"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 चतुर्थप्रपाठकः/2.4.2 द्वितीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">(१)
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति |
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ||१११६ ||
 
प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः |
आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकं || १११७ ||
 
स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः |
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः || १११८ ||
 
प्र स्वानासो रथा इवार्वन्तो न अवस्यवः |
सोमासो राये अक्रमुः || १११९ ||
 
हिन्वानासो रथा इव दधन्विरे गभस्त्योः |
भरासः कारिणामिव || ११२० ||
 
राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते |
यज्ञो न सप्त धातृभिः || ११२१ ||
 
परि स्वानास इन्दवो मदाय बर्हणा गिरा |
मधो अर्षन्ति धारया || ११२२ ||
 
आपानासो विवस्वतो जिन्वन्त उषसो भगं |
सूरा अण्वं वि तन्वते || ११२३ ||
 
अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः |
वृष्णो हरस आयवः || ११२४ ||
 
समीचीनास आशत होतारः सप्तजानयः |
पदमेकस्य पिप्रतः || ११२५ ||
 
नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे |
कवेरपत्यमा दुहे || ११२६ ||
 
अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितं |
सूरः पस्यति चक्षसा || ११२७ ||
 
 
(२)
असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः |
विदाना अस्य योजना || ११२८ ||
 
प्र धारा मधो अग्रियो महीरपो वि गाहते |
हविर्हविःषु वन्द्यः || ११२९ ||
 
प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने |
सद्माभि सत्यो अध्वरः || ११३० ||
 
परि यत्काव्या कविर्नृम्णा पुनानो अर्षति |
स्वर्वाजी सिषासति || ११३१ ||
 
पवमानो अभि स्पृधो विशो राजेव सीदति |
यदीमृण्वन्ति वेधसः || ११३२ ||
 
अव्या वारे परि प्रियो हरिर्वनेषु सीदति |
रेभो वनुष्यते मति | ११३३ ||
 
स वायुमिन्द्रमश्विना साकं मदेन गच्छति |
रणा यो अस्य धर्मणा || ११३४ ||
 
आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः |
विदाना अस्य शक्मभिः || ११३५ ||
 
अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये |
श्रवो वसूनि सञ्जितं || ११३६ ||
 
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे |
पान्तमा पुरुस्पृहं || ११३७ ||
 
आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणं |
पान्तमा पुरुस्पृहं || ११३८ ||
 
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा |
पान्तमा पुरुस्पृहं || ११३९ ||
 
 
(३)
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं |
कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः || ११४० ||
 
त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते |
तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः || ११४१ ||
 
नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त |
वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः || ११४२ ||
 
 
(४)
प्र वो मित्राय गायत वरुणाय विपा गिरा |
महिक्षत्रावृतं बृहत् ||११४३ ||
 
सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च |
देवा देवेषु प्रशस्ता || ११४४ ||
 
ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य |
महि वां क्षत्रं देवेषु || ११४५ ||
 
 
(५)
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः |
अण्वीभिस्तना पूतासः || ११४६ ||
 
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः |
उप ब्रह्माणि वाघतः || ११४७ ||
 
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः |
सुते दधिष्व नश्चनः || ११४८ ||
 
 
(६)
तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् |
कृष्णा कृणोति जिह्वया || ११४९ ||
 
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः |
द्युम्नाय सुतरा अपः || ११५० ||
 
ता नो वाजवतीरिष आशून्पिपृतमर्वतः |
एन्द्रमग्निं च वोढवे || ११५१ ||
 
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरं |
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा || ११५२ ||
 
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः |
हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः || ११५३ ||
 
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा |
या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यं || ११५४ ||
 
 
(८)
न किष्टं कर्मणा नशद्यश्चकार सदावृधं |
इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा || ११५५ ||
 
अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः |
सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः || ११५६ ||
 
 
(९)
सखाय आ नि षीदत पुनानाय प्र गायत |
शिशुं न यज्ञैः परि भूषत श्रिये || ११५७ ||
 
समी वत्सं न मातृभिः सृजता गयसाधनं |
देवाव्या३ं मदमभि द्विशवसं || ११५८ ||
 
पुनाता दक्षसाधनं यथा शर्धाय वीतये |
यथा मित्राय वरुणाय शन्तमं || ११५९ ||
 
[https://sa.wikisource.org/s/1z9h शौक्तम्]
 
 
(१०)
प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यं || ११६० ||
 
स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः || ११६१ ||
 
प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः || ११६२ ||
 
 
(११)
ये सोमासः परावति ये अर्वावति सुन्विरे |
ये वादः शर्यणावति || ११६३ ||
 
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानां |
ये वा जनेषु पञ्चसु || ११६४ ||
 
ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यं |
स्वाना देवास इन्दवः || ११६५ ||
 
 
(१२)
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् |
अग्ने त्वां कामये गिरा || ११६६ ||
 
पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः |
समत्सु त्वा हवामहे || ११६७ ||
 
समत्स्वग्निमवसे वाजयन्तो हवामहे |
वाजेषु चित्रराधसं || ११६८ ||
 
 
(१३)
त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे |
आ वीरं पृतनासहं || ११६९ ||
 
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ |
अथा ते सुम्नमीमहे || ११७० ||
 
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत |
स नो रास्व सुवीर्यं || ११७१ ||
 
 
(१४)
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः |
राधस्तन्नो विदद्वस उभयाहस्त्या भर || ११७२ ||
 
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर |
विद्याम तस्य ते वयमकूपारस्य दावनः || ११७३ ||
 
यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् |
तेन दृढा चिदद्रिव आ वाजं दर्षि सातये || ११७४ ||
 
 
 
</span></poem>
 
 
<table>
<tr><td><p><center> (१) </center></p></tr>