"मत्स्यपुराणम्/अध्यायः २२५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
राजधर्मवर्णने दण्डोपायवर्णनम्।
 
मत्स्य उवाच।
न शक्या ये वशे कर्तुमुपायत्रितयेन तु।
दण्डेन तान् वशीकुर्यात् दण्डो हि वशकृन्नृणाम् ।। २२५.१ ।।
 
सम्यक् प्रणयनं तस्य तथा कार्यं महीक्षिता।
धर्मशास्त्रानुसारेण स सहायेन धीमता ।। २२५.२ ।।
तस्य सम्यक् प्रणयनं यथाकार्यं महीक्षिता।
वानप्रस्थाश्च धर्मज्ञान्निर्ममान्निष्परिग्रहान् ।। २२५.३ ।।
स्वदेशे परदेशे वा धर्मशास्त्रविशारदान्।
समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम् ।। २२५.४ ।।
आश्रमी यदि वा वर्णी पूज्यो वाऽथ गुरुर्महान्।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मेण तिष्ठति ।। २५.५ ।।
 
अदण्ड्यान् दण्डयेद्राजा दण्ड्यां श्चैवाप्यदण्डयन्।
इह राज्यात्परिभ्रष्टो नरकञ्च प्रपद्यते ।। २२५.६ ।।
 
तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः।
दण्डप्रणयनं कार्यं लोक्रानुग्रह काम्यया ।। २२५.७ ।।
 
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः।
प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ।। २२५.८ ।।
 
बाल-वृद्धातुर-यति द्विज स्त्री विधवायतः।
मत्स्य न्यायेन भक्ष्येरन् यदि दण्डं न पातयेत् ।। २२५.९ ।।
 
देवदैत्योरगगणाः सर्वे भूतपतित्रिणः।
उत्क्रामयेयुर्मर्यादां यदि दण्डं न पायतेत् ।। २२५.१० ।।
 
एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च।
सर्वविक्रमकोपेषु व्यवसाये च तिष्ठति ।। २२५.११ ।।
 
पूज्यन्ते दण्डिनो देवैर्न पूज्यन्ते त्वदण्डिनः।
न ब्रह्माणं विधातारं न पूषार्यमणावपि ।। २२५.१२ ।।
 
यजन्ते मानवाः केचित् प्रशान्ताः सर्वकर्मसु।
रुद्रमग्निञ्च शक्रञ्च सूर्याचन्द्रमसौ तथा ।। २२५.१३ ।।
 
विष्णुं देवगणांश्चान्यान् दण्डिनः पूजयन्ति च।
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।। २२५.१४ ।।
 
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः।
राजदण्डभयादेव पापाः पापं न कुर्वते ।। २२५.१५ ।।
 
यमदण्डभयादेके परस्परभयादपि।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ।। २२५.१६ ।।
 
अन्धे तमसि मज्जेयुर्यदि दण्डं न पातयेत्।
यस्माद्दण्डो दमयति अदण्ड्यान्दमयत्यपि
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ।। २२४.१७ ।।
 
दण्डस्य भीतैस्त्रिदशैः समेतैर्भागो धृतः शूलधरस्य यज्ञे।
दत्तं कुमारे ध्वजिनी पतित्वं वरं शिशूनाञ्च भयाद् बलस्य ।। २२५.१८ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२२५" इत्यस्माद् प्रतिप्राप्तम्