"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १८९" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
राधिके श्रीहरिः शोभां परीनिजाद्रिसंभवाम् ।
अम्बरादेव परितो लोकयामास वृक्षजाम् ।। १ ।।
तत्पश्चिमे तु नगरीं वायूनाख्यां शुभां स्थिताम् ।
विलोक्य तत्र जनता दर्शनार्थमुपस्थिताः ।। २ ।।
स्वागतार्थं तु राजानं समुपस्थितमग्रतः ।
भूपदर्शितमार्गेणाऽवातारयद्विमानकम् ।। ३ ।।
उद्याने राजसौधाग्रे वनतुल्येऽतिसुन्दरे ।
अवतेरुश्च सर्वाणि विमानान्यम्बरात्ततः ।। ४ ।।
बालकृष्णो विमानात्स्वादंगनं प्रति चाययौ ।
राजा हारान् ददौ कृष्णकण्ठे सुमसुवर्णजान् ।। ९ ।।
अन्येषां स्वागतं चापि यथार्हं त्वकरोत्तदा ।
निनादश्रवणेनाऽथ हरिः प्रसन्नतां गतः ।। ६ ।।
समुत्तीर्य तदा राजसौधे विश्रान्तिमाप ह ।
पादौ प्रक्षाल्य राजाद्याश्चरणामृतमापपुः ।। ७ ।।
मिष्टान्नाद्यैश्च विविधैर्भोजयामास भूपतिः ।
महाराजं कुटुम्बादीन् महर्षीन् ब्रह्मयोषितः ।। ८ ।।
सर्वानन्यान् महीमानान् भोजयामास भावतः ।
मध्याह्ने च हरिः प्राप विश्रान्तिं च ततः परम् ।। ९ ।।
राजा सैन्यं महत् स्वस्य सुशृंगार्यावदद्धरिम् ।
वायूनायां नगर्यां मे दर्शनदानहेतवे ।। 2.189.१० ।।
ससैन्योऽहं समिच्छामि भ्रमणं भवतः प्रभो ।
तथाऽस्त्विति हरिः प्राह गजपीठेऽतिशोभिते ।। ११ ।।
अम्बालिकायां कानक्यां निषसाद तदेतरे ।
यथायोग्येषु वाहेषु निषेदुश्च ततः परम् ।। १ २।।
प्रावाद्यन्त सुवाद्यानि तूर्याणि विविधानि च ।
यन्त्राणां स्फोटनशब्दा मानदाश्च तदाऽभवन् ।। १ ३।।
प्रजाः पर्यो हरिकृष्णं गौर्यो निजांगणादिषु ।
वर्धयामासुरीशेशं लाजापुष्पाक्षतादिभिः ।। १४।।
फलादीन्यर्पयामासुः पुपूजुर्ददृशुश्चिरम् ।
आत्मानं कृतकृत्यं च मेनिरे ताः प्रजास्तदा ।। १५।।
एवं भ्रमित्वा नगरीं राजसौधं ययौ हरिः ।
राजा राज्ञी महापूजां चक्रतुर्बहुवस्तुभिः ।। १६।।
स्वर्णपात्राणि रौप्याणि मुद्राश्च हीरकादिकान् ।
ददौ श्रीहरये राजोपदा अम्बरभूषणम् ।। १७।।
राज्ञ्याज्ञया तदा कन्याद्वयं कान्तं हरिं तदा ।
प्रवीक्ष्य बालकृष्णस्य करं जगृहतुर्मुदा ।। १८।।
विवाहविधिना तत्रोत्सवः सम्यग् व्यजायत ।
राजा ददर्श कृपया जामातारं चतुर्भुजम् ।। १ ९।।
शंखचक्रगदापद्मधारिणं करुणामुखम् ।
तुष्टाव परया प्रीत्या पर्वतस्थोऽप्यपर्वकम् ।।2.189.२० ।।
अविद्यापर्वशून्यस्त्वं मायागुणविवर्जितः ।
पाहि संघातधर्मेभ्यो नय धामाऽक्षरं तव ।।२१ ।।
अनाद्यन्तः परब्रह्म बालकृष्णो नरायणः ।
हरिकृष्णो भवानास्ते नरो नारायणो भवान् ।।२२।।
ऋषयः पितरः सिद्धा देवा गन्धर्वदानवाः ।
पन्नगा राक्षसा यक्षा यं न जानन्ति तत्त्वतः ।।२२ ।।
योगिनः साधवः सत्यो ज्ञानिनस्तापसेश्वराः ।
यं न जानन्ति देवेशं कुतोऽयं भगवानिति ।।१४।।
तस्मै मे नम इत्यस्तु पाहि संसारसागरात् ।
यस्मिन् जनिः पुषा नष्टिर्भूतानां ते नमोनमः ।।२५।।
विश्वात्मन् विश्वकर्मात्मन् विश्वकर्मेक्षणादिमन् ।
कर्मणामपि नैष्कर्म्यं दधँस्त्वं पाहि सागरात् ।।२६।।
सहस्रकिरणं विष्णुं सर्वतश्चक्षुषं प्रभुम् ।
अनन्तकरपादाद्यं नमामि परमेश्वरम् ।। २७।।
अणुष्वणुं महान्तं च महत्स्वपि ध्रुवं हरिम् ।
गरिष्ठं श्रेष्ठमत्यूर्ध्वं त्वां नमामि परेश्वरम् ।।२८ ।।
अतिभूतादिकर्माणं बुद्धीन्द्रियाद्यगोचरम् ।
पुराणपुरुषं ब्रह्म त्वां नमामि परेश्वरम् ।।२९।।।
जगत्कोशं चात्मयोनिं सनातनं जगत्पतिम् ।
सर्वपतिं हिरण्वर्णं त्वां नमामि परेश्वरम् ।।2.189.३ ०।।
तपते शीतलायाऽपि प्रकाशाय च ते नमः ।
स्वराय सार्थतत्त्वाय गीतिरूपाय ते नमः ।।३ १ ।।
त्वमोंकारोऽवतारस्त्वं व्यूहस्त्वं त्वं चतुर्भुजः ।
भूमा त्वं च महाविष्णुर्विराट् त्वं कमलाशयः ।।३२।।
त्वं क्रिया करणं कर्ता कर्म त्वं कारकस्तथा ।
द्रष्टा साक्षी महाकालः कवलस्त्वं च ते नमः ।।३३।।
सर्वरूपाय शान्ताय कांभरेयाय ते नमः ।
बालकृष्णाय कृष्णाय गोपालजाय ते नमः ।।३४।।
सर्वपापप्रशान्ताय सर्वदुःखहराय च ।
आत्मपाथेयरूपाय सर्वान्तर्यामिणे नमः ।।३५।।
गृहं मे पावनं कृष्णवल्लभस्वामिना कृतम् ।
निमग्नं च कुटुम्बं मे त्वयोद्धृतं प्रगृह्य माम् ।।३६।।
नमस्ते सर्वलोकेषु सर्वात्मसु च ते नमः ।
बालकृष्ण महाकृष्ण कृष्णेश्वर नमोऽस्तु ते ।।३७।।
इत्युक्त्वा राधिके राजा चेन्दुरायो नमोऽकरोत् ।
अनादिश्रीबालकृष्णस्तु तं प्राह शुभां गिरम् ।। ३८।।
राजन् भक्तिं प्रविलोक्य परां तव मयि ध्रुवाम् ।
मनाग् दिव्यं स्वरूपं मे दर्शितं च मयाऽत्र ते ।। ३ ९।।
कन्याद्वयं ममेदं यत् हस्तग्रहं चकार ह ।
तदा ते मानसे जातं कथमेवं च को न्वयम् ।।2.189.४० ।।
संशयं तं निरसितुं कृपया दर्शितं मम ।
चतुर्भुजं स्वरूपं ते ध्यायस्वैतत् सदा हृदि ।।४१ ।।
इत्युक्त्वाऽसंहरद् रूपं मानवोऽथ व्यजायत ।
पपात पादयोः राजा दधार चरणौ हृदि ।।४२।।।
साश्रुनेत्रोऽभवच्चापि प्रययाचे क्षमां कुरु ।
सर्वं जगत् तवैवास्ति तत्र किं कन्यकाद्वयम् ।।४३ ।।
इत्युक्त्वा विधिना चक्रे महोत्सवं तदा नृपः ।
भोजयामास सर्वांश्च पूजयामास भावतः ।।४४।।
हरिश्चोपादिदेशापि यथा निर्बन्धनं भवेत् ।
राजन् कर्मकृतं सर्वं सम्पद्यते विपद्यते ।।४५।।
मदाश्रयं तु तत्कर्म व्यत्येति स्वेष्टकृद्धि तत् ।
ममाश्रयबलं तादृक् कर्म स्यादन्यथाफलम् ।।४६।।
देवतानां द्विजानां च गुरूणां पूजनं सताम् ।
आनृण्यं तत्करोत्येव पित्रोश्च पूजनं तथा ।।४७।।
राज्ञां धर्मः समुत्थानं तेन दैवं प्रजायते ।
उभयं तत् प्रसम्भूय श्रीप्रदं मुक्तिदं तथा ।।४८।।
पौरुषं प्रथमं कार्यं ततो दैवं समाश्रयेत् ।
विनाऽऽरम्भं प्रयत्नं वा फलभाङ् न भवेत् क्वचित् ।।४९।।
पौरुषं चापि दैवं च सत्येनासादितं यदि ।
ध्रुवसिद्धिप्रदं स्यात्तत् प्रेत्य चेह सुखावहम् ।।2.189.५० ।।
शीलदान्तिमार्दवाढ्यो जनः श्रीसेवितो भवेत् ।
कारणं स्वस्य सौख्यस्य परब्रह्म विचिन्तयेत् ।।५१ ।।
कारणं नैव हन्याद्वै तत्कृते स्वो विहन्यते ।
जलादग्निर्ब्राह्मणात्क्षत्रियोऽश्मनश्च लोष्ठकम् ।।५२।।
उत्पन्नं यदि हेतुं स्वं हन्तुं याति विनश्यति ।
आत्मा ज्ञानं क्रिया कर्म समुत्पन्ना हरेः पुरः ।।५ ३ ।।
हरिं चेन्न भजतेऽसावात्महा हरिहा भवेत् ।
कृष्णघातपरस्याऽस्य विनाशो वह्निवद् भवेत् ।।५४।।
तस्मादहं सदा रक्ष्यो धार्यो मन्तव्य आदरात् ।
स्मर्तव्यश्च पूजनीयो दास्ये मुक्तिं हि बन्धनात्। ।।५५।।
वृथा संपरिहेयानि व्यसनानि मुमुक्षुभिः ।
व्यसनं भोजनं पानं शयनं नर्मकारिता ।।५६।।
रञ्जनं नित्यसंलग्नं यथापेक्षातिरेकि तत्। ।
मयि चेन्न्यस्तमेवैतद् व्यसनं न निगद्यते ।।५७।।
निर्वाहमात्राऽपेक्षं तद् व्यसनं न निगद्यते ।
अयोग्यनुपयोगी च द्युतादिस्तु विपन्मता ।।५८।।
विपदां तु पदं नित्यं दुःखशोकानुयायि वै ।
यत्र तत् स्यात् कथं सौख्यं विन्देत मानवो निजम् ।।९९।।
तस्माद् विचार्य नैरर्थ्यं त्यजेन्निसर्गदूषकम् ।
एवं वै वर्तमाना चेत् प्रजा स्याद् वरपद्धतिः ।।2.189.६०।।
तदा धर्मो भवेत् तत्र भक्त्या च श्रद्धया युतः ।
यत्र धर्मश्च तत्राऽहं निवसामि निरन्तरम् ।।६ १ ।।
प्रत्यक्षो वा च हृदये रक्षयामि निजाश्रितम् ।
बालान् रक्षति मातेव तं रक्षामि वृषान्वितम् ।।६२।।
तस्माद् धर्मयुताः सर्वे मां भजन्तु प्रजादयः ।
उद्धरिष्यामि कामोदात् सागरान्नात्र संशयः ।।६३।।
मूर्तिं मे स्थापयन्त्वत्र नित्यदर्शनहेतवे ।
गमिष्ये त्वद्य संस्नातुमिन्दिराया जले शुभे ।।६४।।
स्वस्ति वोऽस्तु सुखं चास्तु सदाऽऽरोग्यं निरामयम् ।
इत्युक्त्वा चासनात् कृष्णः समुत्तस्थौ ततः परम् ।।६५।।
नृपो यानानि सर्वाणि व्योमयानानि यानि च ।
सज्जयामास शीघ्रं च विदायं नृपतिर्ददौ ।।६६।।
इन्दिरायां महानद्यां स्नात्वा सुपानराष्ट्रकम् ।
गन्तव्यमेव सायं वै चेति निश्चयतो हरिः ।।६७।।
सज्जो भूत्वा समारोहद् विमानं चापरेपि च ।
यानान्यारुह्य च विमानान्यारुह्याऽम्बरेऽभवन् ।।६८।।
राजा राज्ञी कुटुम्बं च प्रजाः क्षमा ययाचिरे ।
प्रस्थानस्य च तूर्याणां निनादा गीतयस्तथा ।।६९।।
जयशब्दा हर्षनादा जीवशब्दास्तदाऽभवन् ।
सुपानमुनिना सार्धं मुद्राण्डेन नृपेण च ।।2.189.७०।।
सहस्थेनार्थितः कृष्णनारायणो ययौ पुरः ।
वर्धितश्चाञ्जलिव्रातैरिन्दिरातटमाययौ ।।७१ ।।
अवतीर्य विशाले च प्रदेशे यानतस्तदा ।
सस्नौ हरिस्तथा सर्वे सस्नुस्तीर्थं ह्यभूद्धि तत् ।।७२।।।
दानं श्रीभगवाँस्तत्र सुपानमुनये ददौ ।
हरेः स्नानामृतवारि पपुर्भक्तजनास्तदा ।।।७३ ।।
यत्र स्नातो हरिस्तत्र वेताला बहवोऽभवन् ।
पूर्वकर्मकृताः सर्वे विगतिं तत्र वै गताः ।।७४।।
ते सर्वे त्वाययुर्गौरा अपि तेजोविहीनकाः ।
दुःखिनो मानवे रूपे न्यवेदयन्नसद्गतिम् ।।।७५।।
प्रसह्य लुण्ठकाः पूर्वे वयमारावणाः खलाः ।
प्रजापीडाकराश्चौरा निजपापैर्मृता इह ।।७६।।
शीतझंझाप्रवातेन पीडिताः क्षुत्पिपासिताः ।
जाता वेतालकाश्चात्र निवसामो नदीतटे ।।७७।।
उद्धारं कुरु देवेश वयं ते शरणागताः ।
इत्युक्तो भगवान् कृष्णनारायणोऽमृतं जलम् ।।७८।।
ददौ तेभ्योऽभिपानार्थं पपुस्ते पापवर्जिताः ।
तत्क्षणं जातपुण्याश्च दिव्यदेहाः सुरा यथा ।।७९।।
देवा देव्योऽभवँस्ते च स्वर्गार्हाः शुभगात्रिणः ।
कृपालुर्भगवानाह लोमशाय महात्मने ।।2.189.८० ।।
मनुमेभ्यः प्रापयाऽत्र वैष्णवाः स्युस्तदुत्तरम् ।
लोमशस्तान् हरेर्मन्त्रं श्रावयामास सत्वरम् ।।८१ ।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
श्रुत्वा मन्त्रं वैष्णवास्ते दिव्यरूपा ववन्दिरे ।।८२।।
हरिश्चेशानदेवं सम्प्राह चैतान् निजाश्रितान् ।
कैलासे प्रेषय शंभो गणास्ते सन्तु तत्र च ।।८३ ।।
इत्युक्तः शंकरस्तान् संप्रेषयामास वै द्रुतम् ।
व्योम्ना कैलासलोकं च हरिः सर्वे जनास्ततः ।।८४।।
विमानानि समारुह्याऽऽययुः सुपानराष्ट्रकम् ।
दूराख्यसरितस्तीरे मद्रिटापत्तने शुभे ।।८५।।
विशाले लक्षशाले च बहूद्याने समन्ततः ।
स्वर्गनिभे सुसमृद्धे व्योम्नः शोभां व्यलोकयन् ।।८६ ।।
शृंगारितं हि बहुधा संसिक्तं गन्धवारिभिः ।
तोरणैर्गोपूरवर्यैर्नगरं बह्वशोभत ।।८७।।
सैन्यं राजाऽऽज्ञया सायं नारायणस्य तुष्टये ।
स्वागतार्थं नदीतीरे महोद्याने तदाऽरमत् ।।८८।।
विमानं नृपतिः स्वस्य समवातारयत् ततः ।
ऋषिः राजा प्रजाश्चापि स्वागतार्थं पुरोऽभवन् ।।८९।।
तदा वाद्यान्यवाद्यन्त जयनादास्ततोऽभवन् ।
यन्त्रशब्दा जनघोषास्तूपशब्दास्ततोऽभवन् ।। 2.189.९०।।
राजदर्शितमार्गेण विमानं श्रीहरिर्निजम् ।
महोद्यानेऽवातारयद् राजसौधसमीपतः ।।९ १ ।।
अन्यान्यपि विमानानि चावतेरुस्तदाऽम्बरात् ।
राधिके हर्षनादैश्च लाजाऽक्षतसुमादिभिः ।।९२।।
वर्धयामासुरत्यर्थं प्रजा राजादयस्तदा ।
जयत्वसंख्यतत्त्वाधिदेवश्चेतिरवान् व्यधुः ।।९३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने इन्दुरायराष्ट्रे तत्सौधे हरेः पूजनं भोजनं वायूनानगरीभ्रमणम् उपदेशनं विदाय सप्तम्यां सायम् इन्दिरानदी - स्नानं वेतालोद्धारो मुद्राण्डराजराष्ट्रागमनं चेत्यादि-
निरूपणनामा नवाशीत्यधिकशततमोऽध्यायः ।। १८९।।
 
</span></poem>
२९,९०१

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225027" इत्यस्माद् पुनः प्राप्तिः