"अग्निपुराणम्/अध्यायः २२८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
===युद्धयात्रा===
 
पुष्कर उवाच
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।
पार्ष्णिग्राहोऽभिभूतो मे तदा यात्रां प्रयोजयेत् ।। २२८.१ ।।
 
पुष्टा योधा भृता भृत्याः प्रभूतञ्च बलं मम ।
मूलरक्षासमर्थोऽस्मि तैर्गत्वा१ शिविरे व्रजेत् ।। २२८.२ ।।
 
शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं ।
भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ।। २२८.३ ।।
 
विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं२ ।
शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने ।। २२८.४ ।।
 
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।। २२८.५ ।।
 
हेमन्ते शिशिरे चैव रथवाजिसमाकुलां ।
चतुरङ्गबलोपेतां वसन्ते वा शरनमुखे३ ।। २२८.६ ।।
 
सेना पदातिबहुला शत्रून् जयति सर्वदा ।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ।। २२८.७ ।।
 
न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च ।
लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ।। २२८.८ ।।
 
 
विपर्य्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् ।
 
इत्यादिमहापुराणे आग्नेये यात्रा नाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः ।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२२८" इत्यस्माद् प्रतिप्राप्तम्