"मैत्रायण्युपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १११:
एष हि खल्वात्मेशानः शम्भुर्भवो रुद्रः प्रजापतिर्विश्वसृक् हिरण्यगर्भः सत्यं प्राणो हंसः शास्ता विष्णुर्नारायणोऽर्कः सविता धाता विधाता सम्राडिन्द्र इन्दुरिति य एष तपत्यग्निरिवाग्निना पिहितः सहस्राक्षेण हिरण्मयेनाण्डेन एष वा जिज्ञासितव्योऽन्वेष्टव्यः सर्वभूतेभ्योऽभयं दत्वारण्यं गत्वाथ बहिःकृत्वीन्द्रियार्थान्स्वाच्च्हरीरादुपलभेत एनमिति । विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ॥ ६.८॥
 
तस्माद्वा एष उभयात्मैवं विदात्मन्येवाभिद्यायत्यात्मन्येवविदात्मन्येवाभिध्यायत्यात्मन्येव यजतीति ध्यानं प्रयोगस्थं मनो विद्वद्भिष्टुतं मनःपूतिमुच्च्हिष्टोपहतमित्यनेनमनःपूतिमुच्छिष्टोपहतमित्यनेन तत्पावयेत् मन्त्रं पठति उच्च्हिष्टोच्च्हिष्टोपहितंउच्छिष्टोच्छिष्टोपहितं यच्च पापेन दत्तं मृतसूतकाद्वा वसोः पवित्रमग्निः सवितुश्च रश्मयः पुनन्त्वन्नं मम दुष्कृतं च यदन्यत् अद्भिः पुरस्तात्परिदधाति प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहेति पञ्चभिरभिजुहोति अथावाशिष्टं यतवागश्नात्यतोऽद्भिर्भूय एवोपरिष्टात्परिदधात्याचान्तो भूत्वात्मेज्यानः प्राणोऽग्निर्विश्वोऽसीति च द्वाभ्यामात्मानमभिध्यायेत् प्राणोऽग्निः परमात्मा वै पञ्चवायुः समाश्रितः स प्रीतः प्रीणातु विश्वं विश्वभुक् विश्वोऽसि वैश्वानरोऽसि विश्वं त्वया धार्यते जायमानम् विशन् तु त्वामाहुतयश्च सर्वाः प्रजास्तत्र यत्र विश्वामृतोऽसीति एवं न विधिना खल्वनेनात्तानत्वं पुनरुपैति ॥ ६.९॥
अथापरं वेदितव्यमुत्तरो विकारोऽस्यात्मयज्ञस्य यथान्नमन्नादश्चेति अस्योपव्याख्यानं पुरुषश्चेता प्रधानान्तःस्थः स एव भोक्ता प्राकृतमन्नं भुङ्क्त इति तस्यायं भूतात्मा ह्यन्नमस्यकर्ता प्रधानः तस्मात्त्रिगुणं भोज्यं भोक्ता पुरुषोऽन्तस्थः अत्र दृष्टं नाम प्रत्ययम् यस्माद्बीजसम्भवा हि पशवस्तस्माद्बीजं भोज्यमनेनैव प्रधानस्य भोज्यत्वं व्याख्यातं तस्माद्भोक्ता पुरुषो भोज्या प्रकृतिस्तत्स्थो भुङ्क्त इति प्राकृतमन्नं त्रिगुणभेदपरिणमत्वान्महदाद्यं विशेषान्तं लिङ्गमनेनैव चतुर्दशविधस्य मार्गस्य व्याख्या कृता भवति सुखदुःखमोहसंज्ञं ह्यन्नभूतमिदं जगत् न हि बीजस्य स्वादुपरिग्रहोऽस्तीति यावन्नप्रसूतिः तस्याप्येवं तिसृष्ववस्थास्वन्नत्वं भवति कौमारं यौवनं जरा परिणमत्वातत्दन्नत्वमेवं प्रधानस्य व्यक्ततां गतस्योपलब्धिर्भवति तत्र बुद्ध्यादीनि स्वादुनि भवन्त्यध्यवसायसङ्कल्पाभिमाना इति अथेन्द्रियार्थान् पञ्चस्वादुनि भवन्ति एवं सर्वाणीन्द्रियकर्माणि प्राणकर्माणि एवं व्यक्तमन्नमव्यक्तमन्नम् अस्य निर्गुणो भोक्ता भोक्तृत्वाच्चैतन्यं प्रसिद्धं तस्य यथाग्निर्वै देवानामन्नदः सोमोऽन्नमग्निनैवान्नमित्येवंवित् सोमसंज्ञोऽयंभूतत्माऽग्निसंज्ञोऽप्यव्यक्तमुखा इति वचनात्पुरुषो ह्यव्यक्तमुखेन त्रिगुणं भुङ्क्त इति यो हैवं वेद संन्यासी योगी चात्मयाजी चेति अथ यद्वन्न कश्चिच्च्हून्यागारे कामिन्यः प्रविष्टाः स्पृशतीन्द्रियार्थान् तद्वद् यो न स्पृशति प्रविष्टान् संन्यासी योगी चात्मयाजी चेति ॥ ६.१०॥
"https://sa.wikisource.org/wiki/मैत्रायण्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्