"मत्स्यपुराणम्/अध्यायः १९४" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती)
 
<poem>
नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम्।
 
मार्कण्डेय उवाच।
ततो गच्छेत्तु राजेन्द्र! ह्यङ्कुशेखरमुत्तमम्।
दर्शनात्तस्य देवस्य मुच्यते सर्वपातकैः ।। १९४.१
 
ततो गच्छेच्च राजेन्द्र! नर्मदेश्वरमुत्तमम्।
तत्र स्नात्वा नरो राजन्! स्वर्गलोके महीयते ।। १९४.२
 
अश्वतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत्।
सुभगो दर्शनीयश्च भोगवान् जायते नरः ।। १९४.३
 
पितामहं ततो गच्छेत् ब्रह्मणा निर्मितं पुरा।
तत्र स्नात्वा नरो भक्त्या पितृपिण्डन्तु दापयेत् ।। १९४.४
 
तिलदर्भविमिश्रन्तु ह्युदकं तत्र दापयेत्।
तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।। १९४.५
 
सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेत्।
विधूय सर्वपापानि ब्रह्मलोके महीयते ।। १९४.६
 
मनोहरं ततो गच्छेत् तीर्थं परमशोभनम्।
तत्र स्नात्वा नरो राजन्! पितृलोके महीयते ।। १९४.७
 
ततो गच्छेत्तु राजेन्द्र! मानसं तीर्थमुत्तमम्।
तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते ।। १९४.८
 
ततो गच्छेच्च राजेन्द्र! कुञ्जतीर्थमनुत्तमम्।
विख्यातं त्रिषु लोकेषु सर्वपापप्रणाशनम् ।। १९४.९
 
यान्यान्कामयते कामान् पशुपुत्रधनानि च।
प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप ।। १९४.१०
 
ततो गच्छेत्तु राजेन्द्र! त्रिदशज्योति विश्रुतम्।
यत्र ता ऋषिकन्यास्तु तपोऽतप्यन्त सुव्रताः ।। १९४.११
 
भर्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः।
प्रीतस्तासां महादेवो दण्डरूपधरो हरः ।। १९४.१२
 
विकृताननबीभत्सुर्व्रती तीर्थमुपागतः।
तत्र कन्यां महाराज! वरयन् परमेश्वरः ।। १९४.१३
 
कन्यां ऋषेर्वरयतः कन्यादानं प्रदीयताम्।
तीर्थं तत्र महाराज! ऋषिकन्येति विश्रुतम् ।। १९४.१४
 
तत्र स्नात्वा नरो राजन्! सर्वपापैः प्रमुच्यते।
ततो गच्छेच्च राजेन्द्र! स्वर्णविन्दुत्विति स्मृतम् ।। १९४.१५
 
तत्र स्नात्वा नरो राजन्! दुर्गतिं न च पश्यति।
अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ।। १९४.१६
 
क्रीडते नागलोकस्थो ह्यप्सरैः सह मोदते।
ततो गच्छेत्तु राजेन्द्र! नरकं तीर्थमुत्तमम् ।। १९४.१७
 
तत्र स्नात्वार्चयेद्देवं नरकं च न पश्यति।
भारभूति ततो गच्छेदुपवासपरो जनः ।। १९४.१८
 
एतत्तीर्थं समासाद्य चावतारं तु शाम्भवम्।
अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते ।। १९४.१९
 
अस्मिस्तीर्थे नरः स्नात्वा भारभूतौ महात्मनः।
यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ।। १९४.२०
 
कार्तिकस्य तु मासस्य ह्यर्चयित्वा महेश्वरम्।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ।। १९४.२१
 
दीपकानां शतं तत्र घृतपूर्णन्तु दापयेत्।
विमानैः सूर्य्यसङ्काशैर्व्रजते यत्र शङ्करः ।। १९४.२२
 
वृषभं यः प्रयच्छेत्तु शङ्खकुन्देन्दुसप्रभम्।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ।। १९४.२३
 
धेनुमेकान्तु यो दद्यात्तस्मिंस्तीर्थे नराधिप।
पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च ।। १९४.२४
 
यथाशक्त्या च राजेन्द्र! ब्राह्मणान् भोजयेत्ततः।
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ।। १९४.२५
 
नर्म्मदाया जलं पीत्वा ह्यर्चयित्वा वृषध्वजम्।
दुर्गतिञ्च न पश्यति तस्मिंस्तीर्थे नराधिप! ।। १९४.२६
 
हंसयुक्तेन यानेन रुद्रलोकं स गच्छति।
यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः ।। १९४.२७
 
गङ्गाद्याः सरितो यावत्तावत् स्वर्गे महीयते।
अनाशकन्तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।। १९४.२८
 
गर्भवासे तु राजेन्द्र! न पुनर्जायते पुमान्।
ततो गच्छेत्तु राजेन्द्र! आषाढी तीर्थमुत्तमम् ।। १९४.२९
 
तत्र स्नात्वा नरो राजन्निन्द्रस्यार्द्धासनं लभेत्।
स्त्रियास्तीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।। १९४.३०
 
तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः।
ऐरण्डीनर्म्मदायोश्च सङ्गमं लोकविश्रुतम् ।। १९४.३१
 
तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम्।
उपवासपरो भूत्वा नित्यव्रतपरायणः ।। १९४.३२
 
तत्र स्नात्वा तु राजेन्द्र! मुच्यते ब्रह्महत्यया।
ततो गच्छेच्च राजेन्द्र! नर्म्मदो दधिसङ्गमम् ।। १९४.३३
 
जामदग्न्यमिति ख्यातं सिद्धो यत्र जनार्दनः।
यत्रेष्ट्वा बहुभिर्यज्ञैरिन्द्रो देवाधिपोऽभवत् ।। १९४.३४
 
तत्र स्नात्वा तु राजेन्द्र! नर्म्मदो दधिसङ्गमे।
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ।। १९४.३५
 
पश्चिमस्योदधेः सन्धौ स्वर्गद्वारविघट्टनम्।
तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ।। १९४.३६
 
आराधयन्ति देवेशं त्रिसन्ध्यं विमलेश्वरम्।
तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते ।। १९४.३७
 
विमलेशं परं तीर्थं न भूतं न भविष्यति।
तत्रोपवासं कृत्वा ये पश्यन्ति विमलेश्वरम् ।। १९४.३८
 
सप्तजन्मकृतं पापं हित्वा यान्त्यमरालयम्।
ततो गच्छेत्तु राजेन्द्र! कौशिकी तीर्थमुत्तमम् ।। १९४.३९
 
तत्र स्नात्वा नरो राजन् उपवासपरायणः।
उपोष्य रजनीमेकां नियतो नियताशनः ।। १९४.४०
 
एतत्तीर्थप्रभावेण मुच्यते ब्रह्महत्यया।
सर्वतीर्थाभिषेकन्तु यः पश्येत् सागरेश्वरम् ।। १९४.४१
 
योजनाभ्यन्तरे तिष्ठन्नावर्त्ते संस्थितः शिवः।
तं दृष्ट्वा सर्वतीर्थानि दृष्टान्येव न संशयः ।। १९४.४२
 
सर्वपापविनिर्मुक्तो यत्र रुद्रः स गच्छति।
नर्म्मदासङ्गमं यावद् यावच्चामरकण्टकम् ।। १९४.४३
 
अत्रान्तरे महाराज! तीर्थकोट्यो दशस्मृताः।
तीर्थात्तीर्थान्तरं यत्र ऋषिकोटि निषेवितम् ।। १९४.४४
 
साग्निहोत्रैस्तु विद्वद्भिः सर्वैर्ध्यानपरायणैः।
सेवितानेन राजेन्द्र! त्वीप्सितार्थप्रदायिका ।। १९४.४५
 
यस्त्विदं वै पठेन्नित्यं शृणुयाद्वापि भावतः।
तस्य तीर्थानि सर्वाणि ह्यभिषिञ्चन्ति पाण्डव! ।। १९४.४६
 
नर्म्मदा च सदा प्रीता भवेद्वै नात्र संश्यः।
प्रीतस्तस्य भवेद्रुद्रो मार्कण्डेयो महामुनिः ।। १९४.४७
 
वन्ध्या चैव लभेत् पुत्रान् दुर्भगा सुभगा भवेत्।
कन्या लभेत भर्तारं यश्च वाञ्छेत् तु यत् फलम् ।। १९४.४८
 
तदेव लभते सर्वं नात्र कार्या विचारणा।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ।। १९४.४९
 
वैश्यस्तु लभते लाभं शूद्रः प्राप्नोति सद्गतिम्।
मूर्खस्तु लभते विद्यां त्रिसन्ध्यं यः पठेन्नरः।
नरकञ्च न पश्येत्तु वियोगञ्च न गच्छति ।। १९४.५०
 
</poem>
१,४५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/22724" इत्यस्माद् पुनः प्राप्तिः