"पैङ्गलोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) पुनर्निर्देशनम् अत्यक्त्वा Shubha इत्यनेन पैंगल उपनिषद् तः पैङ्गलोपनिषत् पृष्ठं स्थानान्तरि...
No edit summary
पङ्क्तिः १:
{{Upanishad}}
॥ पैङ्गलोपनिषत् ॥
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
शुक्ल_यजुर्वेदीय सामान्य उपनिषत् ॥
पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् ।
पङ्क्तिः १९३:
मेघापायेंऽशुमानिवात्माविर्भवति । ध्यात्वा
मध्यस्थमात्मानं कलशान्तरदीपवत् ।
अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ॥ ३.१॥
 
प्रकाशयन्तमन्तःस्थं ध्यायेत्कूटस्थमव्ययम् ।
ध्यायन्नास्ते मुनिश्चैव चासुप्तेरामृतेस्तु यः ॥ ३.२॥
 
जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ।
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३.३॥
 
अशब्दमस्पर्शमरूपमव्ययं
तथा रसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं
तदेव शिष्यत्यमलं निरामयम् ॥ ३.४॥ इति ॥ इति
तृतीयोऽध्यायः ॥ ३॥
 
पङ्क्तिः २१३:
ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु
सारथिं विद्धि मनः प्रग्रहमेव च ॥ ४.१॥
 
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । जङ्गमानि
विमानानि हृदयानि मनीषिणः ॥ ४.२॥
 
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः । ततो नारायणः
साक्षाद्धृदये सुप्रतिष्ठितः ॥ ४.३॥
 
प्रारब्धकर्मपर्यन्तमहिनिर्मोकवद्व्यवहरति ।
चन्द्रवच्चरते देही स मुक्तश्चानिकेतनः ॥ ४.४॥
 
तीर्थे श्वपचगृहे वा तनुं विहाय याति कैवल्यम् ।
प्राणानवकीर्य याति कैवल्यम् ॥
तं पश्चाद्दिग्बलिं कुर्यादथवा खननं चरेत् । पुंसः
प्रव्रजनं प्रोक्तं नेतराय कदाचन ॥ ४.५॥
 
नाशौचं नाग्निकार्यं च न पिण्डं नोदकक्रिया । न
कुर्यात्पार्वणादीनि ब्रह्मभूताय भिक्षवे ॥ ४.६॥
 
दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा ।
ज्ञानाग्निदग्धदेहस्य न च श्राद्धं न च क्रिया ॥ ४.७॥
 
यावच्चोपाधिपर्यन्तं तावच्च्हुश्रूषयेद्गुरुम् ।
गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम् ॥ ४.८॥
 
शुद्धमानसः शुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः
पङ्क्तिः २४७:
पिण्डवर्जितः पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति ।
हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् । अहमेव
परं सर्वमिति पश्येत्परं सुखम् ॥ ४.९॥
 
यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्त्द्वज्जिवात्मपरमात्मनोः ॥ ४.१०॥
 
देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति
पङ्क्तिः २५६:
पवित्रं परमेश्वराख्यमद्वैतरूपं विमलाम्बराभम् ।
यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः
४.११॥
 
आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा ।
स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कयापश्यति
चान्तरात्मा ॥ ४.१२॥
 
यत्रयत्र मृतो ज्ञानी येन वा केन मृत्युना । यथा
सर्वगतं व्योम तत्रतत्र लयं गतः ॥ ४.१३॥
 
घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्च्हति
निरालम्बं ज्ञानालोकं समन्ततः ॥ ४.१४॥
 
तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एतस्य ध्यानयोगस्य
कलां नार्हति षोडशीम् ॥ ४.१५॥
 
इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातुमिच्च्हति । । अपि
वर्षसहस्रायुः शास्त्रान्तं नाधिगच्च्हति ॥ ४.१६॥
 
विज्ञेयोऽक्षरतन्मात्रो जीवितं वापि चञ्चलम् । विहाय
शास्त्रजालानि यत्सत्यं तदुपासताम् ॥ ४.१७॥
 
अनन्तकर्मशौचं च जपो यज्ञस्तथैव च ।
तीर्थयात्राभिगमनं यावत्तत्त्वं न विन्दति ॥ ४.१८॥
 
अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे
बन्धमोक्षाय न ममेति ममेति च ॥ ४.१९॥
 
ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते । मनसो ह्युन्मनी भावे
द्वैतं नैवोपलभ्यते ॥ ४.२०॥
 
यदा यात्युन्मनीभावस्तदा तत्परमं पदम् । यत्रयत्र मनो
याति तत्रतत्र परं पदम् ॥ ४.२१॥
 
तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ।
हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्डयेत्तुषम् ॥ ४.२२॥
 
नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते । य
पङ्क्तिः ३१०:
 
इति पैङ्गलोपनिष्त्समाप्ता ॥
</span></poem>
 
== अधिकाध्ययनाय ==
"https://sa.wikisource.org/wiki/पैङ्गलोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्