"मत्स्यपुराणम्/अध्यायः ४५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
 
स्यमन्तकमणिसंक्षिप्तचरित्रम्।
 
सूत उवाच।
गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः।
गान्धारी जनयामास सुमित्रं मित्रनन्दनम्।। ४५.१ ।।
 
माद्री युधाजितं पुत्रं ततो वै देवमीढुषम्।
अनमित्रं शिबिं चैव पञ्चमं कृतलक्षणम्।। ४५.२ ।।
 
अनमित्रसुतो निघ्नो निघ्नस्यापि तु द्वौ सुतौ।
प्रसेनश्चमहावीर्यः शक्तिसेनश्च तावुभौ।। ४५.३ ।।
 
स्यमन्तकः प्रसेनस्य मणिरत्नमनुत्तमम्।
पृथिव्यां सर्वरत्नानां राजा वै सोऽभवन्मणिः।। ४५.४ ।।
 
हृदि कृत्वा तु बहुशो मणिन्तमभियाचितम्।
गोविन्दोऽपि न तं लेभे शक्तोऽपि न जहार सः।। ४५.५।।
 
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः।
यथाशब्दं स शुश्राव बिले सत्वेन पूरिते।। ४५.६ ।।
 
ततः प्रविश्य स बिलं प्रसेनो ऋक्षमैक्षत।
ऋक्षः प्रसेनञ्च तथा ऋक्षं चैव प्रसेनजित्।। ४५.७ ।।
 
हत्वा ऋक्षः प्रसेनन्तु ततस्तं मणिमाददात्।
अदृष्टस्तु हतस्तेन अन्तर्बिलगतस्तदा।। ४५.८ ।।
 
प्रसेनन्तु हतं ज्ञात्वा गोविन्दः परिशङ्कितः।
गोविन्देन हतो व्यक्तं प्रसेनो मणिकारणात्।। ४५.९ ।।
 
प्रसेनस्तु गतोऽरण्यं मणिरत्नेन भूषितः।
तं द्रृष्ट्वा स हतस्तेन गोविन्दः प्रत्युवाच ह।।
हन्मि चैनं दुराचारं शत्रुभूतं हि वृष्णिषु।। ४५.१० ।।
 
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः।
यद्रृच्छया च गोविन्दो बिलस्याभ्यासमागमत्।। ४५.११ ।।
 
तं दृष्ट्वा तु महाशब्दं स चक्रे ऋक्षराट् बली।
शब्दं श्रुत्वा तु गोविन्दः खङ्गपाणिः प्रविश्य सः।।
अपश्यज्जाम्बवन्तं तं ऋक्षराजं महाबलम्।। ४५.१२ ।।
 
ततस्तूर्णं हृषीकेशस्तमृक्षपतिमञ्जसा।
जाम्बवन्तं स जग्राह क्रोध संरक्त लोचनः।। ४५.१३ ।।
 
तुष्टावैनं तदा ऋक्षः कर्मभिः वैष्णवैः प्रभुम्।
देवाहस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः।। ४५.१४।।
 
इच्छेच्चक्र प्रहारेण त्वत्तोऽहं मरणं प्रभो!।
कन्याचेयं मम शुभा भर्त्तारं त्वामवाप्नुयात्।।
योऽयं मणिः प्रसेनन्तु हत्वा प्राप्तो मया प्रभो।। ४५.१५ ।।
 
ततः सजाम्बवन्तं तं हत्वा चक्रेण वै प्रभुः।
कृतकर्मा महाबाहुः सकन्यं मणिमाहरत्।। ४५.१६ ।।
 
ददौ सत्राजितायैनं सर्वं सात्वतसंसदि।
तेन मिथ्यापवादेन सन्तप्ता ये जनार्दने।। ४५.१७ ।।
 
ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्।
अस्माकन्तु मतिर्ह्यासीत् प्रसेनस्तु त्वया हतः।। ४५.१८ ।।
 
कैकेयस्य सुता भार्या दश सत्राजितः शुभाः।
तासूत्पन्नाः सुतास्तस्य सर्वलोकेषु विश्रुताः।।
ख्यातिमन्ते महावीर्य्या भङ्गकारस्तु पूर्वजः।। ४५.१९ ।।
 
अथ व्रतवती तस्मात् भङ्गकारात्तु पूर्वजात्।
सुषुवे सुकुमारीस्तु तिस्रः कमललोचनाः।। ४५.२० ।।
 
सत्यभामा वरास्त्रीणां व्रतिनी च दृढव्रता।
तथा पद्मावती चैव ताश्च कृष्णायसोऽददात्।। ४५.२१ ।।
 
अनमित्रात् शनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात्।
सत्यवांस्तस्य पुत्रस्तु सात्यकिस्तस्य चात्मजः।। ४५.२२ ।।
 
सत्यवान्युयुधानस्तु शिनेर्नप्ता प्रतापवान्।
असङ्गोयुयुधानस्य द्युम्निस्तस्यात्मजोऽभवत्।। ४५.२३ ।।
 
द्युम्नेर्युगन्धरः पुत्र इति शैन्याः प्रकीर्त्तिताः।
अनमित्रान्वयो ह्येष व्याख्यातो वृष्णिवंशजः।। ४५.२४ ।।
 
अनमित्रस्य संज्ञज्ञे पृथ्व्यां वीरो युधाजितः।
अन्यौ तु तनयो वीरौ बृषभः क्षत्र एव च।। ४५.२५ ।।
 
वृषभः काशिराजस्य सुतां बार्यामविन्दत।
जयन्तस्तु जयन्त्यान्तु पुत्रः समभवच्छुभः।। ४५.२६ ।।
 
सदा यज्ञोऽति वीरश्च श्रुतवानतिथिप्रियः।
अक्रूरः सुषुवे तस्मात्सदा यज्ञोऽतिदक्षिणः।। ४५.२७ ।।
 
रत्ना कन्या च शौर्यस्य अक्रूरस्तामवाप्तवान्।
पुत्रानुत्पादयामास एकादशमहाबलान्।। ४५.२८ ।।
 
उपलम्भः सदालम्भो वृकलो वीर्य्य एव च।
सिरी ततो महापक्षः शत्रुध्नो वारिमेजयः।। ४५.२९ ।।
 
धर्म्मभृद्धर्म्मवर्माणौ धृष्टमानस्तथैव च।
सर्वे च प्रतिहोतारो रत्नायां जज्ञिरे च ते।। ४५.३० ।।
 
अक्रूरादुग्रसेनायां सुतौ द्वौ कुलवर्द्धनौ।
देववानुपदेवश्च जज्ञाते देवसन्निभौ।। ४५.३१ ।।
 
अश्विन्यां च ततः पुत्राः पृथुर्विपृथुरेव च।
अश्वत्थामा सुबाहुश्च सुपार्श्वकगवेषणौ।। ४५.३२ ।।
 
वृष्टिनेमिः सुधर्मा च तथा शर्यातिरेव च।
अभूमिर्वर्जभूमिश्च श्रमिष्ठः श्रवणस्तथा।। ४५.३३ ।।
 
इमां मिथ्याभिशस्तिं यो वेदकृष्णादपोहिताम्।
न स मिथ्याभिशापेन अभिशाप्योऽथ केनचित्।। ४५.३४ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_४५" इत्यस्माद् प्रतिप्राप्तम्