"ऋग्वेदः सूक्तं ३.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६६:
प्रऽप्रुथ्य । शिप्रे इति । मघऽवन् । ऋजीषिन् । विऽमुच्य । हरी इति । इह । मादयस्व ॥१
 
विश्वामित्रो ब्रूते । "सोमपते सोमस्याधिपते हे “इन्द्र "इमम् अस्माभिर्माध्यंदिने सवने क्रियमाणं “सोमं सोमरसं “पिब । "यत् यस्मात् "ते त्वदर्थं क्रियमाणं "माध्यंदिनं मध्यंदिनसंबन्धि "सवनं निष्केवल्याख्यं शस्त्रं “चारु रमणीयं वर्तते । "मघवन् धनवन् "ऋजीषिन् । ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते । तद्वन हे इन्द्र "हरी रथे योजित।वश्वौयोजितावश्वौ रथात् विमुच्य “शिप्रे हनू “प्रप्रुथ्य अत्रत्येन ग्रासेन पूरयित्वा “इह देवयजनदेशे "मादयस्व तावश्वौ हर्षय ॥ प्रप्रुथ्य। प्रोथृ पर्याप्तौ' इत्यस्य ल्यपि रूपम् । ह्रस्वछन्दसः । लित्स्वरः । ऋजीषिन् । अर्ज षर्ज अर्जने इत्यस्मात् ‘अर्जेश्च ऋजि च ' ( उ. सू. ४.४६८) इतीषन्प्रत्ययः ऋजि इत्यादेशश्च धातोः । अर्ज्यत इत्यृजीषम् । तदस्यास्ति इति इनिप्रत्ययः । आमन्त्रितत्वान्निघातः । मादयस्व । मदि स्तुत्यादिषु । हेतुमण्णिच् । निघातः ॥
 
 
पङ्क्तिः २१८:
न । ते । महिऽत्वम् । अनु । भूत् । अध । द्यौः । यत् । अन्यया । स्फिग्या । क्षाम् । अवस्थाः ॥११
 
“तुविजात । बहूनि जातानि पृथिव्यादीनि यस्मात सोऽयं तुविजातः । हे तुविजात इन्द्र “तव्यान् अतिशयेन प्रवृद्धस्त्वम् “अर्णः “परिशयानम् उदकं परितः शयानमुदकमन्तः कृत्वा परितो वर्तमानमत एव “ओजायमानं बलमाचरन्तम् “अहिम् । आ समन्ताद्धन्ति अपहरत्युदकमित्यहिर्मेघः । तमिमं मेघम् "अहन् उदकप्रेरणाय हतवानसि । “अध अथ “ते 'महित्वं महिमानं “द्यौः “न “अनु “भूत् नानुभवति न जानाति । “यत् यस्मात् त्वम् “अन्यया एकतरया “स्फिग्या कट्या “क्षां भूमिम् “अवस्थाः अवच्छाद्य तिष्ठसि ।। अहन् । हन्तेः लङि सिब्लोपे' रूपम्। अहिम् । “हन हिंसागत्योः । ‘ आङि श्रिहनिभ्यां ह्रस्वश्च ' इति इण्प्रत्ययः डिच्च पूर्वपदस्य” ह्रस्वश्च । वृषादित्वात् आद्युदात्तत्वम्। ओजायमानम् । ओजःशब्दादाचारार्थे ' कर्तुः क्यङ् सलोपश्च' इति क्यङ्प्रत्ययः सलोपश्च । ङित्वादात्मनेपदम् । प्रत्ययस्वरः । तव्यान् । तु इति सौत्रो धातुः । अस्मात् तृजन्तात् ‘तुश्छन्दसि ' इतीयसुन् । ‘तुरिष्ठेमेयःसु ' इति तृचो लोपः । भसंज्ञायामोर्गुणः । इकारलोप-श्छान्दसः । नित्स्वरः । भूत् । भवतेर्लुङि रूपम् । स्फिग्या । 'यचि भम्' इति भसंज्ञायाः बाधितत्वात् 'स्वादिष्वसर्वनामस्थाने' इति पदसंज्ञायां जश्त्वम् । तृतीयायाः पूर्वसवर्णः । क्षाम् । ‘क्षि निवासगत्योः । ‘ अन्येभ्योऽपि दृश्यते' इति निरुपपदादपि डप्रत्ययः । ततष्टाप् । क्षियन्ति निवसन्त्यस्यां प्राणिन इति क्षा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः। अवस्थाः। ‘वस आच्छादने' इत्यस्य लङि अनुदात्तत्वात् आत्मनेपदम् । थासि अदादित्वाच्छपो लुक् । यद्योगादनिघातः । अडागमस्वरः ॥
इतीयसुन् । ‘तुरिष्ठेमेयःसु ' इति तृचो लोपः । भसंज्ञायामोर्गुणः । इकारलोप-श्छान्दसः । नित्स्वरः । भूत् । भवतेर्लुङि रूपम् । स्फिग्या । 'यचि भम्' इति भसंज्ञायाः बाधितत्वात् 'स्वादिष्वसर्वनामस्थाने' इति पदसंज्ञायां जश्त्वम् । तृतीयायाः पूर्वसवर्णः । क्षाम् । ‘क्षि निवासगत्योः । ‘ अन्येभ्योऽपि दृश्यते' इति निरुपपदादपि डप्रत्ययः । ततष्टाप् । क्षियन्ति निवसन्त्यस्यां प्राणिन इति क्षा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः। अवस्थाः। ‘वस आच्छादने' इत्यस्य लङि अनुदात्तत्वात् आत्मनेपदम् । थासि अदादित्वाच्छपो लुक् । यद्योगादनिघातः । अडागमस्वरः ॥
 
 
Line २८२ ⟶ २८१:
सम् । ऊं इति । प्रियाः । आ । अववृत्रन् । मदाय । प्रऽदक्षिणित् । अभि । सोमासः । इन्द्रम् ॥१५
 
हे इन्द्र “अस्य तव पानार्थं “कलशः द्रोगकलशःद्रोणकलशः सोमेन “आपूर्णः । स्वाहा' स्वाहाकृतो दत्तश्च सोमसहितः कलशः “पिबध्यै तव पानार्थं “सिसिचे तं सोमं चोदिताधारे सिञ्चामि। तत्र दृष्टान्तः । “कोशं “सेक्तेव । यथा सेक्ता सेचकः जलपूर्णात् कोशात् दृतेः सकाशात् जलं पात्रान्तरे सिञ्चति तद्वत् । “प्रियाः स्वादुतमाः “सोमासः दत्तास्ते सोमाः “इन्द्रं त्वाम् “अभि अभिलक्ष्यैव “मदाय तव हर्षार्थं “प्रदक्षिणित् प्रादक्षिण्येन “सम् “आववृत्रन् सम्यगावृत्य वर्तन्ताम् ॥ आपूर्णः। पॄ पालनपूरणयोः' इत्यस्य कर्मणि निष्ठा । ‘रदाभ्याम्' इति तस्य नत्वम् । ‘गतिरनन्तरः' इति गतिस्वरः । स्वाहा । निपातत्वादाद्युदात्तः । सेक्तेव कोशम्। 'न लोकाव्यय' इति षष्ठीप्रतिषेधः । सिसिचे । ‘षिच क्षरणे' इत्यस्य लिटि रूपम् । पिबध्यै । ‘पा पाने' इत्यस्य तुमर्थे शध्यैन्प्रत्ययः। शित्त्वात् पिबादेशः । नित्त्वादाद्युदात्तः। आववृत्रन्। ‘वृतु वर्तने' इत्यस्य लङि शप् । 'बहुलं छन्दसि' इति तस्य शपः श्लुः । व्यत्ययेन परस्मैपदम् । 'बहुलं छन्दसि ' इति झे रुडागमः ॥
 
 
Line ३१८ ⟶ ३१७:
== ==
{{टिप्पणी|
यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाणि.......इन्द्र सोमं सोमपते पिबेममिति सूक्तं सजोषा रुद्रैस्तृपदा वृषस्वेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं - ऐ.ब्रा. [https://sa.wikisource.org/s/w1e ४.३१] । ओंकारे एति गुणः ब्रह्मणः एवं प्रेति गुणः रुद्रस्य भवति - अ, उ, म। मध्यमस्य उकारस्य विष्णोः गुणं स्थितिवत् भवति, कुम्भकस्य। किं द्वितीयमहः विष्णोर्वाची अस्ति, अयं अन्वेषणीयः। भागवतपुराणस्य द्वितीयः स्कन्धः विष्णोर्विभूतिभ्यः सम्बद्धः अस्ति।
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३२" इत्यस्माद् प्रतिप्राप्तम्