"अग्निपुराणम्/अध्यायः २८४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===मन्त्ररूपौषधकथनम्===
<poem>
धन्वन्तरिरुवाच
आयुरारोग्यकर्तार ओंकारद्याश्च नाकदाः ।
ओंकारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत् ।। २८४.१ ।।
 
गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् ।
ओं नमो नारायणाय मन्त्रः सर्वार्थसाधकः ।। २८४.२ ।।
 
ओं नमो भगवते वासुदेवाय सर्वदः ।
ओं ह्रूँ नमो विष्णवे मन्त्रोयञ्चौषधं परं ।। २८४.३ ।।
 
अनेन देवा ह्यसुराः सश्रियो निरुजोऽभवन् ।
भूतानामुपकारश्च तथा धर्मो महौषधम् ।। २८४.४ ।।
 
धर्म्मः सद्धर्म्मकृद्धर्मी एतैर्धर्म्मैश्च निर्म्मलः ।
श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ।। २८४.५ ।।
 
श्रियः पतिः श्रीपरम् एतैः श्रियमवाप्नुयात् ।
कामी कामप्रदः कामः कामपालस्तथा हरिः ।। २८४.६ ।।
 
आनन्दो माधवश्चैव नाम कामाय वै हरेः ।
रामः परशुरामश्च नृसिंहो विष्णुरेव च ।। २८४.७ ।।
 
त्रिविक्रमश्च नामानि जप्तव्यानि जिगीषुभिः ।
बिद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ।। २८४.८ ।।
 
दामोदरो बन्धहरः पुष्करक्षोऽक्षिरोगनुत् ।
हृषीकेशो भयहरो जपेदौषधकर्म्मणि ।। २८४.९ ।।
 
अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः ।
जलतारे नारसिंहं पूर्व्वादौ क्षेमकामवान् ।। २८४.१० ।।
 
चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खर्ड्गिनं स्मरेत् ।
नारायणं सर्वकाले नृसिंहोऽखिलभीतिनुत् ।। २८४.११ ।।
 
गरुडध्वजश्च विषहृत् वासुदेवं सदा जपेत् ।
धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरतमीरयेत् ।। २८४.१२ ।।
 
नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं ।
हयग्रीवञ्च विद्यार्थी जगत्सूतिं सुताप्तये ।। २८४.१३ ।।
 
बलभद्रं शोरकार्य्ये एकं नामार्थसाधकम् ।। २८४.१४ ।।
 
इत्यादिमहापुराणे आग्नेये मन्त्ररूपौषधकथनं नाम चतुरशीत्यधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८४" इत्यस्माद् प्रतिप्राप्तम्