"अग्निपुराणम्/अध्यायः ५३" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===लिङ्गलक्षणम्===
<poem>
भगवानुवाच
लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु।
दैर्घ्यार्द्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः ।। १ ।।
 
विष्कम्भं भूतबागैस्तु चतुरस्रन्तु कारयेत्।
आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान् न्यसेत ।। २ ।।
 
ब्रह्मविष्णुशिवांशेषु वर्द्धमानोयमुच्यते।
चतुरस्रेस्य वर्णार्द्धं गुह्यकोणेषु लाञ्छयेत ।। ३ ।।
 
अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः।
षोडशास्रं ततः कुर्य्याद् द्वात्रिंशास्रं ततः पुनः ।। ४ ।।
 
चतुः षष्ट्यस्रकं कृत्वा वर्त्तुलं साधयेत्ततः।
कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः ।। ५ ।।
 
विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत्।
भागार्द्धार्द्धन्तु सन्त्यज्य च्छत्राकारं शिरो भवेत् ।। ६ ।।
 
त्रिषु भागेषु सदृशमायामं यस्य विस्तरम्।
तद्विभागसमं लिङ्गं सर्वकामफलप्रदम् ।। ७ ।।
 
दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते।
सर्वेषामेव लिङ्गानां लक्षणं श्रृपु साम्प्रतम् ।। ८ ।।
 
मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं बुधः।
षोडशङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा ।। ९ ।।
 
तद्वैयमनसूत्राभ्यां मानमन्तरमुच्यते।
यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः ।। १० ।।
 
अधोभागं त्रिधा कृत्वा त्वर्द्धमेकं परित्यजेत्।
अष्टधा तद्‌द्वयं कृत्वा ऊर्ध्वभागत्रयं त्यजेत् ।। ११ ।।
 
ऊर्ध्वञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत्।
भागमेकं परित्यज्य सङ्गमं कारयेत्तयोः ।। १२ ।।
 
एतत् साधारणं प्रोक्तं लिङ्गानां लक्षणं मया।
सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे ।। १३ ।।
 
ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छयम्।
न्यसेद् ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि ।। १४ ।।
 
तथा समुच्छयं ज्ञात्वा पिण्डिकां प्रविभाजयेत्।
द्विभागमुच्छितं पीठं विस्तारं लिङ्गसम्मितम् ।। १५ ।।
 
त्रिभागं मध्यतः खातं कृत्वा पीठं विभाजयेत्।
स्वमानार्द्धत्रिभागेण बाहुल्यं परिकल्पयेत् ।। १६ ।।
 
बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत्।
खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत् ।। १७ ।।
 
मेखलाषोडशांशेन खातं वा तत्‌प्रमाणतः।
उच्छायं तस्य पीठस्य विकारङ्गं तु कारयेत् ।। १८ ।।
 
भूमौ प्रविष्टमेकं तु भागैकैकेन पिण्डिका।
कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका ।। १९ ।।
 
द्व्यंशेन चोर्ध्वपट्टन्तु एकांशाः शेषपट्टिकाः।
भागं भागं प्रविष्टन्तु यावत कण्ठं ततः पुनः ।। २० ।।
 
निर्गमं भागमेकं तु यावद्वै शेषपट्टिका।
प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः ।। २१ ।।
 
मूलेङ्गुल्यग्रविस्तारमग्रे त्रयंशेन चार्द्धतः।
ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै ।। २२ ।।
 
पिण्डिकासहितं लिङ्गमेतत् साधारणं स्मृतम् ।। २३ ।।
 
इत्यादिमहापुराणे आग्नेये लिङ्गलक्षणं नाम त्रिपञ्चाशत्तमोऽध्यायः।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_५३" इत्यस्माद् प्रतिप्राप्तम्