अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ६७१:
हरिद्वारनगरे मम वार्तालापः ऋत्विजैः सह अभवत्। कोपि ऋत्विक् पूनानगरतः, अन्ये नागपूरतः, अन्यः उज्जयिनीतः आगताः अभूवन्। तेषु मध्ये कोपि विकिसोर्सविषये परिचितः नासीत्। यदा मया तेभ्यः कथितं आसीत् यत् विकिसोर्सः ग्रन्थानां स्रोतः अस्ति, तदा तेषां विकिस्रोततः अपेक्षायाः जाग्रति अभवत्। ते सर्वे स्मार्ट मोबाईलफोन धारकाः आसन् एवं त्वरितगत्या विकिस्रोततः अपेक्षितग्रन्थस्य अन्वेषणं कर्तुं शक्ताः आसन्। मम सुझावः अस्ति यत् यत्र - यत्र संस्कृतस्य विद्यार्थिनः सन्ति, यत्र गुरवः सन्ति, तत्र - तत्र विकिस्रोतस्य ज्ञानम् भवेत्। अस्य उद्देश्यस्य क्रियान्वनं केन प्रकारेण भवेत्, न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४०, ३ मार्च २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता उक्तं सत्यमेव। अस्मिन् विषये प्रचारः अवश्यं करणीयः अस्ति । संस्कृतज्ञाः यत्र मिलन्ति तत्र प्रदर्शिनीम् आयोजयामः, दृश्यचित्राणां द्वारा विकिपरिचयमपि किञ्चिदिव कारयामः। किन्तु सः प्रयत्नः अत्यन्तं गौणः । व्यवस्थितरूपेण कार्यं साधनीयमस्ति । सामाजिकमाध्यमद्वारा प्रचारे निपुणाः श्रद्धालवः केचन वा प्रयासं कुर्वन्ति चेत् समीचीनम् । तदर्थं प्रयतिष्ये । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:०२, ३ मार्च २०२० (UTC)
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Shubha" इत्यस्माद् प्रतिप्राप्तम्