"अग्निपुराणम्/अध्यायः ३५१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===सुब्‌विभक्तिसिद्धरूपम्===
<poem>
स्कन्द उवाच
विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते ।
द्वे विभक्ती सुप्तिङश्च सुपः सप्त विभक्तयः ।। ३५१.१ ।।
 
सु औजसिति प्रथमा अमौट्‌शसो द्वितीया ।
टाभ्यां बिसिति तृतीया ङभ्यांभ्यसश्चतुर्थ्यपि ।। ३५१.२ ।।
 
ङसिभ्यांभ्यसः पञ्चमी स्यात्ङसोसामिति षष्ठ्यपि ।
ङिओस्तुबिति सप्तमी स्यात् स्युः प्रातिपदिकात्पराः ।। ३५१.३ ।।
 
द्विविधं प्रातिपदिकं ह्यजन्तञ्च हलन्तकं ।
प्रत्येकं त्रिविधं तत् स्यात् पुमांस्त्री च नपुंसकं ।। ३५१.४ ।।
 
दर्श्यन्ते नायकास्तेषामनुक्तानाञ्च वीर्य्यतः ।
वृक्षः सर्व्वोऽथ पूर्व्वश्च प्रथमश्च द्वितीयकः ।। ३५१.५ ।।
 
तृतीयः खण्डपा वह्निः सखापतिरहर्पतिः ।
पटुर्नीर्ग्रामणीन्द्रश्च खलबूर्म्मित्रभूः स्वभूः ।। ३५१.६ ।।
 
सुश्रीः सुधीः पिता भ्राता ना कर्त्ता क्रोष्टुनप्तृकौ ।
सुरा रा गौस्तथा द्यौर्ग्लौः स्वरान्ताः पुंसि नायकाः ।। ३५१.७ ।।
 
सुवाक् त्वक् पृषत् सम्राट् जन्मभाक् च अवेदपि ।
आपो मरुद्भवन् दीव्यन् भवांश्च मघवान् पिवन् ।। ३५१.८ ।।
 
भगवानघवानर्व्वान्वह्निमत् सर्व्ववित्सुपृत् ।
सुसोमा कुण्डी राजा च श्वा युवा मघवा तथा ।। ३५१.९ ।।
 
पूषा सुकर्म्मा यज्वा च सुवर्म्मा च सुधर्म्मणा ।
अर्य्यमा वृत्रहा पन्थाः सुककुदादिपञ्च च ।। ३५१.१० ।।
 
प्रशान् सुतांश्च पञ्चाद्याः सुगीः सुराः सुपूरपि ।
चन्द्रमाः सुवचाः श्रेयान् विद्वांश्चोशनसा सह ।। ३५१.११ ।।
 
पेचिवान् गौरवानड्‌वान् गोधुङ्‌मित्रद्रुहौ श्वलिट् ।
स्त्रियां जाया जरा बाला एड़का सहो वृद्धया ।। ३५१.१२ ।।
 
क्षात्रिया बहुराजा च बहुदा माऽथ बालिका ।
माया कौमुदगन्धा च सर्व्वा पूर्व्वा सहान्यया ।। ३५१.१३ ।।
 
द्वितीया च तृतीया च बुद्धिः स्त्रो श्रोर्न्नदी सुधीः ।
भवन्ती चैव दीव्यन्ती भाती भान्ती च यान्त्यपि ।। ३५१.१४ ।।
 
श्रृण्वती तुदती कर्त्री तुदन्ती कुर्वती मही ।
रुन्धती क्रीड़ती दान्ती पालयन्ती सुराण्यपि ।। ३५१.१५ ।।
 
गौरी पुत्रवती नीश्च वधूर्द्देवतया भुवा ।
तिस्रो द्वे कति वर्षाभूः स्वसा माता वरा च गौः ।। ३५१.१६ ।।
 
नौर्वाक्त्वक्त्वक्प्राच्यवाचीति तिरश्ची समुदीच्यपि ।
शरद्विद्युत् सरिद्योषित् अग्निवित् सस्पदा दृशत् ।। ३५१.१७ ।।
 
यैषा सा वेदवित्संवित् बह्वी राज्ञी त्वया मया ।
सीमा पञ्चादयो राजी धूः पूश्चैव दिशा गिरा ।। ३५१.१८ ।।
 
चतस्रो विदुषी चैव केयं दिक् दृक् च तादृशो ।
असौ स्त्रियां नायकाश्च नायकाश्च नपुंसके ।। ३५१.१९ ।।
 
कुण्डं सर्वं सोमपञ्च दधि वारि खलप्वथ ।
मधु त्रपु कर्त्तृ भक्तृ अतिवक्तृ पयः पुरः ।। ३५१.२० ।।
 
प्राक्प्रत्यक् च तिर्य्यगुदक् जगद् जाग्रत्तथा सकृत् ।
सुसम्पच्च सुदण्डीह अहः किञ्चेदमित्यपि ।। ३५१.२१ ।।
 
षट्‌सर्पिः श्रेयश्चत्वारि अदोऽन्ये हीदृशाः परे ।
एतेब्यः प्रथमादयश्च स्युः प्रातिपदिकात्पराः ।। ३५१.२२ ।।
 
धातुप्रत्ययहीनं यत्स्यात् प्रातिपदिकन्तु तत् ।
प्रातिपदिकात् स्वलिङ्गार्थवचने प्रथमा भवेत् ।। ३५१.२३ ।।
 
सम्बोधने च प्रथमा उक्ते कर्म्मणि कर्त्तरि ।
कर्म्म यत् क्रियते तत्स्यात् द्वितीया कर्मणि स्मृता ।। ३५१.२४ ।।
 
क्रियते येन करणं कर्त्ता यश्च करोति सः ।
अनुक्ते तिङ्‌कृत्तद्धितैस्तृतीया करणे भवेत् ।। ३५१.२५ ।।
 
कारके कर्त्तरि च सा सम्प्रदाने चतुर्थ्यपि ।
यस्मै दित्सा धारयते सम्प्रदानं तदीरितं ।। ३५१.२६ ।।
 
अपादानं यतोऽपैति आदत्ते च भयं यतः ।
अपादाने पञ्चमी स्यात् स्वस्वाम्यादौ च षष्ठ्यपि ।। ३५१.२७ ।।
 
आधारो योऽधिकरणं विभक्तिस्तत्र सप्तमी ।
एकार्थे चैकवचनं द्व्यर्थे द्विवचनं भवेत् ।। ३५१.२८ ।।
 
बहुषु बहुवचनं सिद्धरूपाण्यथो वदे ।
वृक्षः सूर्य्योऽमबुवाहोऽर्क हेरवे हेद्विजातयः ।। ३५१.२९ ।।
 
विप्रौ गजान्महेन्द्रेण यमाब्यामनलैः कृतं ।
रामाय मुनिवर्य्याभ्यां केभ्यो धर्म्मात् हरौ रतिः ।। ३५१.३० ।।
 
शराब्यां पुस्तकेभ्यश्च अर्थस्येश्वरयोर्गतिः ।
बालानां सज्जने प्रीतिर्हंसयोः कमलेषु च ।। ३५१.३१ ।।
 
एवं काममहेशाद्याः शब्दा ज्ञेयाश्च वृक्षवत् ।
सर्वे विश्वे च सर्वस्मै सर्वस्मात्कतरो मतः ।। ३५१.३२ ।।
 
सर्वेषां स्वञ्च विश्वस्मिन् शेषं रूपञ्च वृक्षवत् ।
एवञ्चोभयकतरकतमान्यतरादयः ।। ३५१.३३ ।।
 
पूर्व्वे पूर्व्वाश्च पूर्वस्मै पूर्वस्मात् सुसमागतः ।
पूर्व्वो बुद्धिश्च पूर्वस्मिन् शेषरूपन्तु सर्ववत् ।। ३५१.३४ ।।
 
एवं परवराद्याश्च दक्षिणोत्तरकान्तराः ।
अपरऱश्चाधरो नेमाः प्रथमाः प्रथमेऽर्कवत् ।। ३५१.३५ ।।
 
एवं चरमायतया अल्पार्द्धा नेमआदयः ।
द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयकात् ।। ३५१.३६ ।।
 
द्वितीयस्मिन् द्वितीये च तृतीयश्च तथाऽर्क्कवत् ।
सोमपाः सोमपौ ज्ञेयौसोमपाः सोमपां ब्रज ।। ३५१.३७ ।।
 
कीलालपौ सोमपश्च सोमपा सोमपे दद ।
सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं ।। ३५१.३८ ।।
 
एवं कीलालपाद्याः स्यु कविरग्निस्तथाऽरयः ।
हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं ।। ३५१.३९ ।।
 
रविभ्यां रविभिर्द्देहि वह्निये यः समागतः ।
अग्नेरग्न्योस्तथाग्नीनां कवौ कव्योः कविष्वऽथ ।। ३५१.४० ।।
 
एवं सुसृतिरभ्रान्तिः सुकीर्त्तिः सुधृतिस्तथा ।
सखा सखायौ सखायः हेसखे व्रज सप्ततिं ।। ३५१.४१ ।।
 
सखायञ्च स खायौ च सखीन् सख्या गतो दद ।
सख्ये सख्युश्च सख्यश्च सख्योः शेषः कवेरिव ।। ३५१.४२ ।।
 
पत्या पत्ये च पत्यश्च पत्युः पत्योस्तथाऽग्निवत् ।
द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः ।। ३५१.४३ ।।
 
त्रयस्त्रींश्च त्रिभिस्त्रिभ्यस्त्रयाणाञ्च त्रिषु क्रमात् ।
कविवत् कतिकतीति शेषं वहुवचनं स्मृतम् ।। ३५१.४४ ।।
 
नीनियौ च नियो हेनीः नियं नियौ नियो निया ।
नीभ्यां नीभिर्निये नीभ्यः नियान्नियि नियोस्तथा ।। ३५१.४५ ।।
 
सुश्रीः सुधीः प्रभृतयो ग्रामणीः पूजयेद्धरिं ।
ग्रामण्यौ ग्रामण्यो ग्रामण्यं ग्रामण्या ग्रामणीभिः ।। ३५१.४६ ।।
 
ग्रामण्यो ग्रामण्यामेवं सेनानीप्रमुखाः सुभूः ।
सुभुवौ च स्वयम्भुवः स्वयम्भुञ्च स्वयम्भुवः ।। ३५१.४७ ।।
 
स्वयम्भुवा स्वयम्भुवि एवं प्रतिभुवादयः ।
खलपूः खलप्वौ श्रेष्ठौ खलप्वञ्च खलप्वि च ।। ३५१.४८ ।।
 
एवं शरपूमुखाः स्युः क्रोष्टा क्रोष्टार ईरिताः ।
क्रोष्टूंश्च कोष्टुश्च कोष्टुना क्रोष्ट्रा क्रोष्टूनां कोष्टरीदृशं ।। ३५१.४९ ।।
 
पिता पितरौ पितरः हेपितः पितरौ शुभौ ।
पितॄन् पितुः पितुः पित्रोः पितॄणां पितरीदृशं ।। ३५१.५० ।।
 
एवं भ्राता च जामातृमुखा नॄणां नृणां तथा ।
कर्त्ता कर्त्तारौ कर्त्तॄश्च कर्त्तॄणां कर्त्तरीदृशं ।। ३५१.५१ ।।
 
पितृवच्चैवमुट्गाता स्वसा नप्त्रादयः स्मृताः ।
सुराः सुरायौ सुरायः नुरायाञ्च सुराय्यपि ।। ३५१.५२ ।।
 
गौः गावौ गाङ्गा गवा च गोर्गवोश्च गवां गवि ।
एव द्यौर्ग्लौश्चापि तथा स्वरान्ताः पुंसि नायकाः ।। ३५१.५३ ।।
 
सुवाक् सुवाचौ सुवाचा सुवाग्भ्याञ्च सुवाक्ष्वपि ।
एवं दिक्प्रमुखाः प्राङ्च प्राञ्चौ प्राञ्चञ्च भो व्रज ।। ३५१.५४ ।।
 
प्राग्‌भ्यां प्राग्भिः प्राचाञ्च प्राचि च प्राङ्‌सु प्राङ्सु प्राङ्श्वपि
एवं ह्युदङुदीची वा सम्यङ्क प्र्त्यकसमीच्यपि ।। ३५१.५५
 
तिर्य्यङ्‌तिरश्च सध्र्यङ् च विश्वद्र्यङ् पूर्ववत् स्मृताः ।
अदद्र्यङदमुयङ् स्यात् ततामुमुयङीरितः ।। ३५१.५६ ।।
 
अदद्र्यङदमुयङ् स्यात् तथामुमुयङीरितः ।
अदद्र्यञ्चो ह्यमुद्रीचः अदद्र्यग्‌भ्याञ्च पूर्व्ववत् ।। ३५१.५७ ।।
 
तत्त्वतृषि तत्त्वतृट्‌सु एवं काष्ठतड़ादयः ।
भिषक् भिषगब्यां भिषजि जन्मभागादयस्तथा ।। ३५१.५८ ।।
 
मरुत् मरुद्भ्यां मरुति एवं शत्रुजिदादयः ।
भवान् भवन्तौ भवतां भवंश्चैव भवत्यपि ।। ३५१.५९ ।।
 
महान्महान्तौ महतामेवं भगवदादयः ।
एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि ।। ३५१.६० ।।
 
अग्निचित्‌स्वेवमेवान्यत् वेदवित्त्ववित्त्वपि ।
वेदविदामेवमन्यत् यः समस्तेन सर्व्ववित् ।। ३५१.६१ ।।
 
राजा राजानौ राज्ञः रीज्ञि राजनि राजन् ।
यज्वा यज्वानस्तद्वत् करी दण्डी च दण्डिनी ।। ३५१.६२ ।।
 
पन्थाः पन्थानौ च पथः पथिम्भां पथि चेदृशम् ।
मन्था ऋभुक्षाः पश्याद्याः पञ्च पञ्च च पञ्चभिः ।। ३५१.६३ ।।
 
प्रतान् प्रतानौ प्रतान्भ्यां हेप्र्तांश्च सुशर्म्मणः ।
आपः अपः अद्भिरप्येवं प्रशांश्चैव प्रशाम्यपि ।। ३५१.६४ ।।
 
कः केन सर्व्ववत् केषु अयं चेमेइमान्नयः ।
अनेन चाभ्यामेभिश्च अस्मै चेभ्यः स्वमस्यच ।। ३५१.६५ ।।
 
अनयोरेषामेषु स्याच्चत्वारश्चतुरस्तथा ।
चतुर्णोञ्च चतुर्ष्वऽस्ति सुगीः श्रेष्ठः सुगिर्य्यपि ।। ३५१.६६ ।।
 
सुद्यौः सुदित्रौ सुद्युभ्यां विड्‌विषौ विट्सु यादृशः ।
यादृग्भ्याञ्चैव विड़भ्याञ्च षट् षट् षण्णाञ्च षट्‌स्वपि ।। ३५१.६७ ।।
 
सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् ।
हे सुवचो हे उशनन् उशना वोशनस्यपि ।। ३५१.६८ ।।
 
पुरदंशा अनेहा हेविद्वन् विद्वांस उत्तमाः ।
विदुषे नमो विद्वद्‌भ्यां विद्वत्सु च वभुविवान् ।। ३५१.६९ ।।
 
एवञ्च पेचिवान् श्रेयान् श्रेयांसौ श्रेयसस्तथा ।
असौ अम् अमी श्रेष्ठा अमुं भमूनिहामुना ।। ३५१.७० ।।
 
अमीभिरमुस्मै वामुस्मादमुषथ्य वामुयोस्तथा ।
अमीषाममुस्मिन्नित्येवं गोधुक् गोधुग्मिरगतः ।। ३५१.७१ ।।
 
गोधुक्ष्वित्येवमन्येपि मित्रद्रुहो मित्रद्रुहा ।
मित्रध्रुग्भ्यां मित्रध्रुग्भिरेव चित्तद्रुहादयः ।। ३५१.७२ ।।
 
स्वलिट् स्वलिड्भ्यां स्वलिहि अनड्वाननडुत्सु च ।
अजन्ताश्च हलन्ताश्च पुंस्याथोऽथ स्त्रियां वदे ।। ३५१.७३ ।।
 
इत्यादिमहापुराणे आग्नेये व्याकरणे पुंलिङ्गशब्दसिद्धरूपं नामैकपञ्चासदधिकत्रिशततमोऽध्यायः ॥
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३५१" इत्यस्माद् प्रतिप्राप्तम्