"अथर्ववेदः/काण्डं १/सूक्तम् ०४" इत्यस्य संस्करणे भेदः

{{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं १|काण्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:३९, २५ डिसेम्बर् २०१९ इत्यस्य संस्करणं

← सूक्तं १.३ अथर्ववेदः - काण्डं १
सूक्तं १.४
सिन्धुद्वीपः।
सूक्तं १.५ →
दे. (अपांनपात्, सोमः), आपः। गायत्री, ४ पुरस्ताद्बृहती।

अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
पृञ्चतीर्मधुना पयः ॥१॥
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
ता नो हिन्वन्त्वध्वरम् ॥२॥
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ॥३॥
अप्स्वन्तरमृतमप्सु भेषजम् ।
अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥