"ऋग्वेदः सूक्तं १.१५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१५:
 
हे "सन्त्य फलप्रदाग्निदेव “गार्हपत्येन गृहपतिसंबन्धिना रूपेण युक्तः सन् “ऋतुना ऋतुदेवेन सह “यज्ञनीः यज्ञस्य निर्वाहकः “असि । तस्मात् त्वं “देवयते देवविषयकामनायुक्ताय यजमानाय "देवान् "यज ॥ गार्हपत्येन । 'गृहपतिना संयुक्ते ञ्यः' (पा. सू. ४. ४. ९०)। 'यस्य' इति लोपः । ञित्त्वात् आदिवृद्धिः आद्युदात्तत्वं च । गृहपतित्वमित्यर्थे ' पत्यन्तपुरोहितादिभ्यः' (पा. सू. ५. १. १२८ ) इति यकि तु अन्तोदात्तत्वं स्यात् । सन्त्य सनने भव । ‘षणु दाने '। ' क्तिच्क्तौ च ' इति क्तिच् । न क्तिचि दीर्घश्च' ( पा. सू. ६. ४. ३९ ) इति दीर्घनलोपाभावः । ‘भवे छन्दसि' (पा. सू. ४ ४. ११० ) इति यत् ; ‘तत्र साधुः ' ( पा. सू. ४. ४. ९८ ) इति वा । निघातः । यज्ञं नयतीति यज्ञनीः ।' सत्सूद्विष° ' इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरः । देवयते । देवानात्मन इच्छतीति देवयन् । तस्मै । ‘क्यचि च ' इति ईत्वं न भवति ' न च्छन्दस्यपुत्रस्य ' इति निषेधात्। 'अश्वाघस्य' ( पा. सू. ७. ४. ३७) इति आत्वविधानात् ईत्वनिषेधे प्राप्तस्य दीर्घस्याप्येष निषेध इत्युक्तम् । ‘शतुरनुमो नद्यजादी ' इति विभक्तेरुदात्तत्वम् । अत्र क्यचश्चित्वादन्तोदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण उभयोः क्यचा सह एकादेशे ‘ एकादेश उदात्तेनोदात्तः' इत्युदात्तः । तस्मादन्तोदात्तत्वात् परस्या विभक्तेः ‘शतुरनुमो नद्यजादी' इत्युदात्तत्वम् ॥ ॥ २९॥
}}
 
 
== ==
{{टिप्पणी|
 
[https://5cabeab707782.site123.me/%E0%A4%8B%E0%A4%A4-ritu ऋतु उपरि टिप्पणी]
 
ऋतुना-ऋतुभिः शब्दयोः वैशिष्ट्यम् - [[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|ऐतरेयब्राह्मणम् २.२९]]
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५" इत्यस्माद् प्रतिप्राप्तम्