"अग्निपुराणम्/अध्यायः २४४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===स्त्रीलक्षणम्===
<poem>
समुद्र उवाच
शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।
गुरूरुजघना या च मत्तपारावतेक्षणा ।। २४४.१ ।।
 
सुनीलकेशी तन्वङ्गी विलोमाऱङ्गी मनोहरा ।
समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ।। २४४.२ ।।
 
नाभिः प्रदक्षइणावर्त्ता गुह्यमश्चत्थपत्रवत् ।
गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ।। २४४.३ ।।
 
जठरन्न प्रलम्बञ्च चरोमरूक्षा न शोभना ।
नर्क्षवृक्षनदीनाम्नी न सदा कलहप्रिया ।। २४४.४ ।।
 
न लोलुपा न दुर्भाषा शुभा देवादिपूजीता ।
गण्डैर्म्मघूकपुष्पाभैर्न शिराला न लोमशा ।। २४४.५ ।।
 
न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया ।
अलक्षणापि लक्षण्या यत्राकारस्ततो गुणाः।। २४४.६ ।।
 
भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा ।
 
इत्यादिमहापुराणे आग्नेये स्त्रीलक्षणं नाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२४४" इत्यस्माद् प्रतिप्राप्तम्