"फेब्रुवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ३:
स्वपरिचयार्थं नाम एव उपायः। परमेश्वरस्य अंशः प्राणिमात्रेषु वर्तते एव, परम् इदं ज्ञातुं बुद्धिः मनुष्यस्य समीपे एव वर्तते। तस्य अधोगतिः कथं भवति पश्यतु। जीवः मूलतः परमेश्वरः, अतः प्रथमं सः वदति, ‘अहं सः, इत्युक्ते परमेश्वरः एव’। इतः निस्सृत्य सः वदति, ‘अहं तस्य’। अन्ततः, ‘मम तस्य न कोऽपि सम्बन्धः’ इति भाषणे तस्य अधोगतिः जायते। यतो हि देहबुद्धेः प्रभावस्य वर्धनेन अन्ते देहः अहमिति अस्माकं दृढा भावना भवति। परं यदि एतादृशं भवति तर्हि मनुष्यः अज्ञानेन वा यत् सत्यं तदेव ज्ञातम् इव वदति। यथा कस्यचन मनुष्यस्य मित्रं दिवं गच्छति चेत् सः वदति, ‘मम मित्रं पञ्चत्वं गतम्’। इत्युक्ते पुरतः स्थापितं देहं सः मित्रम् इति न मन्यते, अपि तु तस्मिन् वर्तमानं चैतन्यम् ईश्वरीयम् अशं च सः स्वमित्रम् इति मन्यते। इत्युक्ते अज्ञानेन वा भवेत् यत् सत्यं तदेव तस्य मुखात् बहिः आगच्छति, परं स्वविषये एतां भावनां सः न कल्पते। अहम् देहः एव इति मत्वा सः व्यवहरति। यतो हि वास्तवं ‘अहं’त्वं विस्मृत्य देहबुद्धेः भावना दृढा भवति। अतः अस्य उपायः वर्तते यत् येन मार्गेण स्खलितः तेन एव मार्गेण उपरि गन्तव्यम्। अधुना प्रथमं कर्तव्यं यद् अद्यपर्यन्तं यः ‘अहं’ देहस्य आसम् सः अधुना परमेश्वरस्य इति भानं जागरणीयम्। अस्य भानस्य परमावस्था इत्युक्ते ‘अहं सः एव’ इति एतया भावनया भवितव्यम्। इदं कथं सिद्ध्येत्? तर्हि यस्य विस्मरणेन मम एषा अधोगतिः जाता, सः स्मर्तव्यः। स्मरणस्य उत्तमं साधनं भगवन्नाम। इत्युक्ते नामस्मरणस्य ध्यासः भवति चेत् कोऽहम् इति ज्ञायेत, स्वपरिचयः भवेच्च। वास्तवः परमार्थः एतादृशः सुगमः। परं सः योग्यमार्गेण कर्तव्यः। कश्चित् ग्रन्थिः मोचनीयः तर्हि क: तन्तुः कर्षणीयः इति ज्ञातव्यम्। अन्यथा अधिकमेव अवगुम्फनं भवेत्। तद्वत् परमार्थस्य अपि वर्तते।
कः अहम् इति जानीमः चेत् कः परमात्मा इत्यपि सहजं ज्ञायते। द्वयोः अपि स्वरूपम् एकमेव। इत्युक्ते द्वौ अपि समानमेव। परमात्मा निर्गुणः। तं ज्ञातुम् अस्माभिः अपि निर्गुणैः भवितव्यं ननु। अतः देहबुद्धिः त्यक्तव्या। किमपि वस्तु वयं जानीमः इत्युक्ते अस्माभिः तेनैव वस्तुरूपेण भवितव्यम्। तद् विना ज्ञानमेव न भवेत्। अतः परमात्मानं ज्ञातुम् अस्माभिः परमात्मरूपैः न भवितव्यं वा? इदम् एव ‘सत्पुरुषः भूत्वा सत्पुरुषः ज्ञातव्यः’ ‘शिवः भूत्वा शिवं यजेत्’ इति वदन्ति।
==== '''*** यावत् नामस्मरणे सम्यक् तल्लीनः न भवति, तावदहंकारः न नश्यति।***''' ====
 
== '''फेब्रुवरि 2 ''' ==
=== '''नामजपेन सद्बुद्धिः जायते।''' ===
"https://sa.wikisource.org/wiki/फेब्रुवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्