"मत्स्यपुराणम्/अध्यायः ७४" इत्यस्य संस्करणे भेदः
Content deleted Content added
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
<poem>
कल्याणसप्तमीव्रतकथनम्।
ब्रह्मोवाच।
भगवन्! भव! संसार सागरोत्तराकारक!।
किञ्चिद् व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम्।. ७४.१ ।।
ईश्वर उवाच।
सौरं धर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम्।
विशोकसप्तमीं तद्वत् फलाढ्यां पापनाशिनीम्।। ७४.२ ।।
शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम्।
मन्दारसप्तमीं तद्वच्छुभदां शुभसप्तमीम्।। ७४.३ ।।
सर्वाननन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः।
विधानमासां वक्ष्यामि यथावदनुपूर्वशः।। ७४.४ ।।
यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत्।
सातु कल्याणिनी नाम विजया च निगद्यते।। ७४.५ ।।
प्रातर्गव्ये पयसा स्नानमस्यां समाचरेत्।
ततः शुक्लाम्वरः पद्ममक्षताभिः प्रकल्पयेत्।। ७४.६ ।।
प्राङ्मुखोऽष्टदलं मध्ये तद्वद् वृत्ताञ्च कर्णिकाम्।
पुष्पाक्षताभिर्देवेशं विन्यसेत् सर्वतः क्रमात्।। ७४.७ ।।
पूर्वेण तपनायेति मार्त्तण्डायेति चानले।
याम्ये दिवाकरायेति विधात्र इति नैर्ऋते।। ७४.८ ।।
पश्चिमे वरुणायेति भास्करायेति चानिले।
सोम्ये वेकर्तनायेति रवये चाष्टमे दले।। ७४.९ ।।
आदावन्ते च मध्ये च नमोऽस्तु परमात्मने।
मन्त्रैरेभिः समभ्यर्च्य नमस्कारान्तदीपितैः।। ७४.१० ।।
शुक्लवस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः।
स्थण्डिले पूजयेद् भक्त्या गुडेन लवणेन च।। ७४.११ ।।
ततो व्याहृतिमन्त्रेण विसर्जेद् द्विजपुङ्गवान्।
शक्तितः पूजयेद् भक्त्या गुडक्षीरघृतादिभिः।।
तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत्।। ७४.१२ ।।
एवं नियमकृत् सुप्त्वा प्रातरुत्थाय मानवः।
कृतस्नानजपो विप्रैः सहैव घृतपायसम्।। ७४.१३ ।।
भुक्त्वा च वेदविदुषि बिडालव्रतवर्जिते।
घृतपात्रं सकनकं सोदकुम्भं निवेदयेत्।। ७४.१४ ।।
प्रीयतामत्र भगवान् परमात्मा दिवाकरः।
अनेन विधिना सर्वं मासिमासि व्रतं चरेत्।। ७४.१५ ।।
ततस्त्रयोदशे मासि गा वै दद्यात्त्रयोदश।
वस्त्रालङ्गारसंयुक्ताः सुवर्णास्याः पयस्विनीः।। ७४.१६ ।।
एकामपि प्रदद्याद्वा वित्तहीनो विमत्सरः।
न वित्तशाठ्यं कुर्वीत यतो मोहात् पतत्यधः।। ७४.१७ ।।
अनेन विधिनायस्तु कुर्यान् कल्याणसप्तमीम्।
सर्वपापविनिर्मुक्तः सूर्य्यलोके महीयते।।
आयुरारोग्यमैश्वर्यमनन्तमिह जायते।। ७४.१८ ।।
सर्वपापहरा नित्यं सर्वदैवतपूजिता।
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी।। ७४.१९ ।।
इमामनन्तफलदां यस्तु कल्याणसप्तमीम्।
श्रृणोति पठते चेह सर्वपापैः प्रमुच्यते।। ७४.२० ।।
</poem>
|