"ऋग्वेदः सूक्तं ३.५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
 
{{सायणभाष्यम्|
‘ चर्षणीधृतम्' इति द्वादशर्चं त्रयोदशं सूक्तं वैश्वामित्रमैन्द्रम् । अत्रानुक्रमणिका-‘चर्षणीधृतं द्वादशाद्यन्त्यौ तृचौ जागतगायत्रौ' इति । आद्यस्तृचो जागतोऽन्त्यस्तृचो गायत्रः। शिष्टा ऋचस्त्रिष्टुभः। सूक्तविनियोगो लैङ्गिकः । उक्थे कतौक्रतौ मैत्रावरुणशस्त्रेऽनुरूपतृचानन्तरमाद्यस्तृचः शंसनीयः । सूत्रितं च-चर्षणीधृतमस्तभ्नाद्द्यामसुर इति तृचौ' (आश्व. श्रौ. ६. १) इति । विषुवति निष्केवल्ये ‘नृणामु त्वा' इति तृचः । ‘ विषुवान्' इति खण्डे सूत्रितं--- नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तिस्रः ' (आश्व. श्रौ. ८. ६) इति । बृहस्पतिसवे अप्ययं तृचो निष्केवल्ये निविद्धानीयः । सूत्रितं च - नृणामु वेति मध्यंदिनः ' ( आश्व. श्रौ. ९. ५) इति । महाव्रतेऽपि निष्केवल्येऽयं तृचः । दशरात्रे चतुर्थेऽहनि मरुत्वतीये ‘इन्द्र मरुत्वः' इति तिस्रः । षष्ठेऽहनि ‘षष्ठस्य ' इति खण्डे सूत्रितम्--- इन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम्' (आश्व. श्रौ. ८. १) इति । बृहस्पतिसवेऽपि मरुत्वतीयशस्त्रे अयं तृचो निविद्धानीयः । सूत्रितं च--- इन्द्र मरुत्व इह नृणामु त्वेति मंध्यंदिनः' (आश्व. श्रौ. ९. ५) इति । आद्या मरुत्वतीयग्रहस्यानुवाक्या । सूत्रितं च--- मरुत्वतीयेन ग्रहेण चरन्तीन्द्र मरुत्व इह पाहि सोमम् (आश्व. श्रौ. ५, १४ ) इति । तृतीये पर्याये होतुः शस्त्रे • इदं ह्यन्वोजसा ' इति स्तोत्रियस्तृचः । सूत्रितं च - इदं ह्यन्वोजसा महाँ इन्द्रो य ओजसा ' ( आश्व. श्रौ. ६. ४ ) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५१" इत्यस्माद् प्रतिप्राप्तम्