"मत्स्यपुराणम्/अध्यायः १६०" इत्यस्य संस्करणे भेदः
Content deleted Content added
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
<poem>
तारकोपाख्यानम्।
सूत उवाच।
श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देववन्दिभिः।
सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम्।। १६०.१
स्मृत्वा धर्मं ह्यवर्माङ्गः पदातिरपदानुगः।
मन्दिरान्निर्जगामाशु शोकग्रस्तेन चेतसा ।। १६०.२
कालनेमिमुखा दैत्याः संरम्भाद् भ्रान्तचेतसः।
योधा! धावतगृह्णीत योजयध्वं वरूथिनीम् ।। १६०.३
कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः।
किं बाल! योद्धुकामोऽसि क्रीड कन्दुकलीलया ।। १६०.४
त्वया न दानवा दृष्टा यत् सङ्गर विभीषकाः।
बालत्वादथ ते बुद्धिरेवं स्वल्पार्थदर्शिनी ।। १६०.५
कुमारोऽपि तमग्रस्थं बभाषे हर्षयन् सुरान्।
श्रृणु तारक! शास्त्रार्थस्तव चैव निरूप्यते ।। १६०.६
शास्त्रैरर्था न दृश्यन्ते समये निर्भये भटैः।
शिशुत्वं मावमंस्था मे शिशुः कालभुजङ्गमः ।। १६०.७
दुष्प्रेक्ष्यो भास्करो बालस्तथाहं दुर्जयः शिशुः।
अल्पाक्षरो न मन्त्रः किं सुस्फुरो दैत्य! दृश्यते ।। १६०.८
कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरम्।
कुमारस्तं निरस्याथ वज्रेणामोघवर्चसा ।। १६०.९
ततश्चिक्षेप दैत्येन्द्रो भिन्दि पालमयोमयम्।
करेण तच्च जग्राह कार्तिकेयोऽमरारिहा ।। १६०.१०
गदां मुमोच दैत्याय षण्मुखोऽपि खरस्वनाम्।
तया हतस्ततो देत्यश्चकम्पेऽचलराडिव ।। १६०.११
मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे।
चिन्तयामास बुद्ध्या वै प्राप्तः कालो न संशयः ।। १६०.१२
कुपितन्तु तमालोक्य कालनेमि पुरोगमाः।
सर्वे दैत्येश्वरा जघ्नुः कुमारं रणदारुणम् ।। १६०.१३
स तैः प्रहारैरस्स्पृष्टो वृथा क्लेशो महाद्युतिः।
रणशौण्डास्तु दैत्येन्द्राः पुनः प्रासैः शिलीमुखैः ।। १६०.१४
कुमारं सामरञ्जघ्नुर्बलिनो देवकण्टकाः।
कुमारस्य व्यथा नाभूद्दैत्यास्त्रनिहतस्य तु।। १६०.१५
प्राणान्तकरणो जातो देवानां दानवाहवः।
देवान्निपीडितान् दृष्ट्वा कुमारः कोपमाविशत् ।। १६०.१६
ततोऽस्त्रैर्वारयामास दानवानामनीकिनीम्।
तैरस्त्रैर्निष्प्रतीकारै स्ताडिताः सुरकण्टकाः ।। १६०.१७
कालनेमिमुखाः सर्वे रणादासन् पराङ्मुखाः।
विद्रुतेष्वथ दैत्येषु हतेषु च समन्ततः ।। १६०.१८
ततः क्रुद्धो महादैत्य स्तारकोऽसुरनायकः।
जग्राह च गदां दिव्यां हेमजाल परिष्कृताम् ।। १६०.१९
जघ्ने कुमारं गदया निष्टप्त कनकाङ्गदः।
शरैर्मयूरं चित्रैश्च चकार विमुखं रणे ।। १६०.२०
दृष्ट्वा पराङ्मुखं देवो मुक्त रक्तं स्ववाहनम्।
जग्राह शक्तिं विमलां रणे कनकभूषणाम् ।। १६०.२१
बाहुना हेमकेयूररुचिरेण षडाननः।
ततो जवान्महासेनस्तारकं दानवाधिपम् ।। १६०.२२
तिष्ठ तिष्ठ सुदुर्बुद्धे! जीवलोकं विलोकय।
हतोऽस्यद्य मया शक्त्या स्मर शस्त्रं सुशिक्षितम् ।। १६०.२३
इत्युक्त्वा च ततः शक्ति मुमोच दितिजम्प्रति।
सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा ।। १६०.२४
बिभेद दैत्यहृदयं वज्रशैलेन्द्र कर्कशम्।
गतासुः स पपातोर्व्या प्रलये भूधरो यथा ।। १६०.२५
विकीर्णमुकुटोष्णीषो विस्रस्ताखिल भूषणः।
तस्मिन् विनिहते दैत्ये त्रिदशानां महोत्सवे ।। १६०.२६
नाभूत् कश्चित्तदा दुःखी नरकेष्वपि पापकृत्।
स्तुवन्तः षण्मुखं देवाः क्रीडन्त श्चाङ्गनायुताः ।। १६०.२७
जग्मुः स्वानेव भवनान् भूरिधामान उत्सुकाः।
ददुश्चापि वरं सर्वे देवाः स्कन्दमुखं प्रति।।
तुष्टा संप्राप्त सर्वेच्छः सह सिद्धैस्तपोधनैः। १६०.२८
देवा ऊचुः।
यः पठेत् स्कन्दसंबद्धां कथां मर्त्यो महामतिः ।। १६०.२९
श्रृणुयाच्छ्रावयेद्वापि स भवेत् कीर्तिमान् नरः।
बह्वायुः सुभगः श्रीमान् कान्तिमान् शुभदर्शनः ।। १६०.३०
भूतेभ्यो निर्भयश्चापि सर्वदुःख विवर्जितः।
सन्ध्यामुपास्य वै पूर्वां स्कन्दस्य चरितं पठेत् ।। १६०.३१
स मुक्तः किल्बिषैः सर्वैर्महाधन पतिर्भवेत्।
बालानां व्याधिजुष्टानां राजद्वारञ्च सेवताम् ।। १६०.३२
इदं तत्परमन्दिव्यं सर्वदा सर्वकामदम्।
तनु क्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः ।। १६०.३३
</poem>
|