"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११३:
ओं स्वधायै नमः स्वधामावाहयामि ते नमः ।
ओं स्वाहायै नमः स्वाहामावाहयामि ते नमः ।।५२।।
ओं मातृभ्यो नमो मातॄरावाहयामि वै नमः ।
नमो वै लोकमातृभ्यो नम आवाहयामि ताः ।।५३ ।।
हृष्ट्यै नमश्चावाहयाम्यो पुष्ट्यै च नमस्तथा ।
आवाहयामि तां तुष्ट्यै नम आवाहयामि च ।।५४।।
नमः श्रीकुलदेव्यै चावाहयामि नमोऽस्तु ते ।
ओं राधायै नमश्चावाहयामि प्रतिनौमि ताम् ।।५५।।
ओं श्रीलक्ष्म्यै नम आवाहयामि प्रणमामि ताम् ।
ओं माणिक्यै नम आवाहयामि प्रणमामि ताम् ।।६६।।
ओं ब्रह्मविद्यायै नमश्चावाहयामि प्रणमामि ताम् ।
रमारत्यै नमश्चावाहयाम्यस्यै नमो नमः ।।५७।।
ओं श्रियं चावाहयामि श्रीदेव्यै नमो नमः ।
ओं सुगुणां नम आवाहयाम्यस्यै नमो नमः ।।५८।।
मञ्जुलायै नम आवाहयाम्यस्यै नमो नमः ।
हंसायै च नम आवाहयाम्यस्या नमोऽस्तु च ।।।९९।।
ललितायै नम आवाहयाम्यस्यै नमो नमः ।
कंभरायै नम आवाहयाम्यस्या नमोऽस्तु च ।।2.145.६० ।।
ओं सत्यै नम आवाहयाम्यस्यै च नमो नमः ।
सन्तोषायै नम आवाहयाम्यस्यै नमो नमः ।।६ १ ।।
कमलायै नम आवाहयाम्यस्यै नमो नमः ।
ओं दुर्गायै नम आवाहयाम्यस्यै नमो नमः ।।६२।।
शारदायै नमश्चावाहयाम्यस्यै नमोऽस्तु च ।
इत्यावाह्य प्रतिष्ठाप्य पूजयेदुपचारकैः ।।६३।।
प्रीयन्तां पूजया देवा देव्यस्तुष्यन्तु मातरः ।
कुण्डस्थमातृकामूर्ध्नि घृतधारां ददामि च ।।६४।।
ब्राह्मी माहेश्वरी चापि कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा घृतधारया ।।६५।।
सहधारया तुष्टा भवन्तु वरदास्तथा ।
पाद्यादिभिः पूजयेच्च धारा दिव्या बलप्रदाः ।।६६ ।।
तथाऽन्याः षोडशदेवीः पूजयेद् घृतधारया ।
नान्दीश्राद्धं प्रकुर्याच्च क्रमेणाऽऽचमनादिना ।।६७।।
प्राणानायम्य च कालं देशं संकल्प्य वै ततः ।
अस्य देवस्य च प्रतिष्ठानकर्मसु वस्तुभिः ।।६८ ।।
नान्दीश्राद्धं करिष्येऽहं विघ्नादिविनिवृत्तये ।
नान्दीमुखाः सत्यवसुसंज्ञका विश्वदेवताः ।।६९।।
ओं भूर्मुवः स्व इदं वः पाद्यं पादावनेजनम् ।
पादप्रक्षालनं वृद्धिश्चाऽस्तु माता पितामही ।।2.145.७०।।
प्रपितामहिका चैता नान्दीमुख्यो भवन्ति याः ।
ओं भूर्भुवः स्व इदं वः पाद्यं पादावनेजनम् ।।७१ ।।
पादप्रक्षालनं वृद्धिश्चाऽस्तु पिता पितामहः ।
प्रपितामह एवैते नान्दीमुखा भवन्ति ये ।।७२।।
ओं भूर्भुवः स्व इदं वः पाद्यं पादावनेजनम् ।
पादप्रक्षालनं वृद्धिश्चाऽस्तु सर्वा ततः परम् ।।७३ ।।
मातामहः प्रमातामहो वृद्धप्रमातामहः ।
सपत्नीका नान्दीमुखा ये च ये च भवन्ति ते ।।७४।।
ओं भूर्भुव स्व इदं वः पाद्यं पादावनेजनम् ।
पादप्रक्षालनं वृद्धिश्चास्तु ददामि चासनम् ।।७५।।
सत्यवसुसंज्ञकेभ्यो विश्वेदेवेभ्य इत्यपि ।
नान्दीमुखेभ्य ओं भूर्भुवः स्व इदं सुखासनम् ।।७६।।
स्वधा वोऽस्तु नान्दीश्राद्धेक्षणौ क्रियेतामों तथा ।
स्वीकुरुतां भवन्तौ च प्राप्नुवश्च सुखान्वितौ ।।७७।।
मातृपितामहीप्रपितामहीनां सुखासनम् ।
आसादयतां वः स्वाहाऽऽसादयावः सुखावहम् ।।७८।।
पितृपितामहप्रपितामहानां सुखासनम् ।
आसादयतां वः स्वाहाऽऽसादयामः सुखावहम् ।।७९।।
मातामहप्रमातामहवृद्धप्रमातामहाः ।
व आसनं स्वधा वो भूर्भुवः स्वः सुखावहम् ।।2.145.८०।।
गन्धं पुष्पं दीयते च सत्यवसुभ्य एव च ।
विश्वेभ्यो नान्दीमुख्येभ्य इदं गन्धादिकार्चनम् ।।८१ ।।
सम्पद्यन्तामिह वृद्धिः स्वधा भवन्त एव च ।
मातृपितामहीप्रपितामहीभ्य एव च ।।८२।।
इदं गन्धाद्यर्चनं च स्वाहा वृद्धिः समस्तु च ।
पितृपितामहप्रपितामहेभ्य एव च ।।८३।।
इदं गन्धाद्यर्चनं च स्वधा वृद्धिः समस्तु च ।
मातामहप्रमातामहवृद्धप्रमातामहाः ।।८४।।
सस्त्रीभ्यो व इदं गन्धार्चनं स्वधाऽस्तु वृद्धिका ।
इत्येवमर्चनं दत्वा भोजनस्य तु निष्क्रयः ।।८५।।
द्रव्यं दद्यात् सत्यवसु विश्वेदेवेभ्य एव च ।
युग्मभोजनपर्याप्तमन्नममृतमर्पितम् ।।८६।।
स्वधा सम्पद्यतां वृद्धिरायुस्तेजःप्रदा शुभा ।
मातृपितामहीप्रपितामहीभ्य एव च ।।८७।।
युग्मभोजनपर्याप्तमन्नममृतमर्पितम् ।
स्वधा सम्पद्यतां वृद्धिः हिरण्यदक्षिणायुतम् ।।८८।।
पितृपितामहप्रपितामहेभ्योऽपि चैव ह ।
युग्मभोजनपर्याप्तमन्नममृतमर्पितम् ।।८९।।
स्वधा सम्पद्यतां वृद्धिर्हिरण्यदक्षिणायुतम् ।
मातामहप्रमातामहवृद्धप्रमातामहाः ।।2.145.९०।।
सस्त्रीभ्यो व इदं भोज्यं पर्याप्ताऽमृतमर्पितम् ।
स्वधा सम्पद्यतां वृद्धिर्हिरण्यदक्षिणायुतम् ।।९१।
ददामि दक्षिणां द्राक्षाऽऽमलकयवनिष्क्रयाम् ।
नान्दीश्राद्धफलपूर्व्यै सस्यवसुभ्य एव च ।।९२।।।
मातृपितामहीप्रपितामहीभ्योऽपि चैव ह ।
नान्दीश्राद्धफलपूर्त्त्यै ददामि दक्षिणां तथा ।।९३।।
पितृपितामहप्रपितामहेभ्योऽपि चैव ह ।
नान्दीश्राद्धफलपूर्त्त्यै ददामि दक्षिणां तथा ।।९४।।
मातामहप्रमातामहवृद्धप्रमातामहाः ।
सस्त्रीभ्यो वो ददाम्यत्र दक्षिणां निष्क्रयात्मिकाम् ।।९५।।
नान्दीश्राद्धफलपूर्त्यै द्राक्षाऽऽमलकमार्द्रकम् ।
फलप्रतिष्ठासिद्ध्यर्थं गृह्णन्तु चोत्सृजामि च ।।९६।।
नान्दीश्राद्धं सुसम्पन्नं पठित्वाऽऽर्प्यं च दक्षिणाम् ।
विश्वेदेवाः प्रीयन्तामोमिति देवविसर्जनम् ।। ९७।।
नान्दीमुखा मातरश्च प्रीयन्तां तद्विसर्जनम् ।
नान्दीमुखाः पितरश्च प्रीयन्तां तद्विसर्जनम् ।।९८।।
नान्दीमुखा मातामहाः प्रीयन्तां तद्विसर्जनम् ।
अनुव्रज्य च विप्राणां वचनात् परिपूर्णकः ।। ९९।।
श्राद्धविधिर्नान्दीमुखप्रासादात् परिपूर्णकः ।
अस्तु वै परिपूर्णोऽयं ब्राह्मणानां वचोऽनुगः ।। 2.145.१० ०।।
इत्येवं राधिके कृष्णनारायणः परः प्रभुः ।
देवायतनकायाऽऽह विधिं मयोदितस्तु ते ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे कलशस्थापनपुण्याहवाचनमातृकाद्यावाहननान्दीश्राद्धासनपूजनभोजनदक्षिणादानविसर्जनादिनिरूपणनामा पञ्चचत्वारिंशदधिकशततमोऽध्यायः ।। १४५।।
 
</span></poem>