"ऋग्वेदः सूक्तं १.९४" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ३१३:
[https://sa.wikisource.org/s/1w5z काशकृत्स्नधातुकोशे(१.३२३)] उल्लेखमस्ति -- अर्ह मह पूजायाम्। अत्र अर्ह-मह शब्दयोः भेदं न प्रतीयते। किन्तु ऋग्वेदे जातवेदाशब्दस्य संदर्भे अयं भेदः व्यक्तः भवति। अर्ह एकान्तिकसाधनायाः एवं मह सार्वत्रिकसाधनायाः प्रतीकौ स्तः। इन्द्रस्य संदर्भे, यदा इन्द्रः वज्रेण वृत्रवधं करोति, तत् एकान्तिकः। यदा सः मरुतैः सह मैत्री करोति, मरुत्सखा भवति, तत् सार्वत्रिकः। जातवेदस्य संदर्भे अयं प्रतीयते यत् यावत् अग्निः छन्देभ्यः बद्धा अस्ति, तावत् एकान्तिकः, अर्हतः अस्ति। यदा छन्दसां अतिक्रमणं कृत्वा स्तोमैः बद्धा भवति, तत् सार्वत्रिकरूपः (संमहेम) अस्ति। इन्द्रस्य सखा मरुतः सन्ति, जातवेदस्य वयं(अग्ने सख्ये मा रिषामा वयं तव)। यावत् अग्निः छन्देभ्यः बद्धा अस्ति, तावत् देवानां स्वरूपं विश्वेदेवाः, समष्टिः अस्ति। यदा स्तोमेभिः, तदा देवताविशेषः, व्यष्टिः।
शुक्लयजुर्वेदे ([[शुक्लयजुर्वेदः/अध्यायः ०५|५.४]], [[शुक्लयजुर्वेदः/अध्यायः १२|१२.६१]]) एवं शतपथब्राह्मणे ([[शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण १|३.४.१.२२]]) जातवेदसद्वयोः उल्लेखमस्ति। एतयोः सर्जनं अरणिमन्थनतः भवति। अधरारणिः उर्वश्याः रूपमासीत्, उत्तरारणिः पुरूरवारूपः।
[https://vedastudy.wixsite.com/puranastudy/jaatved जातवेदा उपरि संक्षिप्त टिप्पणी एवं वैदिकसंदर्भाः]
|