"मत्स्यपुराणम्/अध्यायः ७८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
कमलसप्तमीव्रतकथनम्।
 
ईश्वर उवाच।
अतः परं प्रवक्ष्यामि तद्वत् कमलसप्तमीम्।
यस्याः सङ्कीर्तनादेव तुष्यतीह दिवाकरः।। ७८.१ ।।
 
वसन्तामलसप्तम्यां स्नातः सन् गौरसर्षपैः।
तिलपात्रे च सौवर्णे विधाय कमलं शुभम्।। ७८.२ ।।
 
वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैः समर्चयेत्।
नमः कमलहस्ताय नमस्ते विश्वधारिणे।। ७८.३ ।।
 
दिवाकर! नमस्तुभ्यं प्रभाकर! नमोऽस्तुते।
ततो द्विकालवेलायामुदकुम्भसमन्विताम्।। ७८.४ ।।
 
विप्राय दद्यात् संपूज्य वस्त्रमाल्यविभूषणैः।
शक्त्या च कपिलां दद्यादलङ्कृत्य विधानतः।। ७८.५ ।।
 
अहोरात्रे गते पश्चादष्टम्यां भोजयेद्‌द्विजान्।
यथाशक्याऽथ भुञ्जीत मांसतैलविवर्जितम्।। ७८.६ ।।
 
अनेन विधिना शुक्लसप्तम्यां मासि मासि च।
सर्वं समाचरेद् भक्त्या वित्तशाठ्यविवर्जितः।। ७८.७ ।।
 
व्रतान्ते शयनं दद्यात् सुवर्णं कमलान्वितम्।
गाञ्च दद्यात् स्वशक्या तु सुवर्णाढ्यां पयस्विनीम्।। ७८.८ ।।
भाजनासनदीपादीन् दद्यादिष्ठानुपस्करान्।
अनेन विधिना यस्तु कुर्यात् कमलसप्तमीम्।
लक्ष्मीमनन्तामभ्येति सूर्य्यलोके महीयते।। ७८.९ ।।
 
कल्पे कल्पे ततो लोकान्सप्त गत्वा पृथक् पृथक्।
अप्सरोभिः परिवृतस्ततो याति पराङ्गतिम्।। ७८.१० ।।
 
यः पश्यतीदं श्रृणुयाच्च मर्त्यः पठेच्च भक्त्याऽथ मतिं ददाति।
सोऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकभाक् स्यात्।। ७८.११ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_७८" इत्यस्माद् प्रतिप्राप्तम्