा प्रहिणुयादिति वचनं नोपपद्यते । देवयजनगमनं विधाय पश्चादर्हणविधानं च । तस्मात्

5 ज्योतिष्टोमपर्व
तन्मते यथाकालमुद्गातरि देवयजनं गते तस्य मधुपर्कदानं वरणं च कार्यम् ।
 
ऋत्विजां नियमाः
Line ४१ ⟶ ४७:
दीक्षणीयाप्रवर्ग्योपसत्प्रायणीयासु प्रस्तोतुः सामगानम् प्रस्तोतारं त्वां वृणा इति यजमानेन वृतः प्रस्तोता पूर्वया द्वारा पत्नीशालां प्रविश्य उत्तरेण अग्नीन् गत्वा पश्चाद्गार्ह- पत्यस्योपविष्टस्तिष्ठन् वा दीक्षणीयायां त्यमूषु ( ग्राम गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी गायेत् । अङ्गानां प्रधानसंनिधौ कर्तव्यत्वात् । यज्ञाङ्गाव्यवायाभिमुख्यप्राङ्मुखकरणानां च विहितत्वात् । यथोक्त एवैषां गमनदेशः तद्गमनमार्गश्च सिद्धः । अत एव प्रवर्ग्यो- द्वासनसूत्रम्-पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन् गत्वा पश्चात् गार्हपत्यस्य तिष्ठन् महावीरायतनं प्रेक्षमाणो वामदेव्यं गायेत (ला० श्रौ० १. ६.१३) इति । इह तु विशेषाश्रावणत् उपविष्टस्तिष्ठन् वेत्युक्तम् । तथा च जैमिनिः ऐष्टिकानि पाशुकानि च सामानि अधिकृत्य आह- प्रागावृत्तस्तिष्ठन्नुपविष्टो वा मध्यमया वाचा गायेत् (जै० श्रौ० २६.५ इति । तत्र दीक्षणायीयां प्रधानयागकाले त्यमूषु (ग्रा० गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी त्रिर्गायेत् । तार्क्ष्यस्त्रिष्टुबिन्द्र इति ऋषिच्छन्दोदेवताः । अङ्गानां प्रधानकालस्य न्याय्यत्वात् प्रधानयागकालः इत्युक्तम् । जैमिनि- राह-यानि पशौ शिष्टानि सामानि वपान्ते तानि गायेत् । प्रदानयागकाले उप सत्सु चेष्टिषु च (२६.३) इति । सर्वत्रानादेशे परिसामानि प्रस्तोता गायेत् स्वाध्यायवत् स्वासु । तृचापत्तीनि तृचेषु त्रिरितराणि (ला० श्रौ० १.५. १२-२) इति । सूत्रे तृचोत्पन्नानां परिसाम्नां तृचे गानमितरेषां तु त्रिर्गानेन तृचीकरणमुक्तमित्यनयोः तार्क्ष्यसाम्नोः प्रत्येकं त्रिर्गानम् । प्रायणीयायां चरुहोमकाले प्रो अयासीद् (सा० ११५२-५४) इति प्रवद्भार्गवं तृचे गायेत् । भृगुर्जगती सोमः ।
 
उद्गातुर्देवयजनगमनोपस्थाने स्वयमुद्गाता राजक्रयकाले औपवसथ्येऽहनि वा देवो देवमेतु (ता० ५१० १.१.२) इति स्वगृहात् प्रथममुदीचीं गत्वा यथाकालं देवयजनं प्रति गच्छेत् । दूरं व्रजित्वा विहाय दौष्कृत्येति बद्वानाम (ला० श्रौ० १ . १. २२-३) इति देवयजनस्य साधारणं पन्थानमापद्य उत्तरं महावेदिपार्श्वमाक्रम्य तनैव स्थित्वा दक्षिण- वेद्यन्तमीक्षमाणः पितरो भूर् तां०ब्रा० १.१.५) इत्युपतिष्ठेत । तत्र

7 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
सूत्रम्-अन्तरेण चत्वालोत्करौ संचरः सर्वत्रानादेशे तदाप्नानं तीर्थम्
ला० श्रौ० ८२१० १.५.३.४) इति ।
 
Line ४९ ⟶ ५८:
 
अथातिथ्यायां प्रधानयागकाले प्रेष्ठं वः ( सा० १२४४-४६) इत्यौशनं तृचे प्रस्तोता गायेत् । उशना गायत्र्यग्निः । तस्यां संस्थितायां प्रतिहर्तारं त्वा वृण इति यजमानेन वृतः प्रतिहर्तेतरे च तानूनप्त्रमाज्य- मवमृश्य हविरसीति सुवितेमा धा ( ला० श्रौ० ५.६.६, वा.सं. ५.५) इत्यन्तं जपेयुः । मदन्तीरप ठपस्पृश्यांशुरंशुष्ट इत्यशीय ( वा.सं. ५.७, ला० श्रौ० ५.६.८) इत्यन्तेन राजानं हिरण्यमन्त- र्धायाभिमृशेयुः । एतदाप्यायनम् । दर्भमये प्रस्तरे दक्षिणं पाणिमुत्तानं कृत्वा तदुपरि सव्य न्यञ्चमेष्टाराय इति पृथिव्या ( ला० श्रौ० ५.६.९) इत्यन्तेन निह्नुवीरन् । निह्नवनं नाम द्यावापृथिव्योर्नमस्कारः । एतत्तानूनप्त्रस्पर्शादिक सूत्रकारेण यद्यपि ब्रह्मत्वप्रकरणे विहितं तथाप्यव- मृशन्तो जपेयुरित्यादिषु बहुवचननिर्देशात् उद्गातृभिरपि कर्तव्यम् । अन्ये त्वाहुः-यद्येतदुद्गातृभिरपि कर्तव्यमभविष्यत् तदा औद्गात्रप्रकरणे एवोक्त्वा ब्रह्मत्वेऽत्यदेक्ष्यत् । यथा सुत्यायां ब्रह्मणः प्राक् सुब्रह्मण्याया औद्गात्रेण समानं कर्मेति न च तथा कृतम् । ब्रह्मत्वप्रकरणे बहुवचननिर्देशे उद्रातृभ्योऽन्यानवार्त्विजोऽभिप्रेत्य दृश्यते । यथा तस्मिन् उपस्पृशेयुर् ( ला० श्रौ० ५.६.७) इति । तस्मान्न कर्तव्यमेव तानूनप्त्रस्पर्शादिकमुद्गातृभिरिति ।
अथ सुब्रह्मण्यः पत्नीशालायां दक्षिणस्य द्वारबाहोः पुरस्तात् सौमिकवेद्यन्तप्रदेशे तिष्ठन् यजमानेन पत्न्या चान्वारब्धो दक्षिणेनोत्क्रम्य ब्रह्मणि तिष्ठति सुब्रह्मण्यामुच्चैराह्वयेत् । आदित्यः संपादिन्द्र इति

9 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
ऋष्यादयः । सुब्रह्मण्योमित्योंकारं प्लावयन् त्रिरुक्त्वोत्तमेन वचनेन सहइन्द्रागच्छेत्यादि ब्रुवाण( ला० श्रौ० ३.१.२) इत्यन्तं निगदं ब्रूयात् । पूर्वयोः प्रणवान्तयोः विरमेत् । मेने ब्रुवाणेति च । त्र्यहे सुत्यामागच्छ मघवन् देवा ब्रह्माण आगच्छतागच्छत(ला० श्रौ० १.३.३-७)इति निगदशेषं ब्रूयात् । एतावदहे सुत्यामिति यावदहे स्याद् ला०श्रौ० १.३.१) इति वचनात् । इदानीं त्र्यहे सुत्यामितिवचनम् । ठत्तरष्वहस्सु द्व्यहे श्वोऽद्येति द्रष्टव्यम् । उप- वसथ्येऽहनि श्वःसुत्यामितिवचनम् । तस्यान्ते श्वः सुत्या गौतमस्य (ला० श्रौ० १.४. १३) इति लिङ्गात् । धानंजय्यमते मघवन्नित्येतन्नास्ति । गौतममते त्वागच्छेत्येतदपि । पूर्वोक्तं चेति ( एवेति?) स्वमतम् । आगच्छ मघवन्निति एकवचनात् इत्यहे सुत्यामागच्छ मघवन् (ष० ब्रा० १.१ .२६) इति षड्विंशब्राह्मणाच्च तस्यैव तु प्रायेणाचारः । तत्र त्र्यहादयः शब्दा अन्तो दात्ताः । शेषाणां सूत्रपठित एव स्वरः । महाभाष्यकारश्चाह सुब्रह्मण्यायामोंकार उदात्तः । सुब्रह्मण्योम् । वाक्यादौ च द्वे द्वे । आकार आख्याते परादिश्च । इन्द्रागच्छ हरिव आगच्छ मघवन्वर्जम् । आगच्छ मघवन् सुप्यापराणामन्तर्द्व्यहे सुत्यां त्र्यहे सुत्याम् ( म० भा० १.२. ३७.१) इति । सुत्याशब्दस्तु संज्ञायां समज (पा० ३.३.९९) इत्यादिना अन्तोदात्तो व्याख्यातः । देवा ब्रह्माण इत्यनयोः वाक्यादौ द्वे द्वे इत्येतन्न प्रवर्तते । देवब्रह्मणोरनुदात्त (पा० १.२.३८) इति द्वितीयस्यानुदात्तवचनात् । अनुदात्तं पदमेकवर्जम् (पा० ६. १.१५८) इति शिष्टं सर्वमनुदात्तम् । एवं सुब्रह्मण्यां त्रिराहूय सासि सुब्रह्मणे (ष० ब्रा० १.२.९) इत्यादीनि षड्विंशब्राह्मणोक्तानि सप्त पदानि यजमानं वाचयित्वाप उपस्पृशेत् । एतच्च यजमानवाचनं यजुर्वेदे अध्वर्युकर्तृकतया विहितम् । षड्विंशे च सुब्रह्मण्यकर्तृकतयेति द्वयमप्याचर्यते । प्रत्याह्वानं वाचनसुपस्पशर्नं चेति केचित् । सुब्रह्मण्योपह्वयस्वेति यजमानवचनोक्त उपहवः । ततः प्रतिगृह्य उपहूत इत्यनुब्रूयात् । एवं पत्न्याप्युक्ते उपहूतेऽत्यनुज्ञाय यथार्थं स्यात् । उपस्पर्शनोपहवौ शिष्टाचारादुक्तौ । इयं सुब्रह्मण्या अध्वर्युसंप्रैषाभावेऽपि कार्येति केचिदाहुः । तत्र प्रमाणं मृग्यम् ।।
 
[ प्रवर्ग्यसामगानम्]</span></poem>
Line ६० ⟶ ७२:
[[File:प्रवर्ग्यसाम १८ Pravargya18.ogg|thumb|प्रवर्ग्यसाम १८ Pravargya18]]
 
<poem><span style="font-size: 14pt; line-height: 200%">अथ प्रस्तोता प्रेषितः पूर्ववत् पश्चात्गार्हपत्यस्योपविश्य प्रवर्ग्यसामानि गायेत् । जैमिनिश्चाह-पश्चिमेन होतारं परीत्य दक्षिणतो घर्माभिमुखं उपविश्य गायेत ( जै० श्रौ० २३.२ ) इति । तत्र यदा देवस्त्वा सविता
<poem><span style="font-size: 14pt; line-height: 200%">अथ प्रस्तोता प्रेषितः पूर्ववत् पश्चात्गार्हपत्यस्योपविश्य प्रवर्ग्यसामानि गायेत् । जैमिनिश्चाह-पश्चिमेन होतारं परीत्य दक्षिणतो घर्माभिमुखं उपविश्य गायेत ( जै० श्रौ० २३.२ ) इति । तत्र यदा देवस्त्वा सविता मध्वानक्तु (वा० सं० ६.२) इति महावीरमञ्जन्ति तदा हावांज (ग्रा० गे० २६.९.५६४ ३) इति शार्ङ्गं त्रिर्गायेन् । कक्षीवान् ऋषिः । जगती छन्दः । घर्मो देवता । सर्वेषां प्रवर्ग्यसाम्नां घर्मो देवता । रजतोपधानकाले कशुक्रंनियुत्वा (आ० गा० ३.६.१४८) इति शुक्रं गायेत् । प्रजापतिर्गायत्री घर्मः । प्रज्वलनकाले कप्रसोमदेववीतय (आ० गा० २.२.१०४-५) इति । घर्मस्य तन्वौ घर्मः प्रजापतिः बृहती । जात- रूपोपधानकाले चन्द्रमत्राह (आ० गा० ३.६.१४९) इति । चन्द्रः । प्रजा- पतिगार्यत्री । अथ केचिदाहुः-आभिरूप्यात् कर्तव्यानीत्येके(ला० श्रौ० १.६.१६) इति सूत्रकारेण परिसाम्नां ब्राह्मणविधानाभावेऽपि आभिरूप्यात् गानं विहितम् । तच्चाभिरूप्यमन्येषामप्यभिरूपाणां साम्नाम् अविशिष्टमिति चन्द्रादनन्तरमवसरे सत्यन्यान्यपि घर्मलिङ्गानि सामानि गायेत् । तद्यथा ओं कायमान ( आ० गा० ६.१.२ १४) इति महावैश्वानरव्रतम् । वैश्वानरो बृहती । कसहो भ्राज (आ० गा० ६.२.२७४) इति इन्द्रस्य च सधस्थम् । इन्द्रस्त्रिष्टुप् । विष्णोस्त्रीणि स्वरीयांसि पञ्चानुगानं द्व्यनुगानं चतुरनुगानं च (आ० ब्रा० ६.२.७. ३-४) इति । विष्णुस्त्रिष्टुप् । एवमन्यान्यपि घर्मलिङ्गानि द्रष्टव्यानि । वयं तु तेषामन्येषामिव परिसाम्नां सूत्रे प्रतिपादनविध्यभावात् प्रतिहारे अनुपादानाच्च न कर्तव्यं गानमित्यवोचाम । रुचितो - घर्म इत्युक्ते उद्यँल्लोकमरोचय (आ० गा० २७९) इति घर्मरोचनं गायेत् । घर्मोऽ- नुष्टुप् । अथ अपश्यं गोपाम् ( गर्भो देवानाम्?) इत्यनुवाकेन तिष्ठन् घर्ममवेक्षेत । रुचितो घर्म इत्युक्तेऽनुवाकेन तिष्ठन्तोऽवेक्षेरन् । यमध्वर्युर्ब्रूयाद् (ला० श्रौ० ५.७.२ ) इति । ब्रह्मत्वे बहुवचनेन विधानादिति केचित् । तदप्यौद्गात्रप्रकरणे विहितं न भवतीति तानूनप्त्रस्पर्शादिवन्न कर्तव्य- मित्यन्ये । गङ्ग एहीत्युक्त्वा यदा धेनुमवसृजन्ति तदा कोहा स्वादिष्टया (आ० गा० ११८) इति धेनुसाम गायेत् । प्रजापतिगार्यत्री । तस्य सामान्तवद्वान्तं स्तोभमुक्त्वा भुवत् । इडेति देवतापदं स्वादिष्ठयेति ऋक्पादं च ब्रूयात् । एवं द्वितीयं देवतापदं ऋक्पादं च । तथा तृतीयम् । पुनश्च वान्तं स्तोभमुक्त्वा करदिडेत्यादि ब्रूयादित्येकः पक्षः । अन्यत्तु पक्षद्वयं सूत्रोक्तं विस्तरभयान्न लिखितम् । यदा पय आहरन्ति तदा इयोइया अग्ने युङ्क्ष्वा (आ० गा० ११९) इति पयो गायेत् । प्रजापतिगार्यत्री । आसेचनकाले आ त्वा विशन्त्विन्दव (ग्रा० ५.९.१९७.१) इति सिन्धुषाम । सिन्धुगार्यत्री । शफाभ्यां परि- ग्रहणकाले हाउप्राथा ( आ० गा० १४६-१४७) इति वसिष्ठस्य शफौ । बसिष्ठस्त्रिष्टुप् । ह्रीयमाणे घर्मे कहिं इन्द्रन्नर० (आ० गा० ९४-९५) व्रतपक्षौ । प्रजापतिस्त्रिष्टुप् । पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । इन्द्रस्त्रिष्टुप् । हुते घर्मे होइहा इमाउवां (आ० गा० १८१-२) इत्यश्विनोर्व्रते । अश्विनौ बृहती । उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । इन्द्रस्त्रिष्टुप् । घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । प्रवर्ग्यसाम्ना- माद्यन्तयोस्त्रिर्गानमुक्तम् । इतरेषां सकृत् । एतानि सामानि प्रति- प्रवर्ग्यं गायेत् । सर्वेषूपसदन्तेषु आतिथ्यान्तवत्सोमाप्यायनं निह्नवनं सुब्रह्मण्याह्वानं च कार्यम् । अपराह्णे निह्नवने सव्यं पाणिमुत्तानं दक्षिणं न्यञ्चं कृत्वेति विशेषः । प्रवर्ग्योद्वासनकाले प्रस्तोता सम्राडा- सन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अध्वर्युप्रेषितः त्यग्नाइर् (ग्रा० १२.१२. ४६५.४) इति प्रवर्ग्यसाम गायेत् । स्तोभान् प्रतिपदमुक्त्वा निधनायैव- वाइ इति ब्रूयात् । ए विश्वमित्यादि (दीनि ?) त्रीणि निधनानि मन्द्रस्वरान्तं कर्षन्तो घर्मोपयुक्ताः सर्वे पत्नी च ब्रूयुः । बृहस्पतिरत्यष्टिरग्निः । एवं मध्ये आहवनीयस्थाने च गायेत् । तत्रास्य स्थानत्रये सकृत् सकृद्गाने समुदायसिद्धं त्रिर्गानम् । न तु प्रतिस्थानं त्रिर्गानम् । तथा च तस्यां त्रिवृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः इति प्रवर्ग्यसाम्नः प्रयोगे अवभृथसाम्नोऽतिदिष्टे तस्य त्रिर्वचने एकविंशतिः पदानि (ष० विं० ३.४.२०) इति श्रुत्युक्तमेकविंशतिपदत्वं तस्योपपद्यते । नान्यथा । परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । परिषिक्ते इष्टाहोत्रीयं (ग्रा० ४. ४.१५१.१) त्रिर्गायेत् । अप्सरसो गायत्रीन्द्रः । तस्य सर्वे पूर्ववन्निधनं ब्रूयुः । प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३, ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । प्रजापतिर्बृहतीन्द्रः । तृचे वैकस्यां बा यजमानो निधनमनूपेयात् । यदैकस्यां तदा आद्यायां ब्रूयात् । अन्त्यायाम् इति केचित् । पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन गत्वा पश्चात् गार्ह- पत्यस्य तिष्ठन् प्रवर्ग्यस्थानं प्रेक्षमाणो वामदेव्यं (ऊ० गा० द० १.५) तृचे गायेत् । वामदेवो गायत्रीन्द्रः । अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।
 
11 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
<poem><span style="font-size: 14pt; line-height: 200%">अथ प्रस्तोता प्रेषितः पूर्ववत् पश्चात्गार्हपत्यस्योपविश्य प्रवर्ग्यसामानि गायेत् । जैमिनिश्चाह-पश्चिमेन होतारं परीत्य दक्षिणतो घर्माभिमुखं उपविश्य गायेत ( जै० श्रौ० २३.२ ) इति । तत्र यदा देवस्त्वा सविता मध्वानक्तु (वा० सं० ६.२) इति महावीरमञ्जन्ति तदा हावांज (ग्रा० गे० २६.९.५६४ ३) इति शार्ङ्गं त्रिर्गायेन् । कक्षीवान् ऋषिः । जगती छन्दः । घर्मो देवता । सर्वेषां प्रवर्ग्यसाम्नां घर्मो देवता । रजतोपधानकाले कशुक्रंनियुत्वा (आ० गा० ३.६.१४८) इति शुक्रं गायेत् । प्रजापतिर्गायत्री घर्मः । प्रज्वलनकाले कप्रसोमदेववीतय (आ० गा० २.२.१०४-५) इति । घर्मस्य तन्वौ घर्मः प्रजापतिः बृहती । जात- रूपोपधानकाले चन्द्रमत्राह (आ० गा० ३.६.१४९) इति । चन्द्रः । प्रजा- पतिगार्यत्री । अथ केचिदाहुः-आभिरूप्यात् कर्तव्यानीत्येके(ला० श्रौ० १.६.१६) इति सूत्रकारेण परिसाम्नां ब्राह्मणविधानाभावेऽपि आभिरूप्यात् गानं विहितम् । तच्चाभिरूप्यमन्येषामप्यभिरूपाणां साम्नाम् अविशिष्टमिति चन्द्रादनन्तरमवसरे सत्यन्यान्यपि घर्मलिङ्गानि सामानि गायेत् । तद्यथा ओं कायमान ( आ० गा० ६.१.२ १४) इति महावैश्वानरव्रतम् । वैश्वानरो बृहती । कसहो भ्राज (आ० गा० ६.२.२७४) इति इन्द्रस्य च सधस्थम् । इन्द्रस्त्रिष्टुप् । विष्णोस्त्रीणि स्वरीयांसि पञ्चानुगानं द्व्यनुगानं चतुरनुगानं च (आ० ब्रा० ६.२.७. ३-४) इति । विष्णुस्त्रिष्टुप् । एवमन्यान्यपि घर्मलिङ्गानि द्रष्टव्यानि । वयं तु तेषामन्येषामिव परिसाम्नां सूत्रे प्रतिपादनविध्यभावात् प्रतिहारे अनुपादानाच्च न कर्तव्यं गानमित्यवोचाम । रुचितो - घर्म इत्युक्ते उद्यँल्लोकमरोचय (आ० गा० २७९) इति घर्मरोचनं गायेत् । घर्मोऽ- नुष्टुप् । अथ अपश्यं गोपाम् ( गर्भो देवानाम्?) इत्यनुवाकेन तिष्ठन् घर्ममवेक्षेत । रुचितो घर्म इत्युक्तेऽनुवाकेन तिष्ठन्तोऽवेक्षेरन् । यमध्वर्युर्ब्रूयाद् (ला० श्रौ० ५.७.२ ) इति । ब्रह्मत्वे बहुवचनेन विधानादिति केचित् । तदप्यौद्गात्रप्रकरणे विहितं न भवतीति तानूनप्त्रस्पर्शादिवन्न कर्तव्य- मित्यन्ये । गङ्ग एहीत्युक्त्वा यदा धेनुमवसृजन्ति तदा कोहा स्वादिष्टया (आ० गा० ११८) इति धेनुसाम गायेत् । प्रजापतिगार्यत्री । तस्य सामान्तवद्वान्तं स्तोभमुक्त्वा भुवत् । इडेति देवतापदं स्वादिष्ठयेति ऋक्पादं च ब्रूयात् । एवं द्वितीयं देवतापदं ऋक्पादं च । तथा तृतीयम् । पुनश्च वान्तं स्तोभमुक्त्वा करदिडेत्यादि ब्रूयादित्येकः पक्षः । अन्यत्तु पक्षद्वयं सूत्रोक्तं विस्तरभयान्न लिखितम् । यदा पय आहरन्ति तदा इयोइया अग्ने युङ्क्ष्वा (आ० गा० ११९) इति पयो गायेत् । प्रजापतिगार्यत्री । आसेचनकाले आ त्वा विशन्त्विन्दव (ग्रा० ५.९.१९७.१) इति सिन्धुषाम । सिन्धुगार्यत्री । शफाभ्यां परि- ग्रहणकाले हाउप्राथा ( आ० गा० १४६-१४७) इति वसिष्ठस्य शफौ । बसिष्ठस्त्रिष्टुप् । ह्रीयमाणे घर्मे कहिं इन्द्रन्नर० (आ० गा० ९४-९५) व्रतपक्षौ । प्रजापतिस्त्रिष्टुप् । पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । इन्द्रस्त्रिष्टुप् । हुते घर्मे होइहा इमाउवां (आ० गा० १८१-२) इत्यश्विनोर्व्रते । अश्विनौ बृहती । उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । इन्द्रस्त्रिष्टुप् । घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । प्रवर्ग्यसाम्ना- माद्यन्तयोस्त्रिर्गानमुक्तम् । इतरेषां सकृत् । एतानि सामानि प्रति- प्रवर्ग्यं गायेत् । सर्वेषूपसदन्तेषु आतिथ्यान्तवत्सोमाप्यायनं निह्नवनं सुब्रह्मण्याह्वानं च कार्यम् । अपराह्णे निह्नवने सव्यं पाणिमुत्तानं दक्षिणं न्यञ्चं कृत्वेति विशेषः । प्रवर्ग्योद्वासनकाले प्रस्तोता सम्राडा- सन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अध्वर्युप्रेषितः त्यग्नाइर् (ग्रा० १२.१२. ४६५.४) इति प्रवर्ग्यसाम गायेत् । स्तोभान् प्रतिपदमुक्त्वा निधनायैव- वाइ इति ब्रूयात् । ए विश्वमित्यादि (दीनि ?) त्रीणि निधनानि मन्द्रस्वरान्तं कर्षन्तो घर्मोपयुक्ताः सर्वे पत्नी च ब्रूयुः । बृहस्पतिरत्यष्टिरग्निः । एवं मध्ये आहवनीयस्थाने च गायेत् । तत्रास्य स्थानत्रये सकृत् सकृद्गाने समुदायसिद्धं त्रिर्गानम् । न तु प्रतिस्थानं त्रिर्गानम् । तथा च तस्यां त्रिवृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः इति प्रवर्ग्यसाम्नः प्रयोगे अवभृथसाम्नोऽतिदिष्टे तस्य त्रिर्वचने एकविंशतिः पदानि (ष० विं० ३.४.२०) इति श्रुत्युक्तमेकविंशतिपदत्वं तस्योपपद्यते । नान्यथा । परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । परिषिक्ते इष्टाहोत्रीयं (ग्रा० ४. ४.१५१.१) त्रिर्गायेत् । अप्सरसो गायत्रीन्द्रः । तस्य सर्वे पूर्ववन्निधनं ब्रूयुः । प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३, ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । प्रजापतिर्बृहतीन्द्रः । तृचे वैकस्यां बा यजमानो निधनमनूपेयात् । यदैकस्यां तदा आद्यायां ब्रूयात् । अन्त्यायाम् इति केचित् । पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन गत्वा पश्चात् गार्ह- पत्यस्य तिष्ठन् प्रवर्ग्यस्थानं प्रेक्षमाणो वामदेव्यं (ऊ० गा० द० १.५) तृचे गायेत् । वामदेवो गायत्रीन्द्रः । अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।
 
13 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
प्रजापतिस्त्रिष्टुप् । पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । इन्द्रस्त्रिष्टुप् । हुते घर्मे होइहा इमाउवां (आ० गा० १८१-२) इत्यश्विनोर्व्रते । अश्विनौ बृहती । उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । इन्द्रस्त्रिष्टुप् । घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । प्रवर्ग्यसाम्ना- माद्यन्तयोस्त्रिर्गानमुक्तम् । इतरेषां सकृत् । एतानि सामानि प्रति- प्रवर्ग्यं गायेत् । सर्वेषूपसदन्तेषु आतिथ्यान्तवत्सोमाप्यायनं निह्नवनं सुब्रह्मण्याह्वानं च कार्यम् । अपराह्णे निह्नवने सव्यं पाणिमुत्तानं दक्षिणं न्यञ्चं कृत्वेति विशेषः । प्रवर्ग्योद्वासनकाले प्रस्तोता सम्राडा- सन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अध्वर्युप्रेषितः त्यग्नाइर् (ग्रा० १२.१२. ४६५.४) इति प्रवर्ग्यसाम गायेत् । स्तोभान् प्रतिपदमुक्त्वा निधनायैव- वाइ इति ब्रूयात् । ए विश्वमित्यादि (दीनि ?) त्रीणि निधनानि मन्द्रस्वरान्तं कर्षन्तो घर्मोपयुक्ताः सर्वे पत्नी च ब्रूयुः । बृहस्पतिरत्यष्टिरग्निः । एवं मध्ये आहवनीयस्थाने च गायेत् । तत्रास्य स्थानत्रये सकृत् सकृद्गाने समुदायसिद्धं त्रिर्गानम् । न तु प्रतिस्थानं त्रिर्गानम् । तथा च तस्यां त्रिवृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः इति प्रवर्ग्यसाम्नः प्रयोगे अवभृथसाम्नोऽतिदिष्टे तस्य त्रिर्वचने एकविंशतिः पदानि (ष० विं० ३.४.२०) इति श्रुत्युक्तमेकविंशतिपदत्वं तस्योपपद्यते । नान्यथा । परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । परिषिक्ते इष्टाहोत्रीयं (ग्रा० ४. ४.१५१.१) त्रिर्गायेत् । अप्सरसो गायत्रीन्द्रः । तस्य सर्वे पूर्ववन्निधनं ब्रूयुः । प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३, ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । प्रजापतिर्बृहतीन्द्रः । तृचे वैकस्यां बा यजमानो निधनमनूपेयात् । यदैकस्यां तदा आद्यायां ब्रूयात् । अन्त्यायाम् इति केचित् । पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन गत्वा पश्चात् गार्ह- पत्यस्य तिष्ठन् प्रवर्ग्यस्थानं प्रेक्षमाणो वामदेव्यं (ऊ० गा० द० १.५) तृचे गायेत् । वामदेवो गायत्रीन्द्रः । अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।
 
[ औदुम्बर्युच्छ्रयणम्]
 
अथोद्गाता औदुम्बरीमुच्छ्रयिष्यन् देवयजनं पूर्वेण
अथोद्गाता औदुम्बरीमुच्छ्रयिष्यन् देवयजनं पूर्वेण गत्वा आप्नानेन तीर्थेन प्रविशेद्यदि दक्षिणतः स्ववसतिः स्यात् । अन्यतश्चेदुत्तरेण सदः पूर्वया द्वारा स्थूणार्थयोः श्वभ्रयोः मध्यतः प्रविश्य पूर्वमेव प्रागग्रं निहिताया औदुम्बर्या अग्रेण गत्वा दक्षिणत उदङ्मुखस्तिष्ठन् अध्वर्युणा सह दक्षिणो- त्तरोत्तानाभ्यां पाणिभ्यां द्युतानस्त्वेति पृथिवीम् (तां० ब्रा० ६.४.२) इत्यन्तेन तामुच्छ्रयेत् । आयोरिति हृदय (तां० ब्रा० ६.४.३ ) इत्यन्तेन श्वभ्रे ऽवधाय नमः समुद्रायेत्यन्नं मे धेहि (ला० श्रौ० १.७.५४, तां० ब्रा० ६. ४.७-११) इत्यन्तं जपेत् । यावदध्वर्युरेन्द्रमसि (वा० सं० ५.३०) इति छदिभिरवच्छादयति तावदौदुम्बरीं न विसृजेत् । अध्वर्युणा कृते होमे तस्यैव प्रकारेण विशाखे अन्तरेण निहिते हिरण्ये घृतेन द्यावापृथिवी आप्रीणाथां स्वाहा (ला० श्रौ० १. ७.७) इति पूर्वाम् आहुतिं यथा भूमिमाज्यं प्राप्स्यति तथा जुहुयात् । प्रजापतये स्वाहा ला० श्रौ० १.७.९) इत्युत्तराम् । आज्यं होमचोदनास्वनादेशे इति वचनात् । आज्येन होमः विशाखस्य अधस्ताद्धस्तद्वयेन परि- गृह्य दिवि देवान् दृंह मयि प्रजाम् ( ला० श्रौ० १. ७.११) इति जपेत् । मध्ये गृहीत्वा अन्तरिक्षे वयांसि दृंह मयि पशून् (ला० श्रौ० १ .७. ११) इति । मूले गृहीत्वा पृथिव्यामध्योषधीर्दृंह मयि सजातान् (ला० श्रौ० १.७.१२) इति अवच्छाद्यमानायामौदुम्बर्यां दिव्यं छद्मसीति हिंसीर् (ला० श्रौ० १.७.१५) इत्यन्तेन तां विसृज्य प्रवेशमार्गेण निष्क्रामेत् ।।
 
15 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
अथोद्गाता औदुम्बरीमुच्छ्रयिष्यन् देवयजनं पूर्वेण गत्वा आप्नानेन तीर्थेन प्रविशेद्यदि दक्षिणतः स्ववसतिः स्यात् । अन्यतश्चेदुत्तरेण सदः पूर्वया द्वारा स्थूणार्थयोः श्वभ्रयोः मध्यतः प्रविश्य पूर्वमेव प्रागग्रं निहिताया औदुम्बर्या अग्रेण गत्वा दक्षिणत उदङ्मुखस्तिष्ठन् अध्वर्युणा सह दक्षिणो- त्तरोत्तानाभ्यां पाणिभ्यां द्युतानस्त्वेति पृथिवीम् (तां० ब्रा० ६.४.२) इत्यन्तेन तामुच्छ्रयेत् । आयोरिति हृदय (तां० ब्रा० ६.४.३ ) इत्यन्तेन श्वभ्रे ऽवधाय नमः समुद्रायेत्यन्नं मे धेहि (ला० श्रौ० १.७.५४, तां० ब्रा० ६. ४.७-११) इत्यन्तं जपेत् । यावदध्वर्युरेन्द्रमसि (वा० सं० ५.३०) इति छदिभिरवच्छादयति तावदौदुम्बरीं न विसृजेत् । अध्वर्युणा कृते होमे तस्यैव प्रकारेण विशाखे अन्तरेण निहिते हिरण्ये घृतेन द्यावापृथिवी आप्रीणाथां स्वाहा (ला० श्रौ० १. ७.७) इति पूर्वाम् आहुतिं यथा भूमिमाज्यं प्राप्स्यति तथा जुहुयात् । प्रजापतये स्वाहा ला० श्रौ० १.७.९) इत्युत्तराम् । आज्यं होमचोदनास्वनादेशे इति वचनात् । आज्येन होमः विशाखस्य अधस्ताद्धस्तद्वयेन परि- गृह्य दिवि देवान् दृंह मयि प्रजाम् ( ला० श्रौ० १. ७.११) इति जपेत् । मध्ये गृहीत्वा अन्तरिक्षे वयांसि दृंह मयि पशून् (ला० श्रौ० १ .७. ११) इति । मूले गृहीत्वा पृथिव्यामध्योषधीर्दृंह मयि सजातान् (ला० श्रौ० १.७.१२) इति अवच्छाद्यमानायामौदुम्बर्यां दिव्यं छद्मसीति हिंसीर् (ला० श्रौ० १.७.१५) इत्यन्तेन तां विसृज्य प्रवेशमार्गेण निष्क्रामेत् ।।
 
[ अग्नीषोमीयप्रणयने सामगानं, यूपोच्छ्रयणं च]
Line ७२ ⟶ ९३:
कुशाकरणम् अग्नाषोमीयवपासुब्रह्मण्याह्वानं नामादेशश्च
 
सौत्येऽहनि वाचा ग्लानिर्माभूदित्येवमर्थमुपवसथ्येऽहनि न स्वाध्यायाध्ययनं कुर्युः । प्रस्तोता यज्ञवृक्षसंबन्धिनी प्रादेशमात्रीः त्वग्- भागे कुशपृष्ठसमानपृष्ठाः समीकृतभिन्नप्रदेशा अङ्गुष्ठपर्वपृथुमात्रीः यथामूलस्थूला यथाग्रसूक्ष्माश्च कुशाः कारयित्वा गन्धवतीभिरोषधीभि हरिद्राकुङ्कुमादिभिरनुलिप्य कुशाविधानेन क्षौमादिना परिवेष्य औदुम्बरीमध्यमधिवासयेत् । अग्नीषोमीयवपाहोमान्ते सुब्रह्मण्य उत्करे तिष्ठन् सनामग्रहां सुव्रह्मण्यामाह्वयेत् । पूर्ववत् गौतमब्रुवाणान्तमुक्त्वा सुत्यादेशात् पूर्वं यजमानस्य अभिवादनीयं नाम गृह्णीयात् । यज्ञशर्मा यजत इति । ततस्तस्य पितुर्मातुश्च रुद्रशर्मणः पुत्रो यजते उमादेवी- दाया पुत्रा यजत इति । ततः पितामहस्य पितामह्याश्च प्रजापति- शर्मणः पौत्रो यजते सरस्वतीदेवीदायाः पौत्रो यजत इति । ततः

17 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
प्रपितामहस्य प्रपितामह्याश्च विष्णुशर्मणो नप्ता यजते श्रीदेवीदाया नप्ता यजते इति । द्विपित्रादिकस्य द्बयानां पित्रादीनां नामग्रहणम् । एवं पूर्वेषां नामानि गृहीत्वा यजमानस्य अपत्यानां स्त्रीपुंसानां जीवतां ज्येष्ठक्रमेण नामानि गृह्णीयात् । देवशर्मणः पिता यजते देवीदायाः पिता यजते इति । एवं पुत्रापत्यानां पौत्रापत्यानां च । देवदत्तस्य पितामहो यजते देवदत्तायाः पितामहो यजत इति । प्रपितामह इति च । ततो जनिष्यमाणानां पिता पितामहः प्रपितामहो यजत इत्युक्त्वा सुत्यादेशादि ब्रूयात् । यजतिशब्देषु प्रत्येकं विरमेत् । यदा पुत्रात् पौत्रो ज्येष्ठः पौत्राद्वा नप्ता तदापि पुत्रवर्गं समाप्य पौत्र- वर्गस्य ग्रहणम् । पौत्रवर्गं समाप्य नस्तृवर्गस्य ग्रहणम् । पतित- प्रव्रजितानां नामग्रहणम् । अत्र अमुष्य पुत्र इति सूत्रे पुंलिङ्गस्य अविवक्षितत्वात् मात्रादीनामपि ग्रहणमुक्तम् । तथा च दीक्षितप्रवचने तासामपि ग्रहणं दृश्यते । अन्ये त्वाहुः- मात्रादीनां नामग्रहणं न कर्तव्यम् । पुंलिंगस्याविवक्षायां प्रमाणाभावात् । अपरेषां यथाज्येष्ठं स्त्रीपुंसानाम् इत्यत्र स्त्रीग्रहणाच्च । निदाने च नामग्रहः किमर्थम् इत्यु- पक्षिप्य तस्य प्रयोजनमुक्तम्-उच्चावचचरणाः स्त्रियो भवन्ति । तदिह देवसाक्ष्ये च मनुष्यसाक्ष्ये च येषां पुत्रो वक्ष्यते तेषां पुत्रो भविष्यामि । यांश्च पुत्रान् वक्ष्ये ते पुत्रा भविष्यन्ति (नि० सू० ३. ८) इति । ततश्च पित्रादिष्वेव संदेहः इति तेषामेव नामग्रहणं न मात्रादीनामिति ।। नामग्रहणे प्रथमान्तानां यज्ञशर्मेत्यादीनां षष्ठ्यन्तानां च रुद्र- शर्मण इत्यादीनाम् अन्त्यमक्षरमुदात्तम् । अर्थनिर्वचनमुच्चान्तमिति वचनात् । अर्थो निरुच्यते प्राधान्येन प्रतिपाद्यतेऽनेनेति अर्थ- निर्वचनं पदम् । पदग्रहणमेव तु न कृतम् । समासे पूर्वपदस्योच्चान्तत्वं मा भूदिति । महाभाष्यकारश्चाह-असावित्यन्त उदात्तः । गार्ग्यो यजते वात्स्यो यजते इति । अमुष्येत्यन्त उदात्तः । दाक्षेः पिता यजते (म० भा० १.२.३.७) इति । दाक्षेः पितामहो यजत इति षष्ठ्येकवचनस्य यथागमादेशौ ताभ्यां पूर्वस्तौ चोदात्ताः । उमादेवीदायाः देवदत्तस्येति । तदुक्तम्-वैभक्ते चास्यादौ वैभक्तश्चैव(द्रा० श्रौ ० १.३.२४)ति । आद्यस्य अन्तस्य उपोत्तमं च । चकारादन्तश्च । गार्ग्यस्य पिता यजते वत्सस्य पिता यजते इति । उदात्तात्परम् अनुदात्तम् । अनुदात्ते परत उदात्तम् । उच्चाच्च नीचे नीचम् (द्रा० श्रौ० १.३ .२५) इति वचनात् । यथा पिता- महस्यादिः प्रपितामहस्य च । अनयोस्त्वर्थनिर्वचनमित्युच्चत्वं स्थितमेव च । उच्चाच्च नीचे नीचमित्यनेन च अर्थनिर्वचनामित्यीदिवचनान्तर०

19 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
सिद्ध एव उदात्तोऽनूद्यते न तु स्वेनापि विहितः । प्रवृत्तिदशायां तस्यासिद्धत्वात् । ततश्चैतत् सिद्धम्-पितामहे ताशब्दस्य प्रपितामहे पिशब्दस्य च उदात्तत्वं न भवतीति । व्याकरणे च न सुब्रह्मण्यायां स्वरितस्य तूदात्त (पा० सू० १ .२. ३७) इत्यस्य सूत्रस्य प्राप्तिं जानतां विस्पष्टैवेयं स्वरव्यवस्था । जनिष्यमाणानामित्यस्यार्थनिर्वचन- स्यापि ष्यमाशब्दावुदात्तौ । यजत इत्यस्य चादिः । तदुक्तम् - जनिष्यमाणानां मध्ये द्वे यजेश्चादिर् (द्रा० श्रौ० १.३.२६-७) इति । उदात्त- व्यतिरिक्तं सर्वमनुदात्तमिति । स्वरशेषं पूर्ववत् । एवं वसतीवरीषु परिहृतासु सनामग्रहणमाह्वानं कुर्यात् ।
 
[ अथ प्रातःसवनम-प्रातरनुवाकोपाकरणे सामगानम्]
Line ८० ⟶ १०७:
[ विश्वरूपागानं सुब्रह्मण्याह्वानज्योतिर्गाने च ]
 
अथ यजमानो विश्वरूपा गायेत्युद्गातारं ब्रूयात् । स च प्रत्याचक्षीत तस्य नवतिशतं स्तोत्रीया तां० ब्रा० १६.१ .८) इत्युक्तचतु- ष्टोमसंपदतिरकात् ग्रहशस्त्राभावाच्च नाहं गायामीति । परिसामत्वात् परिसामान्तरवन्न संपत्कोपः । वसतीवरीप्रातरनुवाकौ ग्रहशस्त्रे तस्माद्- गायेति यजमानेन प्रत्युक्तो न मामनामन्त्र्य प्रातरनुवाकमुपाकुर्या (ला० श्रौ० १.८.७) इत्यध्वर्युमुक्त्वा प्रातरनुवाकायोपविष्टं होतारं पूर्वेण गत्वा दक्षिणस्य हविर्धानस्योत्तरं चक्रमभ्यपश्रयमाण उदङ्मुख उपविशेत् । यजमानश्चोद्गातुः पुरस्तात् प्रत्यङ्मुखः । उद्गाता युञ्जे वाचम् (सा० १८२९) इत्यस्यां पङ्क्तौ गात्रमोङ्कारेण आर्चिकस्वरेण मध्यमया वाचा त्रिर्गायेत् । परिसामत्वात् ओंकारेण उद्गीथादानं नास्ति । यजमानो मनसैव तत्सवितुर्वरेणियोमिति त्रिपदावदार्चिकगानं त्रिः कुर्यात् ।

21 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
तत्रेदमार्चिकं गानं युञ्जे वाचं शतपदीम् गायेत् सहस्रवर्तनि । गायत्रं त्रैष्टुभं जगद्विश्वारूपाणि संभार्ता२ । देवा ओकांसि चा १२१२ । हिम् । आ२ । क्राइरो । आ २३४५ (सा० १८२९-१८३०) इति । पुष्कलः पङ्क्तिर्विश्वरूपाः । वपाहोमान्तवत् प्रातरनुवाकोप क्रमवेलायां सुब्रह्मण्याह्वानम् । अद्य सुत्यामिति विशेषः । प्रातरनु- वाके परिहृतेऽपोनप्त्रीयनामसूक्तात् पूर्वं होतारम् आरमयन् ज्योतींष्यपि उद्गाता गायेत् । प्रवरानन्तरं पवित्रं धारयन् अग्निर्ज्योतिर्ज्योतिरित्येतत् त्रिरभ्यासार्चिकगायत्रगानं मनसा कुर्यात् । तद्यथा-अग्निर्ज्र्योति- र्ज्योतिरग्नीम् । अग्निर्ज्योतिर्ज्योतिरग्ना२इः । अग्निर्ज्योतिर्ज्योताइ । हिम् । आ२ । आग्नोः आ । इति । एवम् इन्द्रो ज्योतिर्ज्योतिरिन्द्रोम् इति । सूर्यो ज्योतिर्ज्योतिस्सूर्योम् इति च । पुष्कलो गायत्री अग्नीन्द्रसूर्याः । अत्र त्रिभिर्गायत्रैः तृचस्य सिद्धत्वात् प्रतिगायत्रं त्रिर्गानं न कार्यम् ।।
 
[ प्रातरनुवाकान्ते प्रस्तोत्रादीनां वेद्यामुपवेशनम् ]
Line ९० ⟶ १२०:
अथ बहिष्पवमानस्य उप-दवि-पव (सा० ६५१-५९ इति नवर्चो जपेयुः । पुरस्ताच्चोपरिष्टाच्चर्चः सर्वत्र जपेयु यासु करिष्यन्त स्यु । अत्र तु बहिष्पवमानस्य (ला० श्रौं ० सू० १९१८-१९३) इति वचनात् ऋक्समाम्नाये ज्योतिष्टोमप्रकरणे एतासां प्रथमाम्नानात् ब्राह्मणे च उपास्मै गायता नर इति ग्रामकामाय प्रतिपदं कुर्याद् (तां० ब्रा० ६.९.१) इति प्रतिपद्विधाने बहि स्तुवन्ति (तां० ब्रा० ६.८.११) इति वचनेन चैतासामेव सूचितत्वात् सूत्रे च उपास्मै गायता नरोमिति धानंजय्य (ला० श्रौ० ७ .१०. १९) इति प्रकृत्य त्रिरुद्गृह्णातीति ब्राह्मणं भवाति (ला० श्रौ० ७.१.२३) इत्यादिनैतास्वेव धूर्गानविधानात् बहिष्पवमानस्य एता ऋच इति सिद्धम् । सर्वत्र स्तोत्राङ्गभूतानामृचां साम्नां च यथासमाम्नायमेव स्वरः कार्यः । न त्वैकश्रुत्यम् । तद्धि यज्ञकर्मण्यजपन्न्यूङ्खसामसु (पा० १. २ .३४) इति पाणिनीयस्मृत्या जपादिव्यतिरिक्तानां मन्त्राणां विधीयते ।।
 
 
२३ उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
[ सोमेऽभिषुते प्रोहणग्रावसंसादनाध्यूहनानि]
 
Line १०५ ⟶ १३७:
[ ऋत्विजां वरणसंसर्पणे प्रवृत्तहोमश्च ]
 
यदाध्वर्युराग्रयणं गृह्णन् हिंकरोति तदा प्रवृणीरन्नग्नि प्रस्तोताहं मानुष इति प्रस्तोता ब्रूयात् । बृहस्पतिरुद्गाताहं मानुष इत्युद्गाता ब्रूयान् । वायुः प्रतिहर्ताहं मानुष इति प्रतिहर्ता । अत ऊर्ध्वमाबहिष्पवमानस्तोत्रसमापनात् वाचं यच्छेयुः । उद्गातॄणां पश्चिमस्थाने ध्रुवस्थालीमध्वर्यवो हृत्वा तेनैव प्रतिहरेयुः । न पुनरग्रेणैषाम् । अथ कृतपवित्राभिपीडनं

25 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
हविर्धानान्निःसर्पन्तम् अध्वर्युं प्रस्तोता दक्षिणेन हस्तेन अन्वारभते । तमुद्गातोद्गातारं प्रतिहर्ता, तं ब्रह्मा, ब्रह्माणं यजमान इत्येवं संसर्पन्त एव गच्छेयुः । तदुक्तम्-पञ्चर्त्विजः संरब्धाः सर्पन्तीत्येतानाह । दोषवचनात् व्यवच्छेदाज्जुगुप्सेरन्न् (द्रा० श्रौ० ३.३. १३-१४) इति अध्वर्युणा हुते गत्यानुपूर्व्येणोदकमालभ्य सव्येन पाणिना वेकुरा नामासि सूर्यो मा (तां० ब्रा० १.३ .१-२) इति च प्रवृतहोमौ कुर्युः । ऋचँसाम ( सा० ३६९) इति स्वाहान्तेन तृतीयं होममधिकमुद्गाता कुर्यात् । असंजातविरोध्यवस्थायां दक्षिणेन हस्तेनान्वारम्भात् तद्विच्छेदस्य चायुक्तत्वात् अर्थप्राप्तोऽत्र सव्येन होमः । आपस्तम्बेन तु होमानन्तर० मन्वारम्भ उक्तः । तस्मिन् पक्षे दक्षिणेनैव पाणिना होमं कृत्वा जपेयुः । ब्रह्माहं गायत्रमिति पर्यूह (ला० श्रौ० १.११.१५) इत्यन्तम् ।।
 
[प्रस्तोत्रादीनां सर्वस्तोत्रार्थमासनोपवेशननियम उपगाननियमश्च]
Line ११३ ⟶ १४८:
[बहिष्पवमानस्तोत्रगानविधौ प्रस्तावादिभक्तय स्वरनियमाश्च ]
 
अध्वर्युणा दीयमानं प्रस्तरं प्रस्तोता प्रतिगृह्य ब्रह्मन् स्तोष्यामः प्रशास्तरित्युक्त्वा ठद्गात्रे प्रयच्छेत् । स प्रस्तरेण दक्षिणां जङ्घाम् उप- हत्याग्नेस्तेजसा(तां० ब्रा० १३५) इति स्तोमं युञ्ज्यात् । अन्नं करि- ष्यामि(तां० ब्रा० १ .२.१)इति जपेत् । चत्वालोदपात्रे तूष्णीमवेक्षेरन् । सामासि प्रतिमा भाहीत्यादित्यं तूष्णीं वा । बहिष्पवमानस्य पुष्कलो गायत्री सोम इत्यृष्यादयः इम वै लोका गायत्रम् (तां० ब्रा० ७.१. १) इति गायत्रविधिब्राह्मणम् । स तु वै यज्ञेन यजेत(तां० ब्रा० ६.८.१) इति बहिष्पवमानस्य ब्राह्मणम् । मनो हिंकार (जै० उ० ब्रा० १.११.१.३) इति भक्त्युपासनविधिब्राह्मणम् । धूर्गानस्य प्रजापतिरकामयत (ष० वि० ब्रा० २.१. १) ता वा एता ( ष० वि० ब्रा० २.२.१) इति षड्विंशब्राह्मणम् । रेतस्या गायत्री त्रिष्टुब्जगत्यनुष्टुप् पङ्क्तिर्द्वे गायत्र्यौ रथन्तरवर्णेति धुराश्छन्दांसि । प्रजापतिरग्निरिन्द्रः सूर्यः प्रजापतिः सोम इति देवताः । अन्नमनसी प्राणापानौ चक्षुषी श्रोत्रे

27 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
वाक् समानोदानाविति सर्वं पृथिव्यन्तरिक्षं द्यौः सर्वं दिश इति ध्यानानि । प्रस्तावस्य प्राणो देवता । आदित्य उद्गीथस्य । अन्नं प्रतिहारस्येत्युषस्तिब्राह्मणे दर्शितम् । तत् सर्वं स्तुतिष्वनुसंधेयम् । विनर्द्दिसाम्नो वृणेऽपशव्यम् (जै० उ० ब्रा० १.१६.३.८) इत्यग्नेरित्यनु- वाकोक्तं च । तत्र स्वधापितृभ्यः इत्यादिष्वपि वाक्येषु आगायानि इति पदमनुषज्जनीयम् ।
अथ सकृद्धिंकृत्य बहिष्पवमानेन स्तुवीरन् । सर्वत्र हिंकारकाले शुनां समुपवेशनं कुर्युः । उपास्मै गायता नर (सा० ६५१-९) इत्याद्यासु नवसु ऋक्षु प्रत्यृचं गायत्रं गेयम् । बहिष्पवमानं प्रकृत्येमे वैं लोका गायत्रम् ( तां० ब्रा० ७ .१. १) इत्यादिना गायत्रस्वरूपवर्णनात् । गीतिविकारो गायत्रस्य धुरः स्तोत्रीयानुरूपयोर् ( ला० श्रौ० सू० ७. १२.१-२) इति बहिष्पवमानस्यर्चोऽधिकृत्य वचनाच्च । तस्य सर्वत्राद्यः पाद ओंकारान्तः प्रस्तावः । आद्यपात् प्रस्ताव ओंकारान्त ( आ० ब्रा० १.१.१६) इति श्रुते । गायत्रस्य पदेन प्रस्तावः सर्वत्र । अष्टाक्षरेणेति धानंजय्य ( ला० श्रौ० सू० ७ .१०. १५-६) इति वचनाच्च । सर्वेषां स्तोत्रसाम्नामोमित्युक्त्वोद्गातोद्गीथमाददीतेति पूर्वमेव प्रतिपादितम् । परमेष्ठी देवी गायत्री परमात्मेत्योंकारस्य ऋष्यादयः । क्रुष्टादिस्वराणां क्रुष्टः प्राजापत्य इत्युक्ता देवता। रेतस्यां पवमाना- येन्दवा इत्येवं त्रिरुद्गृह्णीयादिति धूर्गानाख्यो विशेष उक्तः । अभि- देवाँ इयेत्यादि धियो यो नः प्रचोदयादित्यादिवदूगेयं गायत्रेषु प्रस्तावादूर्ध्व- मार्चिकं गानं मनसा कुर्वन्नोंकारेणार्चिकस्वरेण वाचा गायेदुद्गाता । तथा च ब्राह्मणम् -अनिरुक्तं गेयमेतद्वै गायत्रस्य क्रूरं यन्निरुक्तम् (तां० ब्रा० ७ .१. ८) इति । सूत्रं च-शेषमुद्गाता मनसा तु स्वभक्तिमोंकारं तथा स्वरं वाचा (ला० श्रौ० सू० ७. १०.२०) इति । हिम् आ इति हिंकारमुद्गाता रेतस्यायां न ब्रूयात् । अहिंकृता प्रथमा रेतस्ये- (ला० श्रौ० १. १२.८) ति वचनात् । सादिति निधनं त्रयो ब्रूयुः । ठद्गातैव वा । तथा निदानप्रकरणे सूत्रम्-गायत्रे तु विकल्पः । सर्वे चोद्गाता वेति । गायत्रप्रकरणे च सर्वे वा निधनं न्यायादिति रेतस्याया ऊर्ध्वं हिंकारमप्युद्गाता वाचा ब्रूयात् । ऊर्ध्वं रेतस्याया द्व्यक्षरं शिष्ट्वा हिकारं ब्रूयाद्(ला० श्रौ० सू० ७.११. ३) इति वच- नात् । मनसा तु प्रतिहर्ता । हिंकारो वै गायत्रस्य प्रतिहारः । स मनसा ध्येय (तां० ब्रा० ७. १. ४-५) इति श्रुतेः । द्वितीयायामशिश्रादेयु- र्वन्दे वायेत्यक्षरव्यत्यय । आर्चिकगाने विशेषः । तत्सवितुर्गायत्रवद् गेयम् । सामिति निधनम् । तृतीयायां शांजानायेत्यादिरार्चि- कगाने विशेषः । तथा स्वरमोंकारं ब्रुवाणः षाध इत्येतन्निरुक्तं गायेत् । सुवरिति निधनम् । चतुर्थ्यामृच एवाक्षराणीत्यष्टाक्षरः । प्रस्तावार्थं तत्सवितुर्वरेणियोमितिवद्दविद्युततियारुचोमिति विकर्षेण प्रस्तावः । पारिष्टोभान्तायेत्यादिरार्चिकगाने विशेषः । सोमा शुक्रा इत्येतदार्चिकं वाचा गायेत् । इडेति निधनम् । पञ्चम्यामावाजं वाज्यक्रमीदित्यादिरार्चिकगाने विशेषः । तस्या द्वितीयं पादं नुषा इति च निरुक्तं ब्रूयात् । वाक् इति निधनम् । षष्ठ्यामृधक्सोमसुवस्तयोमितिषष्ठ्यामृधक्सोम-

29 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
सुवस्तयोमिति विकर्षेण प्रस्तावः । संजग्मानो इत्यादिरार्चिके विशेषः । आकार एव निधनम् । अतः परासु धूर्गानाभावात् तत्सवितुर्गायत्रा- भावान्न विशेषः । उत्तमा रथन्तरवर्णा । तस्यामास्तां गावो इति चतुर्भिरक्षरैश्चतुःकषर्णं कृत्वा न धेनावा इति पुनः कर्षणं कुर्यात् इत्यार्चिकगाने विशेषः । तत्तु मानसम् । वाचिके तु भाशब्देन चतुष्कर्षणं कृत्वा शेषं तथा स्वरेण ओंकारेण गायेत् । हिम्मित्याविसृष्टं हिंकारं ब्रूयात् । रथन्तरवर्णोत्तमा आविसृष्टहिंकरा (ला०श्रौ० १.१२.१०) इति वचनात् । एवं त्रिवृता बहिष्पवमानेन स्तुत्वा अन्नमकरम्(तां० ब्रा० १ .३.७) इत्युद्गाता जपेत् । प्रस्तरे न्यस्तहस्तं यजमानं श्येनोऽसि (तां० १.३. ८) इति वाचयेत् । उद्गातार ठपह्वयध्वम् इत्युक्तवन्तं यजमानमुपहूत इत्युपह्वयेरन् । ईक्षकान् सहकारिणश्च प्रेक्षमाण उद्गाता संवर्चसा (तां० १.३. ९) इति जपेत् । आदित्यं पश्यन् नमो गन्धर्वायेति धेही-(तां० १. ३.१ ०)त्यन्तं जपेत् । प्रस्तरात् तृणमादायो- भयतः परिच्छिद्य मध्यभागं चात्वले यदि स्तुतमिति प्रास्येत् तत्रैव समुद्रं व (ला० श्रौ० २ .१. ७) इत्युदपात्रं निनयेत् । बहिर्वेद्युदङ्मुख- स्त्रीणि पदानि पञ्च सप्त नव वोत्क्रम्य दक्षिणपार्श्वेनावृत्य अग्नी- ध्रीयस्य पश्चादुपविश्य बहिष्पवमानस्यर्चामुपरिष्टाज्जपं कुर्युः । मन्द्रं प्रातःसवने स्तुवीरन् । उत्तरोत्तरमुत्तरयोः सवनयोः एतस्यां वेलायां भुञ्जीरन् । राजानं भक्षयित्वा तदहर्ग्राम्यमन्नं नाश्नीयादिति श्रुत्यन्तरवचनात् ।।
 
[ धिष्ण्याद्युपस्थानम् ]
Line १२२ ⟶ १६४:
 
सदसोऽपरयाद्वारा द्वारबाहुद्वयम् ऋतस्य द्वारौ स्थ इति पाणिभ्यां युगपत् संमृज्य मा मा संताप्तम्(तां० ब्रा० १. ५. १)इति सदः प्रविश्य
 
 
31 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
औदुम्बरीं दक्षिणेन गत्वा तस्या उत्तरतो गत्वा नमः सखिभ्य (तां० ब्रा० १.५.२) इत्युपविशेयुः । प्रस्तोतारं पूर्वेण प्रतिहर्ता गच्छेत् । उद्गातारः परस्परमुपह्वयेरन् । प्रस्तोतरुपह्वयस्व प्रतिहर्तरुपह्वयस्वेति चोद्गाता ब्रूयात् । उपहूत इतीतरौ ब्रूयाताम् । एवं प्रस्तोता प्रतिहर्ता चेतरा- वनुज्ञानं कुर्याताम् । यजमानेनोद्गातार उपह्वयध्वमित्युक्ताः उपहूत इत्युपह्वयेरन् । उद्गातौदुम्बरीमुच्चाग्रैः कुशैः परिवेष्ट्य प्रदक्षिणम् ऊर्ध्वदशेन क्षौमादिना परिवेष्टयेत् । चमस आहृते प्रस्तोता तमुभाभ्यां हस्ताभ्यां प्रतिगृह्य दक्षिण ऊरौ निधाय दक्षिणेन पाणिना पिधायासीत । इडोपहवे प्राप्ते तत्समाप्तेरिडापात्रसदृशमुभाभ्यां हस्ताभ्यां - स्वमुखसमीपे सोममस्पृशन्धारयेत् । वषट्कारनिमित्त- भक्षणार्थं समाख्याभक्षणकाले सर्वत्रोद्गातॄणां भक्षणम् । यजमानः सवनमुखीयभक्षणकाले अग्निर्मे होता स मोपह्वयतामित्युपांशु जपित्वा होतरुपह्वयस्वेत्युच्चैर्ब्रूयात् । एवमुत्तरैरपि मन्त्रैर्यथालिङ्गमुपहवमिच्छेत् । उपहूत इति सर्वैरुपहवे दत्ते स्वं चमसमुद्गातारः परस्परमुपहूय भक्षयेयुः । तत्र प्रथममुद्गाता दक्षिणमनु बाहुं दण्डं कृत्वा श्येन (तां० ब्रा० १. ५.३) इत्यवेक्ष्य इन्दविन्द्रपीतस्येन्द्रियावतो गायत्रच्छन्दस (तां० ब्रा० १.५.४) इत्यादिना द्विरल्पं भक्षयेत् । ऊर्ध्वः सप्त ऋषीन् (तां० ब्रा० १ . ५.५) इति चक्षुषी नासिके श्रोत्रे चाभिमृशेत् । सोम रारन्धि(तां० ब्रा० १.५.६) इति हृदयम् । सोम गीर्भिर् (तां० ब्रा० १.
५. ७) इति नाभिम् । एवं प्रस्तोता । ततः प्रतिहर्ता । स च तं चमसम् अभिमृश्य आप्यायस्व (तां० ब्रा० १.५.८) इत्याप्याययेत् । सर्वे वा भक्षयितारः । प्रतिहर्तृभक्षणादूर्ध्वमाप्याययेयुः । ठद्गातृ- चमसं प्रस्तोतृप्रतिहर्तृव्यतिरिक्ता न भक्षयेयुः । उद्गाता प्रथम(ला० श्रौ० २.५.४) इत्यस्मिन् सूत्रे उद्गातेति पाठादेव प्राथम्ये सिद्धे प्रथम इति गुरुन्यासकरणात् वषट्कर्तु प्रथमभक्ष इत्यादिशास्त्रप्राप्तेः प्रति- षेधात् उद्गातृचमस नान्यो भक्षयेदिति शाखान्तरवचनाच्च । नात्रा- चमनादि कार्यम् । न सोमेनोच्छिष्टा भवन्ति (भा० श्रौ० सू० ५.६.३) इति श्रुतेः । सवनेषु च द्वितीयाश्चमसा नाराशंसाः । पूर्वयोः सवनयो- स्तृतीयौ च तेषां पूर्ववत् प्रतिग्रहभक्षणादि । श्येन इत्यवेक्षणं निवर्तते । अवमैस्ते पितृभिर्भक्षितस्य (तां० ब्रा० १.५.९) इत्यादिना प्रातः- सवने नाराशंसं भक्षयेयुः । नाराशंसे चक्षुराद्यभिमर्शनत्रयकार्यं वा न वा ।।
 
[आज्यस्तोभेषु स्तोम-कुशापर्याय-विष्टावाः ]
अथाज्यनामानि चत्वारि स्तोत्राणि । त आजिमायन् । यदा- जिमायंस्तदाज्यानामाज्यत्वम् (तां० ब्रा० ७.२.१) इति श्रुतेः । चत्वारि सन्ति षडदेवत्यानि (तां० ब्रा० ७.२.३) इति च । तानि च क्रमाद् अग्न आ नो मित्रावरुणायाहीन्द्राग्नी (सा० ६६०-७१) इत्येतेषु चतुर्षु तृचेषु कर्तव्यानि उत्तरापाठक्रमात् । ब्राह्मणे च सोऽग्निरग्र उदजयत् । अथ मित्रावरुणौ । अथेन्द्रः । अथ सैषेद्राग्नी (तां० ब्रा० ७.२.२) इति देवतानुक्रमात् । एतेषां च तत्तद्देवतालिङ्गात् । एषु च गायत्रमेव साम बहिष्पवमानं प्रकृत्य गायत्रविधानात् । आज्येषु सामान्तरानुपदेशात्सामान्तरानु-

33 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
पदेशात् । सर्वाणि स्वाराण्याज्यानि (तां० ब्रा० ७ .२.५) इति लिङ्गात् । सूत्रकारेण च जगतीगायत्र्यौ त्रिष्टुबनुष्टुभाविति पृथगाज्यप्रथमासु गायत्रीगीतिविकारभूतस्य धूर्गानातिदेशात् । आज्यानां पुष्कलो गायत्रीत्यृषिच्छन्दसी । अग्निर्मित्रावरुणाविन्द्र इन्द्राग्नीति क्रमेण देवताः । प्रजापतिर्देवेभ्य आत्मानम् (तां० ब्रा० ७.२.१) इति विधायक- ब्राह्मणम्विधायकब्राह्मणम् । यस्य वा एता बहिष्पवमाने विगीयान्तराज्येषु संगायन्ति (ष० विं० ब्रा० २.३. १२) इति धूर्विधायकब्राह्मणम् । मनो हिंकार इति भक्त्युपासनम् । पञ्चदशस्तोमान्याज्यानि । तथा च त्रिसंस्थस्य ज्योतिष्टोमस्य स्तोमविधिब्राह्मणम्- त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः सोक्थ्यः । पञ्चदशी रात्रि । त्रिवृत्संधि (तां० ब्रा० २० .१. १) इति । पञ्चदशस्तोमा- वृत्त्या संपाद्य तृचस्य पञ्चदशत्वविधानात् । यदाज्यै पुनरभ्यावर्तं- स्तुवन्ति(तां० ब्रा० ७.२. ६) इति श्रूतेः । आवृत्तिश्च पञ्चभ्यो हिंक- रोति(तां० ब्रा० २. ४. १)इत्याद्यया पञ्चपञ्चिन्या विष्टुत्या कुशा- विधानेन विधेया । आद्याभिः विष्टुतिभिः स्तोमविधानमनादेशे ताः पथ्या सर्वाभिप्रायाश्च (ला० श्रौ० सू० ६.२. २) इति वचनात् । तत्र प्रथमस्याज्यस्य ऋग्जपे कृते प्रस्तोताध्वर्युदत्ते तृणे प्रतिगृह्य ब्रह्मन्निति प्रस्तरवदुद्गात्रे दद्यात् । अत्र अभिरूपा करोतीत्यादिषु तृणदानाभावेऽपि न मन्त्रं जह्यात् । उद्गाता प्रस्तरवत्तृणाभ्यां जङ्घामुपहत्य दीक्षायै वर्णेने- त्याद्यपानाये(तां० ब्रा० १ .५. १० )त्यन्तेन स्तोमं युञ्ज्यात् । औदुम्बर्याश्रयः सर्वाणि स्तोत्राणि उद्गाता गायेत् । पर्यायादिषु हिंकुर्युः । पर्यायादिषु हिंकारं स्तुवीरन् (ला०श्रौ० सू० २.६.१ )इति आवृत्तिस्तोत्राण्यधिकृत्य वचनात् । स्तोष्यमाणानां मध्ये कुशास्तरणार्थं वस्त्रमुदक्समासमुपरिदशमास्तीर्य प्रस्तोताप्रस्तावान्तेषु कुशा विदध्यात् । सर्वस्तोमानां त्रयः पर्यायाः । प्रति- पर्यायं त्रयो विष्टावाः । तदुक्तम् - प्रथमस्य पर्यायस्य प्रथमा तृचभागा । तस्यास्त्रिर्वचनम् । मध्यमावापस्थानम् । उत्तमा परिचरा । परिचरा तृच- भागः वापस्थानम् इति मध्यम आवापस्थानम् । परिचरा तृचभागे- त्युत्तम एते विष्टावा (ला. श्रौ. ६.५. १-६) इति । तत्र प्रथमस्य पर्यायस्य प्रथमं विष्टावं प्रथमया स्तोत्रीययोदगग्राभिः प्राक्संस्थाभिः कुशाभि- विदध्यात् । तस्य पश्चान्मध्यदेशे प्रागग्राभिः कुशाभिरुदक् संस्थाभि मध्यमया स्तोत्रीयया द्वितीयं विष्टावम् । तस्य पञ्चाहुः ग्राभिः प्रत्यकसंस्थाभिरुत्तमया स्तोत्रीयया तृतीयं विष्टावम् इत्येकः पर्यायः । एवमुत्तरौ पर्यायौ । पर्यायान् विष्टावांश्च परस्पर० संसृष्टान् कुर्यात् । तत्र प्रथमायां स्तोत्रीयायां दविद्युततियारुचोमिति- वद्धूर्गानम् । निहोतासा इति निरुक्तं गायेन् । इतरासु चतुर्दशसु
 
 
35 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
तत्सवितुरिति गायत्र्यां न विशेषः । उत्तमां प्रस्तुत्य शंसिष्यन्तं प्रत्येषेति ब्रूयात् ।।
 
Line १४० ⟶ १९१:
माध्यंदिनं सवनम् [ लोकद्वारसामगानादि माध्यन्दिनपवमानसर्पणान्तम्]
 
अथ माध्यंदिने सवने राज्ञोपावहरणात् पूर्वं यजमानः पश्चादग्नीध्रीयस्योदङ्मुख उपविश्य लोकद्वारमिति रौद्रं साम त्रिर्गायेत्। पुष्कलो द्विपदा गायत्री रुद्रः । नमो वायव इति स्वाहेति तत्रैव हुत्वा अप जहि परिघमित्युक्त्वोत्तिष्ठेत् । पूर्ववद्धिष्ण्योपस्थानं कृत्वोत्तरत औदुम्बर्याः पूर्ववदुपविष्टेषूद्गातृषु यजमानोपहवान्ते कृते प्रस्तोता होतृमैत्रावरुणधिष्ण्यावन्तरेण पूर्वया द्वारा निष्क्रम्य हविर्धानं गच्छेत् । अयमेव पृष्ठहोमगमने मार्गः । विसंस्थिते सवने पूर्वया द्वारान्त- रेण होतुर्धिष्ण्यं मैत्रावरुणस्य तु संचरतस्तद्यथेति वचनात् । पूर्व- वद्धविर्धानप्रवेशनादिपूर्ववद्धविर्धानप्रवेशनादि प्राक्सर्पणात् प्रवणवर्जं यथासंभवं कुर्यात् ।

37 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
तथोद्गातृप्रतिहर्त्रोः सर्पणार्थं प्रस्तोतृमार्गेण गमनम् । सर्वे बहिष्पवमानवत् सर्पन्तोऽध्वर्युमार्गेण गत्वा सदसि तद्वदेवोपविशेयुः । अत्र कश्चिदाह- माध्यंदिने यस्यैव हविर्धानगमनं तस्य प्रस्तोतुरेवान्वारम्भाद्युपवेशनान्तम् । नेतरयो । एवं तृतीयसवने प्रतिहर्तुरेवेति । तदयुक्तम् । एतत्सर्वं कुर्यादुत्तरयोः सवनयोरि ( ला० श्रौ० १. १२. १८ ति सर्व- ग्रहणात् । तद्धि यस्यैव हविर्धानगमनं तस्यैव सर्पणं माविज्ञायेति । उपग्रन्थकारश्च उभयोर्वा सर्पणयोः प्रतिहर्ता विच्छिद्येत । विभवेत्स्वित्तत्र सकृत्कृतं प्रायश्चित्तमिति माध्यंदिनेऽपि सवने प्रतिहर्तुः सर्पणमनुवदति । न हि प्रातःसवनतृतीयसवनस्थयोर्विच्छेदयोः सह प्रायश्चित्तविकारो युक्तः । पूर्वस्य माध्यंदिने एव सवने प्रायश्चित्तकरणात् । आप- स्तम्बश्च विशेषेणाह- बहिष्पवमानवन्माध्यदिन पवमानं सर्पन्ति(आप०श्रौ० १३.२.७) इति ।।
 
[ माध्यन्दिनपवमानस्तोत्रम्
 
सदस्युपविष्टा माध्यंदिनस्य पवमानस्यर्चो पश्येयुः । उच्चा- पुना-प्रगाथं प्रतुद्रेति । प्राणो गायत्री । व्यानो बृहती । अपानस्त्रिष्टुप् । इति श्रुतेः । तासां दिविसद्भूम्यादद इति प्राणानादत्तेति लिङ्ग- दर्शनात् ऋक्समाम्नायाच्चैते माध्यंदिनपवमानस्य तृचा इत्यवसीयते । बहिष्पवमानवत् प्रस्तरग्रहणादानस्तोमयोगजपाः । अग्निर्युनक्त्वित्यस्य स्थाने वायुर्युनक्तु मनसेति ब्रूयात् । एवता वाव एतद्वै यज्ञस्य प्रजापतिरकामयतेति विधायकब्राह्मणम् । त्रयीविद्या हिंकार ( जै० उ० ब्रा० ५. ५. १ २) इति भक्त्युपासनविधिब्राह्मणम् । द्वे गायत्र्यां सामनी ( ष. विं. ब्रा १ .३ .१२) इति । यद् गायत्र्यां गायत्रेण स्तुवन्ती (तां० ब्रा० ७.३ ७)ति च श्रुतेः । उच्चातृचे प्रथमं साम गायत्रम् । गायत्रेण स्तुत्वा निधनवता स्तुवन्ती(तां० ब्रा० ७.३.११) ति । स एतदामहीयवमपश्यदिति च । तत्स्थाने द्वितीयमामहीयवम् । तस्याग्नी रौरवं प्राबृहत । (तां०ब्रा० ७.५.७) अथेन्द्रो यौधाजयम्(तां०ब्रा० ७.५.१२) इति द्वे बृहत्यां सामनी (ष० विं० ब्रा० १.३.४) इति च श्रुतेः । पुनः प्रगाथे रौरवयौधाजये । अथ वायुरौशनं प्राबृहते (तां० ब्रा. ७.५. १ ६)ति एक त्रिष्टुभि सामे(ष० वि० ब्रा० १ .३.५) -ति श्रुतेः । प्रतुद्रवतृचमौ- शनम् । तेषां पुष्कलामहीयुरग्निरिन्द्र उशनेत्यृषयः । सोमो देवता । पञ्चानां साम्नां क्रमेण स्वारणिधनवदैडपदनिधनपदानुस्वारत्वात् । प्रजापतिरिन्द्रेऽग्निरग्निः सोम इति क्रमेण निधनदेवताः । अथातः सामान्तानामि(नि. सू. १. १२.१ )ति निदानोक्तं निधनार्षेयमप्यनु- संधेयम् । साम्ने साम्ने हिंकुर्युः । आमहीयवस्य पर्व प्रस्तावः । उपग्रन्थोक्तं प्रतिहारभागं प्रतिहर्ता सर्वत्र ब्रूयात् । प्रस्तावप्रति- हारव्यतिरिक्तम् उद्गाता । सर्वे निधनं ब्रूयुः । स्तौष इत्यस्य निधनम् । एवमुत्तरयोर्गानम् । रौरवेऽप्येवमिडेति निधनम् । यौधाजये पादः प्रस्तावः । षासीत्यादि हिषीस्वरं द्व्यक्षरनिधनम् । आमहीयवत् शेषम । औशनेऽपि सर्वमामहीयवत् । अन्त्योऽनुस्वारो निधनम ।।
सदस्युपविष्टा माध्यंदिनस्य पवमानस्यर्चो पश्येयुः । उच्चा- पुना-प्रगाथं प्रतुद्रेति । प्राणो गायत्री । व्यानो बृहती । अपानस्त्रिष्टुप् । इति श्रुतेः । तासां दिविसद्भूम्यादद इति प्राणानादत्तेति लिङ्ग- दर्शनात् ऋक्समाम्नायाच्चैते माध्यंदिनपवमानस्य तृचा इत्यवसीयते ।
 
बहिष्पवमानवत् प्रस्तरग्रहणादानस्तोमयोगजपाः । अग्निर्युनक्त्वित्यस्य स्थाने वायुर्युनक्तु मनसेति ब्रूयात् । एवता वाव एतद्वै यज्ञस्य प्रजापतिरकामयतेति विधायकब्राह्मणम् । त्रयीविद्या हिंकार ( जै० उ० ब्रा० ५. ५. १ २) इति भक्त्युपासनविधिब्राह्मणम् । द्वे गायत्र्यां सामनी ( ष. विं. ब्रा १ .३ .१२) इति । यद् गायत्र्यां गायत्रेण स्तुवन्ती (तां० ब्रा० ७.३ ७)ति च श्रुतेः । उच्चातृचे प्रथमं साम गायत्रम् । गायत्रेण स्तुत्वा निधनवता स्तुवन्ती(तां० ब्रा० ७.३.११) ति । स एतदामहीयवमपश्यदिति च । तत्स्थाने द्वितीयमामहीयवम् । तस्याग्नी रौरवं प्राबृहत । (तां०ब्रा० ७.५.७) अथेन्द्रो यौधाजयम्(तां०ब्रा० ७.५.१२) इति द्वे बृहत्यां सामनी (ष० विं० ब्रा० १.३.४) इति च श्रुतेः । पुनः प्रगाथे रौरवयौधाजये । अथ वायुरौशनं प्राबृहते (तां० ब्रा. ७.५. १ ६)ति एक त्रिष्टुभि सामे(ष० वि० ब्रा० १ .३.५) -ति श्रुतेः । प्रतुद्रवतृचमौ- शनम् । तेषां पुष्कलामहीयुरग्निरिन्द्र उशनेत्यृषयः । सोमो देवता । पञ्चानां साम्नां क्रमेण स्वारणिधनवदैडपदनिधनपदानुस्वारत्वात् । प्रजापतिरिन्द्रेऽग्निरग्निः सोम इति क्रमेण निधनदेवताः । अथातः सामान्तानामि(नि. सू. १. १२.१ )ति निदानोक्तं निधनार्षेयमप्यनु- संधेयम् । साम्ने साम्ने हिंकुर्युः । आमहीयवस्य पर्व प्रस्तावः । उपग्रन्थोक्तं प्रतिहारभागं प्रतिहर्ता सर्वत्र ब्रूयात् । प्रस्तावप्रति- हारव्यतिरिक्तम् उद्गाता । सर्वे निधनं ब्रूयुः । स्तौष इत्यस्य निधनम् । एवमुत्तरयोर्गानम् । रौरवेऽप्येवमिडेति निधनम् । यौधाजये पादः प्रस्तावः । षासीत्यादि हिषीस्वरं द्व्यक्षरनिधनम् । आमहीयवत् शेषम । औशनेऽपि सर्वमामहीयवत् । अन्त्योऽनुस्वारो निधनम ।।
 
३९ उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
 
[ सवनमुखीयभक्षणादि दक्षिणाप्रतिग्रहनाराशंसभक्षणान्तम्
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्