"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १९७" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
राधिके स्वादनर्षिश्च स्तोकहोमो नृपोऽपि च ।
अम्बरादवतीर्यैव महोद्याने विशालके ।। १ ।।
उमापुर्याः सन्निधौ स्वागतार्थं ययतुर्द्रुतम् ।
सैन्यमादाय तूद्याने तिष्ठतः संप्रतीक्षतः ।। २ ।।
राजदर्शितमार्गेणाऽवातारयद् विमानकम् ।
हरिश्चान्ये विमानानि तदुद्यानेऽवतारयन् ।। ३ ।।
तदा वाद्यान्यवाद्यन्त जयनादास्तथाऽभवन् ।
प्रजानां हर्षनादाश्च कीर्तनानि तदाऽभवन् ।
विमानं फलपुष्पाद्यैः प्रजाभिः संप्रवर्धितम् ।। ४ ।।
हरिर्लाजाऽक्षताद्यैश्च वर्धितः स्वागतीकृतः ।
श्रीहरिर्मध्यभागाच्च विमानाद् बहिराययौ ।। ५ ।।
राजा पुपूज वै भक्त्या स्वर्णकौसुमशेखरैः ।
हारै रत्नमयैः पौष्पैर्गुच्छैश्चन्दनवारिभिः ।। ६ ।।
सुगन्धसारैर्विविधैः पादप्रक्षालनेन च ।
पपौ पादजलं चापि कुटुम्बेन समन्वितः ।। ७ ।।
प्रधानाद्यैश्च सहितः प्रजाभिः सहितस्तथा ।
अथ राजा तु पितरौ हरेः पुपूज वै ततः ।। ८ ।।
राज्ञी ब्रह्मप्रियाः सर्वाः पुपूज परमेश्वरीः ।
राजाऽऽनर्चेशानदेवं कन्या गौरीं पुपूज च ।। ९ ।।
ऋषिर्महर्षीनानर्च भूभृत्तदा हरिं प्रभुम् ।
न्यषादयन्नरयाने शेषवत्स्वर्णमण्डिते ।। 2.197.१ ०।।
फणासहस्रशोभाढ्ये षष्टिमानववाहिते ।
अन्यान् न्यषादयद् राजा शकटीषु नवासु च ।। ११ ।।
ततस्तूर्यनिनादैर्हि यशोगानैः सुगीतिभिः ।
निनादितासु त्वाशासु हरिः स्वागतशोभितः ।। १ २।।
उमापुर्यां विचचार पावयितुं प्रतिस्थलम् ।
गोपुरे राजपुरुषैर्वर्धितो रत्नमण्डनैः ।। १३ ।।
पुरीमध्ये भृत्यवर्यैः श्रेष्ठिभिश्च महापथे ।
गृहिभिश्चांगणेष्वेव सर्वत्र प्रजया तदा ।। १४।।
वर्धितः पूजितः कृष्णो ययौ ददन् स्वदर्शनम् ।
पूजां प्राप्य ततः सैन्यसहितः स्वनिवासनम् ।। १५।।
आययौ जलपानादि चकार नृपनोदितः ।
कुटुम्बं जलपानादि चक्रे तथाऽपरेऽपि च ।। १६।।
जलपानादिकं चक्रुरथ कृष्णः सभास्थले ।
राजसिंहासने स्थित्वा निषद्योपादिदेश ह ।। १७।।
प्रजाभिः सर्वथा भाव्यं परमेश्वरहेतवे ।
राजभिः सर्वथा भाव्यं प्रजान्तर्यामिहेतवे ।। १८।। '
उभाभ्यां सर्वथा भाव्यं मिथोऽन्तर्यामिहेतवे ।
उभयत्र विराजेऽहं मां यजन्तु समाहिताः ।। १ ९।।
तेन युष्मद्विजयश्च भुक्तौ मुक्तौ भविष्यति ।
साधून् संपूजयेन्नित्यं स्पर्धां तत्र परित्यजेत् ।। 2.197.२०।।
न च कामाद् भयाल्लोभाक्रोधाद्वा धर्ममुत्सृजेत् ।
अमानिना सत्यवाचा भाव्यं जितात्मना तथा ।।२१।।
तस्यैवं वर्तमानस्य भूतिर्भवति शाश्वती ।
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः ।।२२।।
एतान् गुणान् समाश्रित्य वर्तितव्यं हि मुक्तये ।
कृतप्रज्ञश्च मेधावी बुधः सर्वात्मदर्शकः ।।२३।।
सर्वसत्कर्मशुद्धश्च विज्ञश्चात्मपरात्मनोः ।
सुहृदात्मा विरागश्च मल्लोके गन्तुमर्हति ।।२४।।
सत्यवाक् शीलसम्पन्नः सत्रपो ब्रह्मसंस्मरः ।
सन्तुष्टः सत्यव्रतवान् मल्लोके गन्तुमर्हति ।।२५।।
सान्त्वनं वचनं चैकपदं गुणैर्विभूषितम् ।
आचरन् पुरुषः सौख्यं लभेत् सर्वत्र सृष्टिषु ।।२६।।
साम मे स्तवनं प्रोक्तं सान्त्वनं च तदेव तत् ।
जनानां सान्त्वनं चापि हृदिस्थस्य ममैव तत् ।।२७।।
तेन तुष्यामि सततं सान्त्वकीर्तनसेवनैः ।
सान्त्वं चैकपदं सर्वभूतानां सुखदं सदा ।।२८।।
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च ।
सम्यगासेव्यमानस्य जिह्वायां संवसाम्यहम् ।।२९।।
व्यवहारेण शुद्धेन हृदये संवसाम्यहम् ।
उभाभ्यां सन्निधौ तस्य चागत्य गोचरो यथा ।। 2.197.३ ०।।
भवाम्येव तथा नित्यं करोम्यस्य शुभं न्वहम् ।
एवं तिष्ठामि सततं धार्मिकेषु जनेष्वहम् ।।३ १ ।।
धार्मिकैश्च जनैर्यत्र स्वकीया वसतिः कृता ।
तत्र गूढो वसाम्येव तेषां रक्षणहेतवे ।। ३२।।
यष्टव्यं क्रतुभिस्तैश्च दातव्यं दानयोगिने ।
अनाथरक्षणं कार्यं न कार्यं धर्मबाधकम् ।। ३३।।
कृपणाऽनाथवृद्धानां योषितां सेविनां तथा ।
योगः क्षेमस्तथा वृत्तिः कल्पनीया हि धार्मिकैः ।। ३४।।
आश्रमेषु यथाकालं चैलभाजनभोजनम् ।
दातव्यं तैः प्रजाजनैर्नृपेण श्रेष्ठिनाऽपि च ।।३५।।
सर्वार्थत्यागिनं सन्तं मोक्षदं शास्त्रसंवृतम् ।
पूजयेच्छ्रेय इच्छन् वै शयनासनभोजनैः ।।३६।।
दस्यवोऽपि घातकाश्च विश्वसन्ति तथाविधे ।
पापनाशकरे शुद्धे साधौ मोक्षप्रदे गुरौ ।।३७।।
सर्वश्रेयस्करे साधौ विश्वसन्ति वनस्थिताः ।
आरण्यकाश्च पशवः सिंहाः क्रूरादयोऽपि च ।। ३८।।
शान्ति लभन्ते तत्रैव यत्र साधुनिवासनम् ।
ऋतवोऽपि सत्त्ववृत्ता भवन्ति साधुसंगमे ।। ३९।।
भूतानि सत्त्वयुक्तानि जायन्ते साधुसन्निधौ ।
अहं यस्माद् वसाम्येव साधूनां हृदयेऽन्वहम् ।।2.197.४० ।।
तेषां सेवनतः सेवा मम संजायते शुभा ।
फलं यत्सेवनस्यैव जायते साघुसेवनात् ।।४१।।
यथादेशं यथाकालं यथाबुद्धिं यथाबलम् ।
साधून् सेवेत सततं धर्मार्थी मोक्षलालसः ।।४२।।
यथा श्रेयो भवेन्नैजं तथा सेवेत क्षेमवत् ।
तथा कर्माणि कुर्वीत साधुस्तुष्टो भवेद् यथा ।।४३ ।।
ये भूतान्यनुगृह्णन्ति शिक्षयन्ति वृषादिकम् ।
ते साधवः सदा रक्ष्या राष्ट्रे राज्ञा विपश्चिता ।।४४।।
धनी संपूजयेन्नित्यं पानाच्छादनभोजनैः ।
साधुं प्रजानियन्तारं धर्मस्य शासकं शुभम् ।।४५।।
प्रायो धनी धार्मिकश्च तपोयुक्तान् प्रपूजयेत् ।
बुद्धिमान् साधुपुरुषं रक्षेत् स्वनगरे सदा ।।४६।।
सत्यमार्जवमक्रोधं भक्तिं धर्मं विरागिताम् ।
पालयन्तः साधवस्ते राष्ट्रक्षेमकरा मताः ।।४७।।
किं छिद्रं कस्य संगो मे किं वा करोमि साधनम् ।
कुतो मां नाश्रयेद् दोषः इति विद्वान् विचिन्तयेत् ।।४८।।
राजा साधून् रक्षयेद्वै सर्वदोषहरा हि ते ।
धर्माय राजा भवति लोकरक्षणहेतवे ।।४९।।
राजा चरति चेद्धर्मं देवत्वायैव कल्पते ।
राजा चरत्यधर्मं चेन्नरकायैव कल्पते ।।2.197.५०।।
धर्मे तिष्ठन्ति भूतानि धर्मौ राजसु तिष्ठति ।
तं राजा साधु यः शास्ति स राजा रक्षको मतः ।।५१।।
राजा परमधर्मात्मा साधुर्धर्मः स उच्यते ।
स्वधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ।।५२।।
तमेव मंगलं धर्मं लोकः समनुवर्तते ।
ममेदमिति नैवाऽस्ति साधूनां धर्मशालिनाम् ।।५३।।
ऋषयः साधवो वीक्ष्य लोकक्षेमं समन्ततः ।
असृजत्स महद्भूतं ह्ययं धर्मो भविष्यति ।।५४।।
यस्मिन् धर्मो विराजेत स राजा रक्षको मतः ।
धर्मे वर्धति वर्धन्ते सर्वभूतानि सौख्यतः ।।५५।।
तस्मिन् ह्रसति हीयन्ते तस्माद्धर्मं प्ररक्षयेत् ।
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा ।।५६।।
साधौ धर्मः प्रभवति रक्ष्यास्तस्माद्धि साधवः ।
धर्मस्य साधवो योनिस्तस्मात्तान् पूजयेत् सदा ।।५७।।
मत्तात्प्रमत्तात् पौगण्डादुन्मत्ताद्व्यसनाश्रयात् ।
मायिकाच्च शठाद्धूर्ताल्लम्पटात्कितवात्मकात् ।।५८।।
दूरे भवन्ति सततं साधवो निर्मला यतः ।
तारयन्ति निमग्नाँश्च प्रापयन्ति च मामपि ।।५९।।
तस्माद् रक्ष्याः पूजनीयाः सेवनीयाः हि साधवः ।
अत्यागं चाभिमानं च दंभं क्रोधं च वर्जयेत् ।।2.197.६० ।।
कृतं त्रेता द्वापरं च कलिश्च युगतुर्यता ।
राजाधिनानि सर्वाणि राजैव युगमुच्यते ।।६ १ ।।
सुधर्मात्मा नृपः श्रेष्ठः कृतं युगं स तूच्यते ।
अधर्मात्मा भवेद् राजा साधवस्त्वपयान्ति वै ।।६२।।
विपदोऽपि भवेयुर्वै राष्ट्रे तत्र समन्ततः ।
अधर्मभूते नृपतौ सर्वे सीदन्ति जन्तवः ।।६३।।
यस्य नास्ति गुरुर्धर्मे न च साधून् सुपृच्छति ।
स्वयं चापारदर्शी च न चिरं सुखमश्नुते ।।६४।।
गुरुप्रधानो धर्मेषु साधुधर्मे स्वयं स्थितः ।
धर्मप्रधानो नृपतिः सुखमक्षयमश्नुते ।।६५।।
तस्माद् प्रजाभिः सततं राज्ञा च धर्मवर्मणि ।
वर्तितव्यं साधुसंगे येन भुक्तिश्च मोक्षणम् ।।६६।।
इत्युक्त्वा श्रीहरिं कृष्णो विररामाऽथ वै ततः ।
भूपतिः पूजयामास प्रजाः पुपूजुरादरात् ।।६७।।
अथ श्रीबालकृष्णं तं स्तोकहोमस्य कन्यका ।
मातृवाक्यं परिपाल्य कृष्णहस्तमुपाददे ।।६८।।
कृतकृप्याऽभवद् गौरी राजोत्सवं चकार ह ।
हरिं संभोजयामास कुटुम्बं महीमानकान् ।।६९।।
विशश्रमुस्ततः सर्वे प्रजाः स्वस्वालयान् ययुः ।
रात्रौ नृत्यादि च राजाऽकारयन्महदुत्सवे ।।2.197.७०।।
भोजनं चाथ विश्रान्तिं जगृहुश्च ततः परम् ।
प्रातरुत्थाय भगवान् कृताह्निकः सुपूजितः ।।७ १ ।।
कृतदुग्धादिपानश्च सज्जोऽभूद् गन्तुमच्युतः।
राजा ददावुपदाश्च सैन्येन सह शोभनः ।।७२।।
विदायं प्रददौ चापि तूर्यनादास्तदाऽभवन् ।
हरिर्विमानमारुह्य शृण्वन् जयध्वनीन् शुभान् ।।७३ ।।
गौरीणां गीतिकाश्चापि सर्वैर्विमानवासिभिः ।
प्रययौ चाम्बरात्तूर्णं काष्ठयाननृपस्य वै ।।७४।।
राष्ट्रं नाररवर्षिध्रं सागरान्तं महायतम् ।
तुन्नयामानगर्याः सन्निधौ वृक्षाधिवासिते ।।७५।।
उद्याने काष्ठयानश्च राजा पुरो ययौ तथा ।
नाररवमुनिश्चापि स्वागतार्थं हरेर्ययौ ।।७६।।
इत्येवं राधिके राजा सैन्ययुक्तोऽभवत्पुरः ।
सर्वाः प्रजास्तथा कृष्णसन्मानार्थ समाययुः ।।७७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने स्तोकहोमस्य उमापुर्यां हरेरवतरणं भ्रमणं पूजनम् उपदेशनं भोजनं रात्रौ विश्रमणं भाद्रशुक्लप्रतिपदि प्रातस्ततः काष्ठयाननृपतिराष्ट्रागमनमित्यादिनिरूपणनामा सप्तनवत्यधिकशततमोऽध्यायः ।। १९७ ।।
 
</span></poem>
३१,९८०

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225477" इत्यस्माद् प्रतिप्राप्तम्