"बृहज्जाबालोपनिषत्" इत्यस्य संस्करणे भेदः

बृहज्जाबालोपनिषत् यज्ज्ञानाग्निः स्वातिरिक्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{Upanishad}}
बृहज्जाबालोपनिषत्
<poem>
 
 
 
Line १२ ⟶ १३:
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
 
ॐ आपो वा इदमसत्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे
समभवत् ।
Line ५१ ⟶ ५३:
अद्रक्षेति ॥
प्रथमं ब्राह्मणम् ॥ १॥
 
अथ भुसुण्डः कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं
पप्रच्च्ह ।
Line ५९ ⟶ ६२:
रौद्री घोरा या तैजसी तनूः । सोमः शक्त्यमृतमयः
शक्तिकरी तनूः ।
 
अमृतं यत्प्रतिष्ठा सा तेजोविद्याकला स्वयम् ।
स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी ॥ १॥
 
द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका ।
तथैव रसशक्तिश्च सोमात्मा चानलात्मिका ॥ २॥
 
वैद्युदादिमयं तेजो मधुरादिमयो रसः ।
तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥ ३॥
 
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ।
अत एव हविः क्लृप्तमग्नीषोमात्मकं जगत् ॥ ४॥
 
ऊर्ध्वशक्तिमयं सोम अधोशक्तिमयोऽनलः ।
ताभ्यां संपुटितस्तस्माच्च्हश्वद्विश्वमिदं जगत् ॥ ५॥
 
अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् ।
यावदग्न्यात्मकं सौम्यममृतं विसृत्यधः ॥ ६॥
 
अत एव हि कालाग्निरधस्ताच्च्हक्तिरूर्ध्वगा ।
यावदादहनश्चोर्ध्वमधस्तात्पावनं भवेत् ॥ ७॥
 
आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः ।
तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥ ८॥
 
शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः ।
तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन ॥ ९॥
 
असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् ।
अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ॥ १०॥
 
यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना ।
अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते ॥ ११॥
 
अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः ।
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ १२॥
 
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ।
शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते ॥ १३॥
 
अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् ।
शिवशक्त्यमृतस्पर्शे लब्ध एव कुतो मृतिः ॥ १४॥
 
यो वेद गहनं गुह्यं पावनं च तथोदितम् ।
अग्नीषोमपुटं कृत्वा न स भूयोऽभिजायते ॥ १५॥
 
शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः ।
प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते सोऽमृत्वाय कल्पत
इति ॥ १६॥
 
द्वितीयं ब्राह्मणम् ॥ २॥
 
अथ भुसुण्डः कालाग्निरुद्रं विभूतियोगमनुब्रूहीति होवाच
विकटाङ्गामुन्मत्तां महाखलां मलिनामशिवादिचिह्नान्वितां
Line १०५ ⟶ १२६:
धार्यम् ।
तत्रैते श्लोका भवन्ति ।
 
विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते ।
गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया ॥ १॥
 
गुणत्रयमिदं धेनुर्विद्याभूद्गोमयं शुभम् ।
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥
 
वत्सस्तु स्मृतयश्चास्य तत्संभूतं तु गोमयम् ।
आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् ॥ ३॥
 
गावो भग गावो इति प्राशयेत्तर्पणं जलम् ।
उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा व्रती ॥ ४॥
 
परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
कृतस्नानो धौतवस्त्रः पयोर्धं च सृजेच्च गाम् ॥ ५॥
 
उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ।
सौवर्णे राजते ताम्रे धारयेन्मृण्मये घटे ॥ ६॥
 
पौष्करेऽथ पलाशे वा पात्रे गोशृङ्ग एव वा ।
आदधीत हि गोमूत्रं गन्धद्वारेति गोमयम् ॥ ७॥
 
अभूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही ।
गोमयं शोधयेद्विद्वान्श्रीर्मे भजतुमन्त्रतः ॥ ८॥
 
अलक्ष्मीर्म इति मन्त्रेण गोमयं धान्यवर्जितम् ।
संत्वासिंचामि मन्त्रेण गोमये क्षिपेत् ॥ ९॥
 
पञ्चानां त्विति मन्त्रेण पिण्डानां च चतुर्दश ।
कुर्यात्संशोध्य किरणैः सौरकैराहरेत्ततः ॥ १०॥
 
निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् ।
स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमीजयेत् ॥ ११॥
 
पिण्डांश्च निक्षिपेत्तत्र आद्यन्तं प्रणवेन तु ।
षडक्षरस्य सूक्तस्य व्याकृतस्य तथाक्षरैः ॥ १२॥
 
स्वाहान्ते जुहुयात्तत्र वर्णदेवाय पिण्डकान् ।
आघारावाज्यभागौ च प्रक्षिपेद्व्याहृतीः सुधीः ॥ १३॥
 
ततो निधनपतये त्रयोविंशज्जुहोति च ।
होतव्याः पञ्च ब्रह्माणि नमो हिरण्यबाहवे ॥ १४॥
 
इति सर्वाहुतिर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः ।
ऋतंसत्यं कद्रुद्राय यस्य वकङ्कतीति च ॥ १५॥
 
एतैश्च जुहुयाद्विद्वाननाज्ञातत्रयं तथा ।
व्याहृतीरथ हुत्वा च ततः स्विष्टकृतं हुनेत् ॥ १६॥
 
होमशेषं तु निर्वर्त्य पूर्णपात्रोदकं तथा ।
पूर्णमसीति यजुषा जलेनान्येन बृंहयेत् ॥ १७॥
 
ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् ।
प्राच्यामिति दिशां लिङ्गैर्दिक्षु तोयं विनिक्षिपेत् ॥ १८॥
 
ब्रह्मणे दक्षिणां दत्त्वा शान्त्यै पुलकमाहरेत् ।
आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ॥ १९॥
 
जातवेदसमेनं त्वां पुलकैश्च्हादयाम्यहम् ।
मन्त्रेणानेन तं वह्निं पुलकैश्च्हादयेत्ततः ॥ २०॥
 
त्रिदिनं ज्वलनस्थित्यै च्हादनं पुलकैः स्मृतम् ।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ॥ २१॥
 
भस्माधिक्यमभीप्सुस्तु अधिकं गोमयं हरेत् ।
दिनत्रयेण यदि वा एकस्मिन्दिवसेऽथवा ॥ २२॥
 
तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः ।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ २३॥
 
शुक्लदन्तो भस्मदिग्धो मन्त्रेणानेन मन्त्रवित् ।
ॐ तद्ब्रह्मेति चोच्चार्य पौलकं भस्म संत्यजेत् ॥ २४॥
 
तत्र चावाहनमुखानुपचारांस्तु षोडश ।
कुर्याद्व्याहृतिभिस्त्वेवं ततोऽग्निमुपसंहरेत् ॥ २५॥
 
अग्निर्भस्मेति मन्त्रेण गृह्णीयाद्भस्म चोत्तरम् ।
अग्निरित्यादिमन्त्रेण प्रमृज्य च ततः परम् ॥ २६॥
 
संयोज्य गन्धसलिलैः कपिलामूत्रकेण वा ।
चन्द्रकुङ्कुमकाश्मीरमुशिरं चन्दनं तथा ॥ २७॥
 
अगरुत्रितयं चैव चूर्णयित्वा तु सूक्ष्मतः ।
क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममन्त्रतः ॥ २८॥
 
प्रणवेनाहरेद्विद्वान्बृहतो वटकानथ ।
अणोरणीयनिति हि मन्त्रेण च विचक्षणः ॥ २९॥
 
इत्थं भस्म सुसम्पाद्य शुष्कमादय मन्त्रवित् ।
प्रणवेन विमृज्याथ सप्तप्रणवमन्त्रितम् ॥ ३०॥
 
ईशानेति शिरोदेशे मुखं तत्पुरुषेण तु ।
उरुदेशमघोरेण गुह्यं वामेन मन्त्रयेत् ॥ ३१॥
 
सद्योजातेन वै पादान्सर्वाङ्गं प्रणवेन तु ।
तत उद्धूल्य सर्वाङ्गमापादतलमस्तकम् ॥ ३२॥
 
आचम्य वसनं धौतं ततश्चैतत्प्रधारयेत् ।
पुनराचम्य कर्म स्वं कर्तुमर्हसि सत्तम ॥ ३३॥
 
अथ चतुर्विधं भस्म कल्पम् ।
प्रथममनुकल्पम् । द्वितीयमुपकल्पम् ।
Line १८३ ⟶ २३८:
भगवान्कालाग्निरुद्रः ॥ ३४॥
इति तृतीयं ब्राह्मणम् ॥ ३॥
 
अथ भुसुण्डः कालाग्निरुद्रं भस्मस्नानविधिं ब्रूहीति
होवाचाथ प्रणवेन विमृज्याथ
Line १९७ ⟶ २५३:
भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रिताम् ।
मस्तकात्पादपर्यन्तं मलस्नानं पुरोदितम् ॥ १॥
 
तन्मन्त्रेणैव कर्तव्यं विधिस्नानं समाचरेत् ।
ईशाने पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्रतः ॥ २॥
 
मुखे चतुर्थवक्त्रेण अघोरेणाष्टधा हृदि ।
वामेन गुह्यदेशे तु त्रिदशस्थानभेदतः ॥ ३॥
 
अष्टावन्तेन साध्येन पादावद्धूल्य यत्रतः ।
सर्वाङ्गोद्धूलनं कार्यं राजन्यस्य यथाविधि ॥ ४॥
 
मुखं विना च तत्सर्वमुद्धूल्य क्रमयोगतः ।
सन्ध्याद्वये निशीथे च तथा पूर्वावसानयोः ॥ ५॥
 
सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।
स्त्रियं नपुंसकं गृध्रं बिडालं बकमूषिकम् ॥ ६॥
 
स्पृष्ट्वा तथाविधानन्यान्भस्मस्नानं समाचरेत् ।
देवाग्निगुरुवृद्धानां समीपेऽन्त्यजदर्शने ॥ ७॥
 
अशुद्धभूतले मार्गे कुर्यानोद्धूलनं व्रती ।
शङ्खतोयेन मूलेन भस्मना मिश्रणं भवेत् ॥ ८॥
 
योजितं चन्दनेनैव वारिणा भस्मसंयुतम् ।
चन्दनेन समालिम्पेज्ज्ञानदं चूर्णमेव तत् ॥ ९॥
 
मध्याह्नात्प्राग्जलैर्युक्तं तोयं तदनुवर्जयेत् ॥
अथ भुसुण्डो भगवन्तं कालाग्निरुद्रं त्रिपुण्ड्रविधिं
 
पप्रच्च्ह ॥
तत्रैते श्लोका भवन्ति ।
त्रिपुण्ड्रं कारयेत्पश्चाद्ब्रह्मविष्णुशिवात्मकम् ।
मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः ॥ १०॥
 
अनामामध्यमाङ्गुष्ठैरथवा स्यात्त्रिपुण्ड्रकम् ।
उद्धूलयेन्मुखं विप्रः क्षत्रियस्तच्च्हिरोदिनम् ॥ ११॥
 
द्वात्रिंशस्थानके चार्धं षोडशस्थानकेऽपि वा ।
अष्टस्थाने तथा चैव पञ्चस्थानेऽपि योजयेत् ॥ १२॥
 
उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा ।
नासावक्रे गले चैवमंसद्वयमतः परम् ॥ १३॥
 
कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः ।
नाभौ गुह्यद्वये चैवमूर्वोः स्फिग्बिम्बजानुनी ॥ १४॥
 
जङ्घाद्वये च पादौ च द्वात्रिंशत्स्थानमुत्तमम् ।
अष्टमूर्त्यष्टविद्येशान्दिक्पालान्वसुभिः सह ॥ १५॥
 
धरो ध्रुवश्च सोमश्च कृपश्चैवानिलोऽनलः ।
प्रत्यूपश्च प्रभासश्च वसवोऽष्टावितीरिताः ॥ १६॥
 
एतेषां नाममन्त्रेण त्रिपुण्ड्रान्धारयेद्बुधः ।
विदध्यात्षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥ १७॥
 
शीर्षके च ललाटे च कर्णे कण्ठेंऽसकद्वये ।
कूर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः ॥ १८॥
 
पृष्ठे चैकं प्रतिस्थानं जपेत्तत्राधिदेवताः ।
शिवं शक्तिं च सादाख्यमीशं विद्याख्यमेव च ॥ १९॥
 
वामादिनवशक्तीश्च एताः षोडश देवताः ।
नासत्यो दस्रकश्चैव अश्विनौ द्वौ समीरितौ ॥ २०॥
 
अथवा मूर्ध्न्यलीके च कर्णयोः श्वसने तथा ।
बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा ॥ २१॥
 
जानुद्वये च पदयोः पृष्ठभागे च षोडश ।
शिवश्चेन्द्रश्च रुद्रार्कौ विघ्नेशो विष्णुरेव च ॥ २२॥
 
श्रीश्चैव हृदयेशश्च तथा नाभौ प्रजापतिः ।
नागश्च नागकन्याश्च उभे च ऋषिकन्यके ॥ २३॥
 
पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि च स्थिताः ।
एवं वा षोडशस्थानमष्टस्थानम्थोच्यते ॥ २४॥
 
गुरुस्थानं ललाटं च कर्णद्वयमनन्तरम् ।
असयुग्मं च हृदयं नाभिरित्यष्टमं भवेत् ॥ २५॥
 
ब्रह्मा च ऋषयः सप्त देवताश्च प्रकीर्तिताः ।
अथवा मस्तकं बाहू हृदयं नाभिरेव च ॥ २६॥
 
पञ्चस्थानान्यमून्याहुर्भस्मतत्त्वविदो जनाः ।
यथासम्भवतः कुर्याद्देशकलाद्यपेक्षया ॥ २७॥
 
उद्धूलनेऽप्यशक्तश्चेत्त्रिपुण्ड्रादीनि कारयेत् ।
ललाटे हृदये नाभौ गले च मणिबन्धयोः ॥ २८॥
 
बाहुमध्ये बाहुमूले पृष्ठे चैव च शीर्षके ॥
ललाटे ब्रह्मणे नमः । हृदये हव्यवाहनाय नमः ।
Line २६४ ⟶ ३४९:
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं प्रभुम् ।
स्मरन्नमः शिवायेति ललाटे तत्त्रिपुण्ड्रकम् ॥ २९॥
 
कूर्पराधः पितृभ्यां तु ईशानाभ्यां तथोपरि ।
ईशाभ्यां नम इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम् ॥ ३०॥
 
स्वच्च्हाभ्यां नम इत्युक्त्वा धारयेत्तत्प्रकोष्ठयोः ।
भीमायेति तथा पृष्ठे शिवायेति च पार्श्वयोः ॥ ३१॥
 
नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः ।
पापं नाशयते कृत्स्नमपि जन्मान्तरार्जितम् ॥ ३२॥
 
कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र धारणात् ।
कर्णे तु धारणात्कर्णरोगादिकृतपातकम् ॥ ३३॥
 
बाह्वोबाहुकृतं पापं वक्षःसु मनसा कृतम् ।
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा ॥ ३४॥
 
पार्श्वयोर्धारणात्पापं परस्त्र्यालिङ्गनादिकम् ।
तद्भस्मधारणं कुर्यात्सर्वत्रैव त्रिपुण्ड्रकम् ॥ ३५॥
 
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ।
गुणलोकत्रयाणां च धारणं तेन वै श्रुतम् ॥ ३६॥
 
इति चतुर्थं ब्राह्मणम् ॥ ४॥
मानस्तोकेन मन्त्रेण मन्त्रितं भस्म धारयेत् ।
 
ऊर्ध्वपुण्ड्रं भवेत्सामं मध्यपुण्ड्रं त्रियायुषम् ॥ १॥
त्रियायुषाणि कुरुते ललाटे च भुजद्वये ।
 
नाभौ शिरसि हृत्पार्श्वे ब्राह्मणाः क्षत्रियास्तथा ॥ २॥
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ।
इदं मुख्यं गृहस्थानां विरजानलजं भवेत् ॥ ३॥
 
विरजानलजं चैव धार्यं प्रोक्तं महर्षिभिः ।
औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ ४॥
 
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा ।
शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥ ५॥
 
अन्येषामपि सर्वेषां धार्यं चैवानलोद्भवम् ।
यतीनां ज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् ॥ ६॥
 
अतिवर्णाश्रमाणां तु श्मशानाग्निसमुद्भवम् ।
सर्वेषां देवालयस्थं भस्म शिवाग्निजं शिवयोगिनाम् ।
 
शिवालयस्थं तल्लिङ्गलिप्तं वा मन्त्रसंस्कारदग्धं वा ॥
तत्रैते श्लोका भवन्ति ।
 
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् ॥ ७॥
 
त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि यः ।
सकृत्तिर्यक्त्रिपुण्ड्राङ्कधारणात्सोऽपि पूज्यते ॥ ८॥
 
ये भस्मधारणं त्यक्त्वा कर्म कुर्वन्ति मानवाः ।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ ९॥
 
महापातकयुक्तानां पूर्वजन्मार्जितागसाम् ।
त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढं बुधाः ॥ १०॥
 
येषां कोपो भवेद्ब्रह्मं।cल्ललाटे भस्मदर्शनात् ।
तेषामुत्पत्तिसाङ्कर्यमनुमेयं विपश्चिता ॥ ११॥
 
येषां नास्ति मुने श्रद्धा श्रौते भस्मनि सर्वदा ।
गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः ॥ १२॥
 
ये भस्मधारिणं दृष्ट्वा नराः कुर्वन्ति ताडनम् ।
तेषां चण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥ १३॥
 
येषां क्रोधो भवेद्भस्मधारणे तत्प्रमाणके ।
ते महापातकैर्युक्ता इति शास्त्रस्य निश्चयः ॥ १४॥
 
त्रिपुण्ड्ऱकं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ।
धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते ॥ १५॥
 
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ।
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥ १६॥
 
रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् ।
तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ १७॥
 
भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ।
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ १८॥
 
भस्मसन्दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ।
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ १९॥
 
इति पञ्चमं ब्राह्मणम् ॥ ५॥
अथ भुसुण्डः कालाग्निरुद्रं नामपञ्चकस्य माहात्म्यं
 
ब्रूहीति होवाच । अथ वसिष्ठवंशजस्य शतभार्यासमेतस्य
धनञ्जयस्य ब्राह्मणस्य ज्येष्ठभार्यापुत्रः करुण इति नाम
 
तस्य शुचिस्मिता भार्या । असौ करुणो भ्रातृवैरमसहमानो
भवानीतटस्थं नृसिंहमगमत् । तत्र
Line ३३८ ⟶ ४५४:
मृत्युञ्जयेन मन्त्रेण मृतजन्तौ तदाक्षिपत् ।
मन्दवायुस्तदा जज्ञे व्यजनेन शुचिस्मिते ॥ १॥
 
उदतिष्ठत्तदा जन्तुर्भस्मनोऽस्य प्रभावतः ।
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत् ॥ २॥
 
भस्मैव जीवयामास काश्यां पञ्च तदाभवन् ।
देवानपि तथाभूतान्मामप्येतादृशं पुरा ॥ ३॥
 
तस्मात्तु भस्मनां जन्तुं जीवयामि तदानघे ।
इत्येवमुक्त्वा भगवान्दधीचिः समजायत ॥ ४॥
 
स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययाविति ॥
इदानीमस्य भस्मनः सर्वाघभक्षणसामर्थ्यं
 
विधत्त इत्याह । श्रीगौतमविवाहकाले तामहल्यां
दृष्ट्वा सर्वे देवाः कामातुरा अभवन् तदा
 
नष्टज्ञाना दुर्वाससं गत्वा पप्रच्च्हुस्तद्दोषं
शमयिष्याअमीत्युवाच ततः शतरुद्रेण मन्त्रेण
 
मन्त्रितं भस्म वै पुरा मयापि दत्तं ब्रह्महत्यादि शान्तम् ।
इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्म चोत्तमम् ।
जाता मद्वचनात्सर्वे यूयं तेऽधिकतेजसः ॥ ५॥
 
शतरुद्रेण मन्त्रेण भस्मोद्धूलितविग्रहाः ।
निर्धूतरजसः सर्वे तत्क्षणाच्च वयं मुने ॥ ६॥
 
आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् ।
अस्य भस्मनः शक्तिमन्यां शृणु ।
Line ३६६ ⟶ ४९१:
ततो भस्म भक्षयेति हरिमाह हरस्ततः ।
भक्षयिष्ये शिवं भस्म स्नात्वाहं भस्मना पुरा ॥ ७॥
 
पृष्टेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः ।
तत्राश्चर्यमतीवासीत्प्रतिबिम्बसमद्युतिः ॥ ८॥
 
वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् ।
तदाप्रभृति शुक्लाभो वासुदेवः प्रसन्नवान् ॥ ९॥
 
न शक्यं भस्मनो ज्ञानं प्रभावं ते कुतो विभो ।
नमस्तेऽस्तु नमस्तेऽस्तु त्वामहं शरणं गतः ॥ १०॥
 
त्वत्पादयुगले शम्भो भक्तिरस्तु सदा मम ।
भस्मधारणसम्पन्नो मम भक्तो भविष्यति ॥ ११॥
 
अत एवैषा भूतिर्भूतिकरीत्युक्ता । अस्य पुरस्ताद्वसव
आसन्रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा
 
उत्तरतो ब्रह्मविष्णुमहेश्वरा याभ्यां सूर्याचन्द्रमसौ
पार्श्वयोस्तदेतदृचाभ्युक्तम् ।
Line ३८९ ⟶ ५२०:
॥ १२॥
इति षष्ठं ब्राह्मणम् ॥ ६॥
 
अथ जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
भगवान् त्रिपुण्ड्रविधिं नो ब्रूहीति स होवाच
Line ४०२ ⟶ ५३४:
न स पुनरावर्तते न स पुनरावर्तते स एष भस्मज्योतिरिति
वै याज्ञवल्क्यः ॥ २॥
 
जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं
फलमश्नुते न वेति तत्र परमहंसानामसंवर्तक
Line ४१२ ⟶ ५४५:
शूद्रो वा तद्भस्मधारणादेतच्च्हब्दस्य रूपं
यस्यां तस्यां ह्येवावतिष्ठते ॥ ४॥
 
जनको ह वैदेहः स होवाच पैप्पलादेन सह
प्रजापतिलोअकं जगाम तं गत्वोवाच भो प्रजापते
त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति तं प्रजापतिरब्रवीद्
यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति ॥ ५॥
 
अथ पैप्पलादो वैकुण्ठं जगाम तं गत्वोवाच
भो विष्णो त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति यथैवेश्वरस्य
माहात्म्यं तथैव त्रिपुण्ड्रकस्येति विष्णुराह ॥ ६॥
 
अथ पैप्पलादः कालाग्निरुद्रं परिसमेत्योवाचाधीहि
भगवन् त्रिपुण्ड्रस्य विधिमिति त्रिपुण्ड्रस्य विधिर्मया
Line ४५० ⟶ ५८६:
सीताग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् ॥ ८॥
इति सप्तमं ब्राह्मणम् ॥ ७॥
 
अथ बृहज्जाबालस्य फलं नो ब्रूहि भगवन्निति
स होवाच य एतद्बृहज्जाबालं नित्यमधीते
Line ४६० ⟶ ५९७:
सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति स विषं
स्तम्भयति ॥ २॥
 
य एतद्बृहज्जाबालं नित्यमधीते स मृत्युं तरति स
पाप्मानं
Line ४६६ ⟶ ६०४:
तरति स सर्वहत्यां तरति स संसारं तरति स सर्वं तरति
स सर्वं तरति ॥ ३॥
 
य एतद्बृहज्जाबालं नित्यमधीते स भूर्लोकं जयति स
भुवर्लोकं जयति
Line ४७१ ⟶ ६१०:
स जनोलोकं जयति स सत्यलोकं जयति स सर्वांल्लोकाञ्जयति
॥ ४॥
 
य एतद्बृहज्जाबालं नित्यमधीते स ऋचोऽधीते स
यजूंष्यधीते
Line ४९६ ⟶ ६३६:
ॐ सत्यमित्युपनिषत् ॥ ६॥
इत्यष्टमं ब्राह्मणम् ॥ ८॥
 
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
Line ५०७ ⟶ ६४८:
 
इत्यथर्ववेदीय बृहज्जाबालोपनिषत्समाप्ता ॥
</poem>
"https://sa.wikisource.org/wiki/बृहज्जाबालोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्