"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् २/प्रपाठकः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४:
2.1.1 अनुवाक 1 ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्।
1 वायव्यꣳ श्वेतम् आ लभेत भूतिकामः । वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भागधेयेनोपधावति स एवैनम् भूतिं गमयति भवत्य् एव । अतिक्षिप्रा देवतेत्य् आहुः सैनम् ईश्वरा प्रदह इति । एतम् एव सन्तं वायवे नियुत्वत आ लभेत नियुद् वा अस्य धृतिः । धृत एव भूतिम् उपैत्य् अप्रदाहाय भवत्य् एव ॥
2 वायवे नियुत्वत आ लभेत ग्रामकामः । वायुर् वा इमाः प्रजा नस्योता नेनीयते वायुम् एव नियुत्वन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मै प्रजा नस्योता नि यच्छति ग्राम्येव भवति नियुत्वते भवति ध्रुवा एवास्मा अनपगाः करोति वायवे नियुत्वत आ लभेत प्रजाकामः । प्राणो वै वायुर् अपानो नियुत् 0, प्राणापानौ खलु वा एतस्य प्रजायाः
3 अप क्रामतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते वायुम् एव नियुत्वन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मै प्राणापानाभ्याम् प्रजाम् प्र जनयति विन्दते प्रजाम् । वायवे नियुत्वत आ लभेत ज्योगामयावी प्राणो वै वायुर् अपानो नियुत् प्राणापानौ खलु वा एतस्माद् अप क्रामतो यस्य ज्योग् आमयति वायुम् एव नियुत्वन्तꣳ स्वेन भागधेयेनोप
4 धावति स एवास्मिन् प्राणापानौ दधाति । उत यदीतासुर् भवति जीवत्य् एव प्रजापतिर् वा इदम् एक आसीत् सो ऽकामयत प्रजाः पशून्त् सृजेयेति स आत्मनो वपाम् उद् अक्खिदत् ताम् अग्नौ प्रागृह्णात् ततो ऽजस् तूपरः सम् अभवत् तꣳ स्वायै देवताया आलभत ततो वै स प्रजाः पशून् असृजत यः प्रजाकामः