"अग्निपुराणम्/अध्यायः ५५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===पिण्डिकालक्षणकथनम्===
<poem>
भगवानुवाच
अतः परं प्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम्।
दैर्घ्येण प्रतिमातुल्या तदर्द्धेन तु विस्तृता ।। १ ।।
 
उच्छितायामतोर्द्धेन सुविस्तारार्द्धभागतः।
तृतीयेन तु वा तुल्यं तत्त्रिभागेण मेखला ।। २ ।।
 
खातं च तत्‌प्रमाणं तु किञ्चिदुत्तरतो नतम्।
विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः ।। ३ ।।
 
सममूलस्य विस्तारमग्ने कुर्य्यात्तदर्द्धतः।
विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् ।। ४ ।।
 
पिण्डिकार्द्धेन वा तुल्यं दैर्घ्यमीशस्य कीर्तितम्।
ईशं वा तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत् ।। ४ ।।
 
उच्छायं पूर्ववत् कुर्य्याद्भागषोडशसङ्‌ख्यया।
अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् ।। ५ ।।
 
शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास्तथा।
पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च ।। ६ ।।
 
प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते ।
गजव्यालकसंयुक्ता प्रभा स्यात् प्रतिमासु च ।।७ ।।
पिण्डिकापि यथाशोभं कर्त्तव्या सततं हरेः।
 
सर्वेषामेव देवानां विष्णूक्तं मानमुच्यते।
देवीनामपि सर्वासं लक्ष्म्युक्तं मानमुच्यते ।। ८ ।।
 
इत्यादिमहापुराणे आग्नेये पिण्डिकालक्षणं नाम इति पञ्चपञ्चाशत्तमोऽध्यायः
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_५५" इत्यस्माद् प्रतिप्राप्तम्