"अथर्ववेदः/काण्डं ६/सूक्तम् ००९" इत्यस्य संस्करणे भेदः

{{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं ६|काण्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०५:२९, ११ फेब्रवरी २०२० इत्यस्य संस्करणं

← सूक्तं ६.००८ अथर्ववेदः - काण्डं ६
सूक्तं ६.००९
ऋ. जमदग्निः।
सूक्तं ६.०१० →
दे. कामात्मा, ३ गावः। अनुष्टुप्।

वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥
मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् ।
यथा मम क्रतावसो मम चित्तमुपायसि ॥२॥
यासां नाभिरारेहणं हृदि संवननं कृतं गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥३॥