"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १९४" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
राधिके विष्णुतुल्यायास्तटे विशालवर्तुले ।
उद्याने श्रीबालकृष्णो विमानाद् बहिराययौ ।। १ ।।
राजा पुष्पस्रजः कण्ठे ददौ नारायणस्य ह ।
ऋषिर्हारान् ददौ राज्ञी प्रधानाद्या ददुः स्रजः ।। २ ।।
सुपुष्पैः प्रजया कृष्णो वर्धितस्त्वक्षतादिभिः ।
गुच्छे करे न्यधाद् राजा श्रीकृष्णवल्लभप्रभोः ।। ३ ।।
गन्धसारादिकं गन्धिजलं वेषेऽप्यदात्तदा ।
पादौ प्रक्षाल्य राजाद्या अमृतं च पपुस्ततः ।। ८ ।।
वरसिंहो नृपः कृष्णं यन्त्रगन्त्र्यां न्यषादयत् ।
कुटुम्बं दीर्घगन्त्र्यां च महर्षीन् वातगासु च ।। ५ ।।
ब्रह्मप्रिया गजयानेष्वेव राजा न्यषादयत् ।
महीमानयुतं शंभुं शारभेयरथे शुभे ।। ६ ।।
न्यषादयत्ततो वाद्यैः सैन्यसत्कारबोधनैः ।
वाशीलायां नगर्यां वै हरिं चाऽभ्रामयन्नृपः ।। ७ ।।
गोपुरेऽपूजयत् कृष्णं ततो राजकुटुम्बकम् ।
प्रधानाश्चत्वरे कृष्णं पुपूजुश्च कुटुम्बिनः ।। ८ ।।
श्रेष्ठिनस्त्वापणाग्रेषु स्थानिनो मार्गसंगमे ।
प्रजाः सर्वा महामार्गे पुपूजुः कृष्णवल्लभम् ।। ९ ।।
तदानीं योषितो गौर्यः समारूक्षन् निजालयान् ।
हरिं विलोकयन्त्यश्चाऽवाकिरन् पुष्पकैर्हरिम् ।। 2.194.१ ०।।
प्रोचुः परस्परं गौर्यो हृष्टाः शान्तिं गतास्तदा ।
नेत्रायतफलं प्राप्य तद्वीक्षाकृष्टमानसाः ।। ११ ।।
करुणातिनोदितसुदत्तदर्शनं
ललना शरीरिभिरगम्यदर्शनम् ।
प्रसमीक्ष्यसुन्दरतरं हरिं न्वमुं
सफलं स्वकं कुरुत जन्म मा चिरम् ।। १२।।
विषयातिलुब्धमवशं प्रवासनं
नहि मानसं समुपगच्छति स्थितिम् ।
इति चाति लुब्धमवशं प्रदर्शना-
न्ननु योषितो भवति माधवः स्वयम् ।। १ ३।।
प्रणमत्सुराधिपतिभूपतीशधृक्-
मुकुटाग्रकल्गिकृतयोगितासनम् ।
चरणारविन्दयुगलं सतीनुतं
कमलाधृतं कुरुत मानसे न्विदम् ।। १४।।
परधाम्नि यश्च शुभदिव्यविग्रहः
परिवर्णितोऽस्ति निगमैर्गुणाश्रयः ।
विभवर्द्धिरूपगुणकैः प्रपूरितः
प्रभयावृतं कुरुत मानसे न्विमम् ।। १५।।
बहुकान्तिसंभृतमिमं हि सुन्दरं
बहुपुष्टविग्रहमिमं ग्रहाश्रयम् ।
अबलाः पुनर्न तु गतं त्ववाप्स्यथ
तदयं सदा स्वहृदये निगृह्यताम् ।। १६।।
वदनाम्बुजं विविधतापनाशनं
मितमन्दमिष्टहसनातिलोभनम् ।
भुवि मुक्तिदं च परलोकमुक्तिदं
न्विषपूर्णचन्द्रसुखदं निपीयताम् ।। १७।।
पुरुषोत्तमोऽयमतिकर्षति द्रुतं
हृदयं तथेन्द्रियगणं च चेतनम् ।
तमवेत्य कान्तमिह शाश्वतं प्रभुं
हृदये मिलन्तु मिलितः प्रभुज्यताम् ।। १८।।
हृदयस्थितो बहिरुपागतो ह्ययं
कुसुमैश्च मानसभरैः प्रपूज्यताम् ।
रतिरत्नहीरकसमर्पणैरयं
परिरब्ध आलि! मिलितः प्रसेव्यताम् ।। १९।।
इत्थं गीतयशाः कृष्णो भ्रमित्वा नगरीं ततः ।
राजहर्म्यं समायातो वन्दितो नागरैर्जनैः ।।2.194.२०।।
राजा तूर्णं हरेः पादौ पूजयामास चन्दनैः ।
अक्षतैः कुसुमैश्चापि हरिः सिंहासनेऽभवत् ।।२१ ।।
निषीदन्तं पुष्पहारैः कुसुमैस्तं ववर्ष ह ।
लोकः प्रेमभरैर्हद्भिः स्थिरनेत्रो ददर्श च ।।२९।।
सभाऽतिमहती तत्र कृता श्रीपरमात्मना ।
उपादिदेश च तदा जनताहितहेतवे ।।२३ ।।
भगवान् परमेशो यो राजते परमेऽक्षरे ।
कृपया स समायाति निजप्रजावनाय वै ।।२४।।
प्रजाः पुत्र्यो भगवतः पालनीयाश्च मातृवत् ।
पोषणीयाः सुखनीया नेतव्याश्चाक्षरं पदम् ।।२५।।
सर्वावतारधर्ताऽहं श्रीस्वामिकृष्णवल्लभः ।
मायां प्रमृद्य लोकेऽत्र वर्ते भवत्प्रगोचरः ।।२६ ।।
कांभरेयो राधिकेशो लक्ष्मीपद्मावतीपतिः ।
माणिकीशः रमानाथः स्वयं गोपालनन्दनः ।।२७।।
ब्रह्मप्रियाणां कान्तश्च सर्वसृष्टिपतिः प्रभुः ।
सद्गुणामंजुलाहंसाललिताविजयापतिः ।।२८।।
यत्र वासोऽत्र लोकेऽपि मे तद् धाममयं भवेत् ।
नारायणनिवासेन भूमिवैकुण्ठसदृशी ।।२९।।
जातेयं भगवान् हेतुर्दिव्यत्वे दिव्यभाविनि ।
तथा भक्तोऽपि मे हेतुः सद्देशादिसमर्जने ।।2.194.३ ० ।।
राजा भक्तो भवेच्चेद्वै तत्र कृतयुगो भवेत्। ।
नीतिधर्मयुतो राजा कृतं प्रवर्तयेत् खलु ।।३ १ ।।
तत्र वै सर्ववर्णानां नाऽधर्मे जायते मतिः ।
क्षेमं प्रजानां सुभगं सर्वदा हि प्रवर्तते ।।३२।।
सत्कर्माणि समस्तानि क्रियन्ते तु द्विजातिभिः ।
सुसुखाः ऋतवः सर्वे भवन्त्यपि निरामयाः ।।।३ ३।।
प्रसीदन्ति मानवाश्च हृदा च मनसा गिरा ।
न जायन्ते व्याधयश्च नाल्पायुर्जायते जनः ।।३४।।
कृपणा न जनास्तत्राऽपतिका न च योषितः ।
पृथ्वी चापि विना कृष्टिं जनयत्येव सस्यकम् ।।३५।।
ओषधयः फलन्त्येव क्ष्मारसेन सुखप्रदाः ।
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्त्यपि ।।३६।।
धर्म एव सुखं चैव तृप्तिश्चैव गृहे गृहे ।
जने जने च विश्वासः सुखं नोद्वेजनं क्वचित् ।।३७।।
एवं राजा धर्मयुक्तः सत्यकालस्य कारणम् ।
यदांऽशं त्यजते राजा धर्मस्यैव तदा भवेत् ।।३८।।
त्रेतानामयुगश्चात्र मानवेषु स्थले स्थले ।
अशुभांशश्चतुर्थांशस्तावन्मानं च कष्टकृत् ।।३९।।
कृष्टपच्या भूर्भवेच्च त्रिभागफलदा तदा ।
सर्वं त्रिभागफलदं फल्गु भागे चतुर्थके ।।2.194.४०।।
सुखे तत्साधने चापि लब्धव्ये विषयेऽपि च ।
सर्वं पूर्णं न फलति त्रेताहेतुर्नृपो यदा ।।४१ ।।
अर्धं राजा यदा धर्मं नीतिं त्यजति वै तदा ।
द्वापरं नृपतौ प्राप्तं प्रजास्वेवं प्रवर्तते ।।४२।।
मेघेऽरण्ये ऋतौ वृक्षे रसे गोषु प्रवर्तते ।
अशुभांशौ भवेतां द्वौ शुभांशौ द्वौ मतौ तदा ।।४३ ।।
सर्वं चार्धं फलत्येव बाह्यं वाऽन्तरमित्यपि ।
स्वकीयं वा च पारक्यं दैवं वाऽदैवमित्यपि ।।४४।।
स्वार्थं वाऽथ परार्थं वा चार्धं फलति सर्वथा ।
अर्धा पृथिवी फलति सस्येष्वर्धकणर्द्धिता ।।४५।।
यदा राजा त्यजत्येव त्र्यंशं धर्मं तदा भुवि ।
ऋतौ रसे जने वृक्षे कार्ये फले च पादता ।।४६ ।।
त्र्यंशे निष्फलता बोध्या चांऽशेऽपि निश्चयो नहि ।
एवं वै वर्तते राजा तदा तिष्यः प्रवर्तते ।।४७।।
प्रजा क्लिश्नात्ययोगेन तदाऽधर्मपरा जनाः ।
सर्वेषां मानवानां वै स्वधर्माच्च्यवते मनः ।।४८।।
कलावधर्मो बलवान् गृहे गृहे जने जने ।
भिक्षवो वर्णसर्वस्वा भृत्याश्च सार्ववर्णिकाः ।।४९।।
वर्णसांकर्यभूयिष्ठं योगक्षेमौ न वै क्वचित् ।
सत्कर्माणि न विद्यन्ते कुतो वैदिकवार्तिका ।।2.194.५०।।
ऋतवश्चाऽसुखाः सर्वे भवन्त्यामयिनो जनाः ।
असत्ये विजयं मन्यमानास्तिष्ठन्ति सर्वदा ।।५१ ।।
ह्रसन्ति मानवानां तु रूपस्वरमनांस्यपि ।
व्याधयो नूतनास्तत्र म्रियन्ते चाल्पकालिनः ।।५२।।
विधवा विधुराः प्रायो भवन्ति बहवो जनाः ।
निन्द्या एव प्रजाः प्रायः सुखशान्तिविवर्जिताः ।।५३।।
पार्श्वे वर्षति पर्जन्यः पक्षेऽवग्रहकारकः ।
क्वचित्सस्यकणोत्थाणं क्वचिच्चांकुरदग्धता ।।५४।।
रसाः क्षयं गताः स्युश्च यदा राज्ञि कलिर्भवेत् ।
प्रजारक्षाहनो भूपाः कलिकोशा भवन्ति वै ।।१५।।
राजा कृतस्य स्रष्टा वै त्रेताया द्वापरस्य च ।
कलेश्च स्रष्टा राजैव कारणं युगपर्यये ।।५६।।
कृतस्य करणाद् राजा स्वर्गमुत्तममश्नुते ।
त्रेतायाः करणाद् राजा त्र्यंशं स्वर्गं समश्नुते ।।५७।।
द्वापरस्याऽर्जनाद् राजाऽर्धं सुखं समविन्दति ।
कलेः प्रवर्तनात् क्लेशं राज्यनाशं च विन्दति ।।५८।।
एवं कलौ पापमेव भुंक्ते राजा हि राक्षसः ।
ततो यात्येव नरके वसत्येव चिरं समाः ।।५९।।
प्रजानां कल्मषं भुंक्ते दुःखं भुंक्तेऽप्यसीमकम् ।
पापं चाप्यपकीर्तिच भुंक्ते दुःखपरम्पराम् ।।2.194.६०।।
तस्मान्नीत्या सदा राज्ञा वर्तितव्यं कृतादिवत् ।
चरेद्धर्मानसंमोहान् कुर्यात् स्नेहं विबन्धनात् ।।६ १ ।।
लभेदर्थं च निर्लोभाच्चरेत् कामं सदार्तवात् ।
ब्रूयात् प्रियं न कार्पण्यात् परक्रमेन्न कत्थनात् ।।६२।।।
दद्यात् कुपात्रदो न स्यात् स्याद् गंभीरो न निम्नगः ।
मिलेत् सर्वैरनार्यैश्च गृह्णीयान्नाप्यनीतितः ।।६३ ।।
अचारो न भवेत् क्वापि कार्यं कुर्यान्न पीडयेत् ।
अर्थं वदेन्न दुष्टेषु गुणान् वदेन्न चात्मनः ।।६४।।
आदद्यान्न दरिद्रेभ्यो नाश्रयं दुःसतश्चरेत् ।
अविमृश्य दण्डयेन्न रहस्यं न प्रकाशयेत् ।।६५।।
विसृजेन्न तु दुष्टेभ्यो विश्वसेन्नापकारिषु ।
ईर्ष्याशून्यो भवेच्चापि दारेष्वपि प्रजास्वपि ।।६६।।
स्त्रीः संसेवेत नात्यर्थं मृष्टं भुञ्जीत नाऽहितम् ।
मानयेत् पूज्यवर्गाश्च गुरून् सेवेत् भावतः ।।६७।।
देवान् प्रपूजयेद् भक्त्या श्रियं चेच्छेदनिन्दिताम् ।
दाक्ष्यं कुर्याद् यथापेक्षं मार्दवं कालविच्चरेत् ।।६८।।
सान्त्वयेत् हार्दलाभायाऽनुगृह्णीयात् समृद्धये ।
प्रहरेत् तत्त्वमाज्ञाय कृत्वा पश्चान्न शोचयेत् ।। ६९।।
क्रोधं कुर्यान्नान्यथा वै मार्दवं गृह्णीयान्न च ।
सतः सेवेत सततं शान्तये मोक्षणाय च ।।2.194.७० ।।
समाध्यर्थं पण्डिताँश्च सेवेत सततं नृपः ।
एवं बुद्धिं प्रसेवेत प्रातरुत्थाय निर्जने ।।७१ ।।
सेवेत चान्तरात्मानं मां यथार्थप्रदर्शिने ।
चत्वारिंशद्गुणैः राजा देवत्वमिव राजताम् ।।।७२।।
विकासयितुमर्हः स्यात् तस्मान्नीतियुतो भवेत् ।
मां सदा सर्वथा साक्ष्ये चान्तरे संस्मरेन्नृपः ।।७३।।
ततः सर्वं प्रकुर्वीत सत्ययुगप्रदोऽस्म्यहम् ।
असन्मार्गप्रवृत्तस्योद्धारकोऽहं भवामि च ।।७४।।
संशयपंकमग्नस्योन्नेताऽस्म्यहं जनार्दनः ।
अकार्यजालग्रथनागतस्याऽहं विमोचकः ।।७५।।
अपारङ्गमगन्तुश्च पारङ्गमक इत्यहम् ।
भवाम्येव सदा तस्मात् सेवनीयोऽहमाश्रयः ।।७६।।
राजाऽथवा प्रजा पुत्रः पुत्री वा कार्ययोगिनः ।
विस्तरेण तु धर्माणां न जात्वन्तमवाप्नुयुः ।।७७।।
तैः सदाऽनुष्ठेयकेऽर्थे सन्दिग्धे नान्तवर्तिनि ।
प्रष्टव्या धर्मनिष्ठाश्च श्रुतवन्तः सुरोत्तमाः ।।७८।।
प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च ।
निवेदनीयाः कार्यार्थे नारायणस्मृतेस्तथा ।।७९।।
गोपायितारं दातारं धर्मनित्यमतन्द्रितम् ।
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ।।2.194.८०।।
मत्परं साधुसेवं च मदर्थकृतयत्नकम् ।
मयि न्यस्तसमस्तं च भूतान्यनुसरन्ति हि ।।८ १।।
तस्मान्निरुक्तसृत्या च भाव्यं राज्ञा प्रजाजनैः ।
तथा सौख्यं भवेदत्र परत्रापि गतिर्भवेत् ।।८२।।
राजा प्रजा भवेद् यो वा को वाऽप्यत्र तु देहवान् ।
देहदं मां भजेन्नित्यं स स्यात् सुखी न चेतरः ।।८३।।
धर्मा अर्थाश्च कामाश्च मोक्षे येन नियोजिताः ।
योजितः स भवत्येव नैसर्गान्मयि माधवे ।।८४।।
एवं सर्वे प्रकुर्वन्तु कार्याणि मन्मयानि ह ।
भुक्तिर्मुक्तिर्भवत्येव नात्र कार्या विचारणा ।।८५।।
इत्युक्त्वा भगवान् कृष्णो मन्त्रं ददौ तदा निजम् ।
विरराम ततः स्वामी सर्वमानसतृप्तिदः ।।८६।।
राज्ञी च राजकन्याश्च पुपूजुः परमेश्वरम् ।
पञ्चकन्यास्तदैवाऽस्य हस्तं जगृहुरादरात् ।।८७।।
कान्तं प्राप्य परानन्दं लेभिरे पञ्चगौरिकाः ।
राजा मुमुदेऽत्यर्थं च राज्ञी मेने कृतार्थताम् ।।८८।।
हरेः पूजा कृता लोकैः सभाविसर्जनं ह्यभूत् ।
हरिर्भोजनमासाद्य विश्रान्तिमाप चालये ।।८९।।
महीमानाः समस्ताश्च विश्रान्तिं लेभिरे भृशम् ।
रात्रिं निनाय भगवान् पालनादाय चर्षये ।।2.194.९०।।
दत्वोपदादिसामग्रीर्गन्तुं सज्जोऽभवत्तदा ।
राजा सैन्येन वाद्याद्यैर्विदायं प्रददौ महत् ।। ९१ ।।
हरिं राजा पुष्पहारैः प्रातः कृताह्निकं तदा ।
दुग्धपानादिकं व्यधापयत्ततोऽतिपूजनम् ।। ९२।।
चकाराऽऽरार्त्रिकं चापि पपौ पादामृतं ततः ।
हारालिराजितवक्षा हरिर्विमानगोऽभवत् ।।९३ ।।
महीमानाः समस्ताश्चारुरुहुर्व्योमगामिषु ।
विमानेषु ततो वाद्यान्यवाद्यन्त च भूरिशः ।।९४।।
जयनादैर्ययुस्तस्माद् रायगामलराष्ट्रकम् ।
रायगामलराजा च लातवायमुनिस्तथा ।।९५।।
कुटुम्बं राजकीयं च पुरो गत्वाऽतिशोभनम् ।
स्वागतं श्रीहरेश्चापि सैन्यशोभातिकारितम् ।।९६।।
चक्रुः सर्वे निनादैः कीर्तनैर्वाद्यैः सुमादिभिः ।
आकाशे चागतं कृष्णविमानं वीक्ष्य ते तदा ।।९७।।
जयनादान् प्रचक्रुश्च यन्त्रीध्वानानकारयन् ।
गोर्यः सर्वा गीतिनादान् मधुरानप्यगापयत् ।।९८।।
एवं सन्मानसौभाग्ये स्थले ह्युद्यानशोभिते ।
द्व्यूनासरित्तटे पुर्या रिगायाः सन्निधौ हरिः ।।९९।।
राजदर्शितमार्गेणाऽवातारयद् विमानकम् ।
अन्यान्यपि विमानानि चावतेरुस्तदाम्बरात् ।। 2.194.१० ०।।
राधिके जनताः कृष्णं व्यलोकयन् स्थिरदृशः ।
पुष्पैरवर्धयन् गीतिजयध्वानैरवर्धयन् ।। १०१ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वरसिंहनृपस्य वाशीलानगर्यां हरेर्भ्रमणं पूजनं युगोपदेशनं भोजनं विश्रमणं निद्रोत्तरं त्रयोदश्यां मध्याह्नपूर्वं रायगामलराष्ट्रगमनमित्यादिनिरूपणनामा
चतुर्नवत्यधिकशततमोऽध्यायः ।। १९४ ।।
 
</span></poem>
३२,०२३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225475" इत्यस्माद् प्रतिप्राप्तम्