"अग्निपुराणम्/अध्यायः ३५९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===कृत्‌सिद्धरूपम्===
<poem>
कुमार उवाच
कृतस्त्रिष्वपि विज्ञेया भावे कर्म्मणि कर्त्तरि ।
अज्ल्युट् क्तिन् घञो भावे युजकारत एव च ।। ३५९.१ ।।
 
अचि धर्म्मस्य विनय उत्करः प्रकरस्तथा ।
देवो भद्रः श्रीकरश्च त्लुटि रूपन्तु शोभनम् ।। ३५९.२ ।।
 
क्तिनि वृद्धिस्तुतिमतो घञि बावोऽथ युच्यपि ।
कारणा भावनेत्यादि अकारे च चिकित्सया ।। ३५९.३ ।।
 
तथा तव्यो ह्यनीयश्च कर्त्तव्यं करणीयकम् ।
देयं ध्येयञ्चैव यति ण्यति कार्य्यञ्च कृत्यकाः ।। ३५९.४ ।।
 
कर्त्तरि क्तादयो ज्ञेया भावे कर्म्मणि च क्कचित् ।
गतो ग्रामं गतो ग्रम आश्लिष्टश्च गुरुस्त्बया ।। ३५९.५ ।।
 
शतृङ्‌शानचौ भवन् एधमानो भवन्त्यपि ।
पुण् तृचौ सर्व्बधातुभ्यो भावको भविता तथा ।। ३५९.६ ।।
 
क्किबन्तश्च स्वयम्भूश्च भूते लिटः क्कन्सु कान च ।
बभूविवान् पेचिवांश्च पेचानः श्रद्दधानकः ।। ३५९.७ ।।
 
अणि स्युः कुम्भकाराद्या भूतेप्युणादयः स्मृताः ।
वायुः पायुश्च कारुः स्याद्वहुलं छन्दसीरितं ।। ३५९.८ ।।
 
इत्यादिमहापुराणे आग्नेये व्याकरणे कृत्‌सिद्धरूपं नामोनषष्ट्यधिकत्रिशततमो।ध्यायः ।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३५९" इत्यस्माद् प्रतिप्राप्तम्