"मत्स्यपुराणम्/अध्यायः २५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem>
 
क्रियायोगविधिवर्णनम्।
 
ऋषय ऊचुः।
क्रियायोगः कथं सिद्ध्येद् गृहस्थादिषु सर्वदा।
ज्ञानयोगसहस्राद्धि कर्मयोगो विशिष्यते ।। २५८.१
 
सूत उवाच।
क्रियायोगं प्रवक्ष्यामि देवतार्चानुकीर्तनम्।
अथातः संप्रवक्ष्यामि दार्वाहरणमुत्तमम्।
भुक्तिमुक्तिप्रदं यस्मान्नान्यत् लोकेषु विद्यते ।। २५८.२
धनिष्ठा पञ्चके मुक्त्वा विष्ट्यादिकमतः परम् ।। २५७.१
 
प्रतिष्ठायां सुराणां तु देवतार्चानुकीर्तनम्।
देवयज्ञोत्सवञ्चापि बन्धनाद्ये न मुच्यते ।। २५८.३
 
विष्णौस्तावत् प्रवक्ष्यामि यादृग्रूपं प्रशस्यते।
शङ्खचक्रधरं शान्तं पद्महस्तं गदाधरम् ।। २५८.४
 
च्छत्राकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम्।
तुङ्गनाशं शुक्तिकर्णं प्रशान्तोरुभुजक्रमम् ।। २५८.५
 
क्वचिदष्टभुजं विद्याच्चतुर्भुजमथापरम्।
द्विभुजश्चापि कर्तव्यो भवनेषु पुरोधसा ।। २५८.६
 
देवस्याष्टभुजस्यास्य यथा स्थानं निबोधत।
खड्गो गदाशरः पद्मं दिव्यं दक्षिणतो हरेः।। २५८.७
 
धनुश्च खेटकञ्चैव शङ्खचक्रे च वामतः ।
चतुर्भुजस्य वक्ष्यामि यथैवायुधसंस्थितिः ।। २५८.८
 
दक्षिणेन गदापद्मं वासुदेवस्य कारयेत्।
वामतः शङ्खचक्रे च कर्तव्ये भूतिमिच्छता ।। २५८.९
 
कृष्णावतारे तु गदा वामहस्ते प्रशस्यते।
यथेच्छया शङ्खचक्रे चोपरिष्टात् प्रकल्पयेत् ।। २५८.१०
 
अधस्तात् पृथिवी तस्य कर्तव्या पादमध्यतः।
दक्षिणे प्रणतं तद्वद् गरुत्मन्तं निवेशयेत् ।। २५८.११
 
वामतस्तु भवेल्लक्ष्मीः पद्महस्ता शुभानना।
गरुत्मानग्रतो वापि संस्थाप्यो भूतिमिच्छता ।। २५८.१२
 
श्रीश्चपुष्टिष्च कर्तव्ये पार्श्वयोः पद्मसंयुते।
तोरणञ्चोपरिष्टात्तु विद्याधरसमन्वितम् ।। २५८.१३
 
देवदुन्दुभिसंयुक्तं गन्धर्व मिथुनान्वितम्।
पत्रवल्लीसमोपेतं सिंहव्याघ्र समन्वितम् ।। २५८.१४
 
तथा कल्पतलोपेतं स्तुवद्भिरमरेश्वरैः।
एवं विधो भवेद् विष्णो स्त्रिभागेनास्य पीठिका ।। २५८.१५
 
नवतालप्रमाणास्तु देवदानवकिन्नराः।
अतःपरं प्रवक्ष्यामि मानोन्मानं विशेषतः ।। २५८.१६
 
जालान्तरप्रविष्टानां भानूनां यद्रजःस्फुटम्।
त्रसरेणुः सविज्ञेयो वालाग्रं तैरथाष्टभिः ।। २५८.१७
 
तदष्टकेन लिक्षा तु यूकालिक्षाष्टकैर्मता।
यवो यूकाष्टकं तद्वदष्टभिस्तैस्तदंगुलम्।। २५८.१८
 
स्वकीयांगुलिमानेन मुखं स्याद् द्वादशांगुलम्।
मुखमानेन कर्तव्या सर्वावयवकल्पना ।। २५८.१९
 
सौवर्णी राजती वापि ताम्री रत्नमयी तथा।
शैलीदारुमयीचापि लोहसंघमयी तथा ।। २५८.२०
 
रीतिकाधातुयुक्ता वा ताम्रकांस्यमयी तथा।
शुभदारुमयीवापि देवतार्चा प्रशस्यते ।। २५८.२१
 
अंगुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ।। २५८.२२
 
आषोडशा तु प्रासादे कर्तव्या नाधिका ततः।
मध्योत्तमकनिष्ठा तु कार्या वित्तानुसारतः ।। २५८.२३
 
द्वारोच्छ्रायस्य यन्मानमष्टधा तत्तु कारयेत्।
बागमेकं ततस्त्यक्त्वा परिशिष्टन्तु यद् भवेत् ।। २५८.२४
 
भागद्वयेन प्रतिमा त्रिभागीकृत्य तत्पुनः।
पीठिका भागतः कार्या नातिनीचा न चोच्छ्रिता ।। २५८.२५
 
प्रतिमामुखमानेन नवभागान् प्रकल्पयेत्।
चतुरंगुला भवेद् ग्रीवा भागेन हृदयं पुनः ।। २५८.२६
 
नाभिस्तस्मादधः कार्या भागेनैकेन शोभना।
निम्नत्वे विस्तरत्वे च अंगुलं परिकीर्तितम् ।। २५८.२७
 
नाभेरधस्तथा मेढ्रं भागेनैकेन कल्पयेत्।
द्विभागेनायतावूरू जानुनी चतुरंगुले ।। २५८.२८
 
जङ्घे द्विभागे विख्याते पादौ च चतुरंगुलौ।
चतुर्दशांगुलस्तद्वत् मौलिरस्य प्रकीर्तितः ।। २५८.२९
 
ऊर्ध्वं मानमिदं प्रोक्तं पृथुत्वञ्च निबोधतः।
सर्वावयवमानेषु विस्तारं क्षृणुत द्विजाः ! ।। २५८.३०
 
चतुरंगुलं ललाटं स्यादूर्ध्वं नासा तथैव च।
द्व्यंगुलन्तु हनुर्ज्ञेयमोष्ठः स्वांगुलसम्मितः ।। २५८.३१
 
अष्टांगुले ललाटे च तावन्मात्रे भ्रुवौ मते।
अर्द्धांगुला भ्रुवोर्लेखा मध्ये धनुरिवानता ।। २५८.३२
 
उन्नताग्रा भवेत्पार्श्वे श्लक्ष्ण तीक्ष्ण प्रसस्यते।
अक्षिणी द्व्यंगुला यामे तदर्धं चैव विस्तरे ।। २५८.३३
 
उन्नतोदरमध्ये तु रक्तान्ते शुभलक्षणे।
तारकार्धविभागेन दृष्टिः स्यात् पञ्चभागिका ।। २५८.३४
 
द्वंयगुलन्तु भ्रुवोर्मध्ये नासा मूलमथांगुलम्।
नासाग्रविस्तरं तद्वत् पुटद्वयमथानतम् ।। २५८.३५
 
नासा पुटबिलं तद्वदर्धांगुलमुदाहृतम्।
कपोले द्व्यंगुले तद्वत् कर्णमूलाद्विनिर्गते ।। २५८.३६
 
हन्वग्रमंगुलं तद्वद्विस्तारो द्व्यंगुलो भवेत्।
अर्द्धांगुला भ्रुवो राजी प्रणालसदृशी समा ।। २५८.३७
 
अर्द्धांगुल समस्तद्वदुत्तरोष्ठस्तु विस्तरे।
निष्पावसदृशन्तद्वन्नासा पुटदलं भवेत् ।। २५८.३८
 
खृक्किणी ज्योतिस्तुल्ये तु कर्णमूलात् षडंगुले।
कर्णौ तु भ्रूसमौ ज्ञेयौ ऊर्ध्वन्तु चतुरंगुलौ ।। २५८.३९
 
द्व्यंगुलौ कर्णपार्श्वौ तु मात्रामेकान्तु विस्तृतौ।
कर्णयोरुपरिष्टाच्च मस्तकं द्वादशांगुलम् ।। २५८.४०
 
ललाटात्पृष्ठतोऽर्धेन प्रोक्तमष्टादशांगुलम्।
षट्त्रिंशदङ्गुलश्चास्य परिणाहः शिरोगतः ।। २५८.४१
 
सकेशनिचयो यस्य द्विचत्वारिंशदंगुलः।
केशान्तात्हनुका तद्वदंगुलानि तु षोडश ।। २५८.४२
 
ग्रीवा मध्यपरीणाह चतुर्विंशतिकांगुलः।
अष्टांगुला भवेद् ग्रीवा पृथुत्वेन प्रशस्यते ।। २५८.४३
 
स्तनग्रीवान्तरं प्रोक्तमेकतालं स्वयम्भुवा।
स्तनयोरन्तरं तद्वद् द्वादशांगुलमिष्यते ।। २५८.४४
 
स्तनयोर्मण्डलं तद्वद् द्व्यङ्गुलं परिकीर्तितम्।
चूचुकौ मण्डलस्यान्तर्यवमात्रा वुभौ स्मृतौ ।। २५८.४५
 
द्वितालञ्चापि विस्ताराद् वक्षस्थलमुदाहृतम्।
कक्षे षड़ंगुले प्रोक्ते बाहुमूलस्तनान्तरे ।। २५८.४६
 
चतुर्दशांगुलौ पादावङ्गुष्ठौ तु त्रियंगुलौ।
पञ्चांगुलपरीणाहमङ्गुष्ठाग्रं तथोन्नतम् ।। २५८.४७
 
अंगुष्ठकसमा तद्वदायामा स्यात्प्रदेशिनी।
तस्याः षोड़शभागेन हीयते मध्यमांगुली ।। २५८.४८
 
अनामिकाष्टभागेन कनिष्ठा चापि हीयते।
पर्वत्रयेण चांगुल्यो गुल्फौ द्व्यंगुलकौ मतौ।। २५८.४९
 
पार्ष्णिर्द्व्यंगुलमात्रस्तु कलयोच्चः प्रकीर्तितः।
द्विपर्वांगुष्ठकः प्रोक्त परीणाहश्च द्व्यंगुलः ।। २५८.५०
 
प्रदेशिनी परीणाहस्त्र्यंगुलः समुदाहृतः।
कन्यसा चाष्टभागेन हीयते क्रमशो द्विजाः ।। २५८.५१
 
अंगुलेनोच्छ्रयः कार्यो ह्यंगुष्ठस्य विशेषतः।
तदर्धेन तु शेषाणामंगुलीनान्तथोच्छ्रयः ।। २५८.५२
 
जङ्घाग्रे परिणाहस्तु अंगुलानि चतुर्दश।
ततः सांवत्सरादिष्टे दिने यायाद्वनं बुधः।
जङ्घा मध्ये परीणाहस्तथैवाष्टादशांगुलः ।। २५८.५३
प्रथमं बलिपूजाञ्च कुर्य्याद्वृक्षस्य सर्वदा ।। २५७.२
 
जानुमध्ये परीणाह एकविशतिरंगुलः।
पूर्वोत्तरेण पतितं गृहदारु प्रशस्यते।
जानूच्छ्रयोऽङ्गुलप्रोक्ते मण्डलन्तु त्रिरंगुलम् ।। २५८.५४
अन्यथा न शुभं विन्द्यात् याम्योपरि निपातनम् ।। २५७.३
 
उरुमध्ये परीणाहो ह्यष्टाविंशतिकांगुलः।
क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत्।
एकत्रिंशोपरिष्टाच्च वृषणौ तु त्रिरंगुलौ।। २५८.५५
कृताधिवासं विहगैरनिलानलपीड़ितम् ।। २५७.४
 
द्व्यंगुलश्च तथा मेढ्रं परीणाहः षड़ंगुलम्।
गजावरुग्णञ्च तथा विद्युन्निर्घातपीड़ितम्।
मणिबन्धादधो विद्यात् केशरेकास्तथैव च।। २५८.५६
अर्द्धशुष्कं तथा दारुभग्नशुष्कं तथैव च ।। २५७.५
 
मणिकोशपरीणाहश्चतुरंगुल इष्यते।
चैत्यदेवालयोत्पन्नं नदीसङ्गमजन्तथा।
विस्तरेण भवेत्तद्वत्कटिरष्टादशांगुला ।। २५८.५७
श्मशानकूपनिलयं तड़ागादि समुद्भवम् ।। २५७.६
 
द्वाविंशति तथा स्त्रीणां स्तनौ च द्वादशांगुलौ।
वर्जयेत् सर्वथा दारु यदीच्छेद्विपुलां श्रियम्।
नाभिमध्यपरीणाहो द्विचत्वारिंशदंगुलः ।। २५८.५८
तथा कण्टकिनो वृक्षान् नीपनिम्ब विभीतकान् ।। २५७.७
 
पुरुषे पञ्चपञ्चाशत् कट्याञ्चैव तु वेष्टनम्।
श्लेष्मातका नाम्रतरून् वर्जयेत् गृहकर्मणि।
कक्षयोरुपरिष्टात्तु स्कन्धौ प्रोक्तौ षडंगुलौ ।। २५८.५९
आसनाशोकमधुकसर्जशालाः शुभावहाः ।। २५७.८
 
अष्टांगुलान्तु विस्तारे ग्रीवाञ्चैव विनिर्दिशेत्।
चन्दनं पनसन्धन्यं सुरदारुहरिद्रवः।
परीणाहे तथा ग्रीवां कला द्वादश निर्दिशेत् ।। २५८.६०
द्वाभ्यामेकेन वा कुर्यात् त्रिभिर्वा भवनं शुभम् ।। २५७.९
 
आयामो भुजयोस्तद्वत् द्विचत्वारिंशदंगुलः।
बहुभिः कारितं यस्मादनेकभयदं भवेत्।
कार्यन्तु बाहुशिखरं प्रमाणे षोड़शांगुलम् ।। २५८.६१
एकैव शिंशपा धन्या श्रीपर्णा तिन्दुकी तथा ।। २५७.१०
 
ऊर्ध्वं यद् बाहुपर्यंन्तं विन्द्यादष्टांगुलं शतम्।
एता नान्यसमायुक्ताः कदाचिच्छुभकारकाः।
तथैकांगुलहीनन्तु द्वितीयं पर्व उच्यते ।। २५८.६२
स्यन्दनः पनसस्तद्वत् सरलार्जुनपद्मकाः ।। २५७.११
 
बाहुमध्ये परीणाहो भवेदष्टादशांगुलः।
एते नान्यसमायुक्ता वास्तुकार्यफलप्रदाः।
षोड़शोक्तः प्रबाहुस्तु षट्कलोग्र करोमतः ।। २५८.६३
तरुच्छेदे महापीते गोधा विन्द्याद्विचक्षणः ।। २५७.१२
 
सप्तांगुलं करतलं पञ्चमध्यांगुलीमता।
माञ्चिष्ठवर्णे भेकः स्यान्नीले सर्पादि निर्दिशेत्।
अनामिका मध्यमायाः सप्तभागेन हीयते ।। २५८.६४
अरुणे सरठं विद्यान्मुक्ताभे शुकमादिशेत् ।। २५७.१३
 
तस्यास्तु पञ्चभागेन कनिष्ठा परिहीयते।
कपिले मूषकान्विद्यात् खड्गाभे जलमादिशेत् ।
मध्यमायास्तु हीना वै पञ्चभागेन तर्जनी ।। २५८.६५
एवं विधं सगर्भन्तु वर्जयेद्वास्तु कर्मणि ।। २५७.१४
 
अंगुष्ठस्तर्जनीमूलादधः प्रोक्तस्तु तत्समः।
पूर्वच्छिन्नन्तु गृह्णीयान्निमित्तशकुनैः शुभैः।
अंगुष्ठपरिणाहस्तु विज्ञेयश्चतुरंगुलः ।। २५८.६६
व्यासेन गुणिते दैर्घ्य अष्टाभिर्वैहृते तथा ।। २५७.१५
 
शेषाणामंगुलीनान्तु भागो भागेन हीयते।
यच्छेषमायतं विद्यादष्टभेदं वदामि वः।
मध्यमा मध्यभागन्तु अंगुलद्वयमायतम् ।। २५८.६७
ध्वजो धूमश्च सिंहश्च वृषभः खर एव च।। २५७.१६
 
यवो यवेन सर्वासान्तस्यास्तस्याः प्रहीयते।
हस्तीध्वांक्षश्च पूर्वाद्याः करशेषाभवन्त्यमी।
अंगुष्ठपर्वमध्यन्तु तर्जन्या सदृशं भवेत्।। २५८.६८
ध्वजः सर्वमुखो धन्यः प्रत्यग्द्वारो विशेषतः ।। २५७.१७
यवद्वयाधिकं तद्वदग्रपर्व उदाहृतम्।
पर्वार्धे तु नखान्विद्यादंगुलीषु समन्ततः ।। २५८.६९
 
स्निग्धं श्लक्ष्णं प्रकुर्वीत ईषद्रक्तं तथाग्रतः।
उदङ्मुखो भवेत्सिंहः प्राङ्मुखो वृषभो भवेत्।
निम्नपृष्टं भवेन्मध्ये पार्श्वतः कलयोच्छ्रितम् ।। २५८.७०
दक्षिणाभिमुखो हस्ती सप्तभिः समुदाहृतः ।। २५७.१८
 
तत्रैव केशवल्लीयं स्कन्धोपरि दशाङ्गुला।
एकेन ध्वज उद्धिष्टस्त्रिभिः सिंहः प्रकीर्तितः।
स्त्रियः कार्यास्तु तन्वङ्ग्यः स्तनोरुजघनाधिकाः ।। २५८.७१
पञ्चभिर्वृषभः प्रोक्तो विकोणस्थाश्च वर्जयेत् ।। २५७.१९
 
चतुर्दशांगुलायाममुदरं नाम निर्दिशेत्।
तमेवाष्टगुणं कृत्वा करराशिं विचक्षणः।
नानाभरणसम्पन्नाः किञ्चित् श्लक्ष्णभुजास्ततः ।। २५८.७२
सप्तविंशाहृते भागे ऋक्षं विद्याद्विचक्षणः ।। २५७.२०
 
किञ्चिद्धीर्घं भवेद्वक्त्रमलकावलिरुत्तमा।
अष्टभिर्भाजिते ऋक्षे यः शेषः सव्ययो मतः।
नासाग्रीवा ललाटञ्च सार्द्धमात्रं त्रिरंगुलम् ।। २५८.७३
व्याधिकं न कुर्वीत यतो दोषकरम्भवेत् ।।
आयाधिके भवेच्छान्तिरित्याह भगवान् हरिः ।। २५७.२१
 
अध्यर्द्धांगुलविस्तारः शस्यतेऽधरपल्लवः।
कृत्वाग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्ष ताम्र दल पुष्प फलोपशोभम्।
अधिकं नेत्रयुग्मन्तु चतुर्भागेन निर्दिशेत् ।। २५८.७४
कृत्वा हिरण्यवसनानि तदा द्विजेभ्यो मङ्गल्यशान्तिनिलयाय गृहं विशेत्तु ।। २५७.२२
 
ग्रीवावलिश्च कर्तव्या किञ्चिदर्धांगुलोच्छ्रया।
गृह्योक्तहोमविधिना बलिकर्म कुर्यात् प्रासादवास्तुशमने च विधिर्य उक्तः।
एवं वारीषु सर्वासु देवानां प्रतिमासु च ।
सन्तर्पयेद्द्विजवरानथ भक्ष्यभोज्यैः शुक्लाम्बरः स्वभवनं प्रविशेत्सधूपम् ।। २५७.२३
तव चालमिदं प्रोक्तं लक्षणं पापनाशनम् ।। २५८.७५
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२५८" इत्यस्माद् प्रतिप्राप्तम्