"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११३:
शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सदने ॥४
 
हे “इन्द्र “सुतम् अभिषुतम् “इमं सोमं “पिब । कीदृशम् । “ज्येष्ठम् अतिशयेन प्रशस्यं “मदं मoकरंमदकरं “अमर्त्यम् अमारकम् । सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः। तथा “ऋतस्य यज्ञस्य संबन्धिनि “सदने गृहे वर्तमानाः “शुक्रस्य दीप्तस्यास्य सोमस्य “धाराः त्वाम् “अभ्यक्षरन् आभिमुख्येन संचलन्ति त्वां प्राप्नुवन्ति स्वयमेवागच्छन्तीत्यर्थः ॥ ज्येष्ठम् । प्रशस्यशब्दात् इष्ठनि ‘ ज्य च ' ( पा. सू. ५. ३. ६१ ) इति ज्यादेशः । अक्षरन्। ‘क्षर संचलने' । छान्दसो लङ् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८४" इत्यस्माद् प्रतिप्राप्तम्