"अग्निपुराणम्/अध्यायः ८१" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती)
 
===समयदीक्षाविधानम्===
<poem>
ईश्वर उवाच
वक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीं।
मलमायादिपाशानां विश्लेषः क्रियते यया ।। १ ।।
 
ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा।
विज्ञातकलनामैको द्वितीयः प्रलयाकल ।। २ ।।
 
तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः।
तत्राद्यो मलमात्रेण मुक्तोऽन्यो मलकर्मभि ।। ३ ।।
 
कलादिभूमिपर्य्यन्तं स्तवैस्तु सकलो युतः।
निराधाराऽथ साधारा दीक्षाऽपि द्विविधा मता ।। ४ ।।
 
निराधारा द्वयोस्तेषां साधारा सकलस्य तु।
आधारनिरपेक्षेण क्रियते शम्भुचर्य्यया ।। ५ ।।
 
तीव्रशक्तिनिपातेन निराधारेति स स्मृता।
आचार्य्यमूर्तिमास्थाय मायातीव्रादिभेदया ।। ६ ।।
 
शक्त्या यां कुरुते शम्भुः सा साधिकंरणोच्यते।
इयं चतुर्विधा प्रोक्ता सवीजा वीजवर्जिता ।। ७ ।।
 
साधिकारानधिकारा यथा तदभिधीयते।
समयाचारसंयुक्ता सवीजा जायते नृणां ।। ८ ।।
 
निर्वीजा त्वसमर्थानां समयाचारवर्ज्जिता।
नित्ये नैमित्तिके काम्ये यतः स्यादधिकारिता ।। ९ ।।
 
साधिकारा बवेद्दीक्षा साधकाचार्य्ययोरतः।
निर्वीजा दीक्षितानान्तु यदास मम पुत्रयोः ।। १0 ।।
 
नित्यमात्राधिकारत्वाद्दीक्षा निरधिकारिका।
द्विविधेयं द्विरूपा हि प्रत्येकमुपजायते ।। ११ ।।
 
एका क्रियावती तत्र कुण्डमण्डलपूर्विका।
मनोव्यापारमात्रेण या स ज्ञानवती मता ।। १२ ।।
 
इत्थं लब्वाधिकारेण दीक्षाऽऽचार्य्येण साध्यते.
स्कन्ददीक्षां गुरुः कुर्य्यात् कृत्वा नित्यक्रियां ततः ।। १३ ।।
 
प्रणवार्घ्यकारम्भोजकृतद्वाराधिपार्च्चनः।
विघ्नानुत्सार्य्य देहल्या न्यस्यास्त्रं स्वासने स्थितः ।। १४ ।।
 
कुर्वीत भूतसंशुद्धिं मन्त्रयोगं यथोदितं।
लिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकं ।। १५ ।।
 
सयवक्षीरनीरञ्च विशेषार्घ्यमिदन्ततः।
तदम्बुना द्रव्यशुद्धिं तिलकं स्वासनात्मनोः ।। १६ ।।
 
पूजनं मन्त्रशुद्धिञ्च पञ्चगव्यञ्च पूर्ववत्।
लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं कुशान् ।। १७ ।।
 
विकिरान् शुद्धलाजंस्तान् सधूपानस्त्रमन्त्रितान् ।
शस्त्राम्बु प्रोक्षितानेतान् कवचेनावगुण्ठितान् ।। १८ ।।
 
नानाप्रहरणाकारान् विघ्नौघविनिवारकान्।
दर्भाणान्तालमानेन कृत्वा षट्‌त्रिंशता दलैः।। १९ ।।
 
सप्तजप्तं शिवास्त्रेण वेणीं बोधासिमुत्तमं।
शिवमात्मनि विन्यस्य सृष्ट्याधारमभीप्सितं ।। २0 ।।
 
निष्कलं च शिवं न्यस्य शिवोऽहमिति भावयेत्।
उष्णीषं शिरसि न्यस्य अलं कुर्यात्स्वदेहकं ।। २१ ।।
 
गन्धमण्डनकं स्वीये दिदध्याद्दक्षिणे करे।
विधिनाऽत्रार्च्चयेदीशमित्थं स्याच्छिवमस्तकं ।। २२ ।।
 
विन्यस्य शिवमन्त्रेण भास्वरं निजमस्तके।
शिवाद भिन्नमात्मानं कर्त्तारं भावयेद्यथा।। २३ ।।
 
मण्डले कर्म्मणां साक्षी कलशे यज्ञरक्षकः।
होमाधिकरणं वह्नौ शिष्ये पाशविमोचक ।। २४ ।।
 
स्वात्मन्यनुगृहीतेति षडाधारो य ईश्वरः।
सोऽहमेवेति कुर्वीत बावं स्थिरतरं पुनः ।। २५ ।।
 
ज्ञानखड्‌गकरः स्थित्वा नैर्ऋत्याभिमुखो नरः।
सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपं ।। २६ ।।
 
चतुष्पथान्तसंस्कारैः संस्कुर्य्यादीक्षणादिभिः।
विक्षिप्य विकिरांस्तत्र कुशकूर्च्चोपसंहरेत् ।। २७ ।।
 
तानीशदिशि वर्द्धन्यामासनायोपकल्पयेत्।
नैर्ऋते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत् ।। २८ ।।
 
आप्ये रत्नैः पूरयन्तीं हृदा मण्डपरूपिणीं।
साम्बुवस्त्रे सरत्ने च दान्यस्थे पश्चिमानने ।। २९ ।।
 
ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे।
पश्चिमस्यान्तु सिंहस्थां वर्द्धनीं खड्‌गरूपिणीं ।। ३० ।।
 
दिक्षु शक्रादिदिक्‌पालान्विष्ण्वन्तान् प्रणवासनान् ।
वाहनायुधसंयुक्तान् हृदाऽभ्यर्च्य स्वनामभिः ।। ३१ ।।
 
प्रथमन्तां समादाय कुम्भस्याग्राभिगामिनीं।
अविच्छिन्नप्‌योधारं भ्रामयित्वा प्रदक्षिणम् ।। ३२ ।।
 
शिवाज्ञां लोकपालानां श्रावयेन्मूलमुच्चरन्।
संरक्षेत यथायोगं कुम्भं धृत्वाऽथ तां धरेत् ।। ३३ ।।
 
ततः स्थिरासने कुग्भे साङ्गं सम्पूज्य शङ्करं।
विन्यस्य शोद्यमध्वानं वर्द्धन्यामस्त्रमर्च्चयेत् ।। ३४ ।।
 
ओं हः अस्त्रासनाय हूं फट्। ओं ओं अस्त्रमूर्त्तये नमः।
ओं हूं फट् पाशुपतास्त्रायनमः। ओं ओं हृदयाय हूं फट् नमः।
ओं श्रीं शिरसे हूं फट् नमः। ओं यं शिखायै हूं फट् नमः।
ओं गूं कवचाय हूं फट् नमः। ओं फट् अस्त्राय हूं फट् नमः ।
चतुर्वक्त्रं सदंष्ट्रञ्च स्मरेदस्त्रं सशक्तिकं।
समुद्‌गरत्रिशूलासिं सूर्य्यकोटिसमप्रभं ।। ३५ ।।
 
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया।
अङ्गुष्ठेन स्पृशेत् कुम्भं हृदा मुष्ट्यास्त्रवर्द्धनीं ।। ३६ ।।
 
भुक्तये मुक्तये त्वादौ मुष्टिना वर्द्धनीं स्पृशेत्।
कुम्भस्य मुखरक्षार्थं ज्ञानखड्‌गं समर्पपेत् ।। ३७ ।।
 
शस्त्रञ्च मूलमन्त्रस्य शतं कुम्भे निवेशयेत्।
तद्दशांशेन वर्द्धन्यां रक्षां विज्ञापयेत्ततः ।। ३८ ।।
 
यथेदं कृतयत्नेन भगवन्मशमन्दिरं।
रक्षणीयं जगन्नाथ सर्वाध्वरधर त्वया ।। ३९ ।.
 
प्रणवस्थं चतुर्बाहुं वायव्ये गणमर्च्चयेत् ।
स्थण्डिले शिवमब्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः ।। ४० ।।
 
निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकं।
वामेऽसव्ये तु विन्यस्य समिद्दर्भलितादिकं ।। ४१ ।।
 
कुण्डवह्निस्रुगाज्यादि प्राग्वत् संस्कृत्य बावयेत्।
मुख्यतामूद्‌र्ध्वक्त्रस्य हृदि वह्नौ शिवं यजेत् ।। ४२ ।।
 
स्वमूर्त्तौ शिवकुम्भे च स्थाण्डिले त्वग्निशिष्ययोः।
सृष्टिन्यासेन विन्यस्य शोध्याद्वानं यथाविधि ।। ४३ ।।
 
कुण्डमानं मुखं ध्यात्वा हृदाहुतिभिरीप्सितं।
वीजानि सप्तजिह्वानामग्नेर्होमाय भण्यते ।। ४४ ।।
 
विरेफावन्तिमौ वर्णौ रेफषष्ठस्वरान्वितौ।
इन्दुविन्दुशिखायुक्तौ जिह्वावीजानुपक्रमात् ।। ४५ ।।
 
हिरण्या कनका रक्ता कृष्णा तदनु सुप्रभा।
अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्‌मुखा ।। ४६ ।।
क्षीरादिमधुरैर्हेमं कुर्य्याच्छान्तिकपौष्टिके।
अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्चिकैः ।। ४७ ।।
 
लवणै राजिकातक्रककटुतैलैश्च कण्टकैः।
समिद्भिरपि वक्राभिः क्रद्धो भाष्यापुना यजेत् ।। ४८ ।।
 
कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवं।
बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत् ।। ४९ ।।
 
विल्वं राज्याय लक्ष्म्यर्थं पाटलांश्चम्पकानपि।
पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे ।। ५० ।।
 
दूर्वा व्याधिविनासाय सर्वसत्त्ववशीकृते।
प्रियङ्गुपाटलीपुष्पं चूतपत्रं ज्वरान्तकं ।। ५१ ।।
 
मृत्युञ्जयो मृत्युजित् स्याद् वृद्धिः स्यात्तिलहोमतः।
रुद्रशान्तिः सर्व्वशान्त्यै अथ प्रस्तुतमुच्यते ।। ५२ ।।
 
आहुत्यष्टशतैर्मूलमङ्गानि तु दशांशतः।
सन्तर्पयेत मूलेन दद्यात् पूर्णा यथा पुरा ।। ५३ ।।
 
तथा शिष्यप्रवेशाय प्रतिशिष्यं शतं जपेत्।
दुर्न्निमित्तापसाराय सुनिमित्तकृते तथा ।। ५४ ।।
 
शतद्वयञ्च होतव्यं मूलमन्त्रेण पूर्ववत्।
मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं सकृत् ।। ५५ ।।
 
शिखासम्पुटितैर्वीजैर्ह्रूं फडन्तैश्च दीपनं।
ओं हौं शिवाय स्वाहेत्यादिमन्त्रैश्च तर्पणं ।। ५६ ।।
 
ओं ह्रूं ह्रौं ह्रीं शिवाय ह्रूं फडित्यादिदीपनं।
ततः शिवाम्भसा स्थालीं क्षालितां वर्म्मगुण्ठितां ।। ५७ ।।
 
चन्दनादिसमालब्धां बध्नीयात् कटकं गले।
वर्म्मास्त्रजप्तसद्दर्भपत्रभ्यां चरुसिद्धये ।। ५८ ।।
 
वर्म्माद्यैरासने दत्ते सार्द्धेन्दुकृतमण्डले ।
न्यस्तायां मूर्त्तिभूतायां भावपुष्पैः शिवं यजेत् ।। ५९ ।।
वस्त्रबद्धमुकायां वा स्थाल्यां पुष्पैर्वहिर्भवैः।
चुल्ल्यां पश्चिमवत्क्रायां शुद्धायां वीक्षणादिभिः ।। ६० ।।
 
न्यस्ताहङ्कारवीजायां न्यस्तायां कुण्डदक्षिणे।
धर्म्माधर्म्मशरीरायां जप्तायां मानुषात्मना ।। ६१ ।।
 
स्थालीमारोपयेदस्त्रजप्तां दव्याम्बुमार्जितां।
गव्यं पयोऽस्त्रसंशुद्धं प्रसादशतमन्त्रितं ।। ६२ ।।
 
तण्डुलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा।
एकशिष्यविधानाय तेषां प्रसृतिपञ्चकं ।। ६३ ।।
 
प्रसृति प्रसृतिं पश्चाद्वर्द्धयेद् द्व्यादिषु क्रमात्।
कुर्य्याच्चानलमन्त्रेण पिधानं कवचाणुना ।। ६४ ।।
 
शिवाग्नौ मूलमन्त्रेण पूर्वास्यश्चरुकं पचेत्।
सस्विन्ने तत्र तच्चुल्ल्यां श्रुवमा पूर्य्य सर्पिषा ।। ६५ ।।
 
स्वाहान्तैः संहितामन्त्रैर्द्दत्वा तप्ताभिधारणं।
संस्थाप्य मण्डले स्थालीं सद्दर्भेऽस्त्राणुना कृते ।। ६६ ।।
 
प्रणवेन पिधायास्यां तद्देहलेपनं हृदा।
सुशीतलो भवत्येवं प्राप्य शीताभिधारणं ।। ६७ ।।
 
विदध्यात्संहितामन्त्रैः शिष्यं प्रति सकृत् सकृतं।
धर्म्माद्यासनके हुत्वा कुण्डमण्डलपश्चिमे ।। ६८ ।।
 
सम्पातश्च स्रुचा हुत्वा शुद्धिं संहितया चरेत्।
चरुकं सकृदालभ्य तयैव वष्डन्तया ।। ६९ ।।
 
धेनुमुद्रामृतीभूतं स्थण्डिलेशान्तिकं नयेत् ।
साज्यबागं स्वशिष्याणां भागो देवाय वह्नये ।। ७० ।।
 
कुर्य्यात्तु लोकपालादेः समध्वाज्यमिदं त्रयं।
मनोऽन्तेन हृदा दद्यात्तेनैवाचमनीयकं ।। ७१ ।।
 
साज्यं मन्त्रशतं हुत्वा दद्यात् पूर्णां यथाविधि।
मण्डलं कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः ।। ७२ ।।
 
रुद्रमातृगणादीनां निर्वत्यान्तर्बलिं हृदा।
शिवमध्येऽप्यलब्धाज्ञो विधायैकत्वभावनं ।। ७३ ।।
 
सर्वज्ञतादियुक्तोऽहं समन्ताच्चोपरि स्थितः।
ममांशो योजनास्थानमधिष्ठाताऽहमध्वरे ।। ७४ ।।
 
शिवोऽहमित्यहङ्कारी निर्वत्यान्तर्बलिं हृदा।
शिवमध्येऽप्यलब्धाज्ञो विधायैकत्वभावनं ।। ७५ ।।
 
प्रणवासनके शिष्यं शुश्लवस्त्रौत्तरीयकं।
स्नातञ्चोदङ्‌मुखं मुक्त्यै पूर्ववक्त्रन्तु भुक्तये ।। ७६ ।।
 
ऊद्‌र्ध्वं कायं समारोप्य पूर्वास्यं प्रविलोकयेत्।
चरणादिशिखां यावन्मुक्तौ भुक्तौ विलोमतः ।। ७७ ।।
 
चक्षुषा सप्रसादेन शैवं धाम विवृण्वता।
अस्त्रोदकेन सम्प्रोक्ष्य मन्त्राम्भुस्नानसिद्धये ।। ७८ ।।
 
भस्मस्नानाय विघ्नानां शान्तये पापभित्तये ।
सृष्टिसंहारयोगेन ताडयेदस्त्रभस्मना ।। ७९ ।।
 
पुनरस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तं।
नाभेरूद्‌र्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन् ।। ८० ।।
 
त्रिदाऽऽलभेत तन्मूलैरघमर्षाय नाभ्यधः।
द्वैविध्याय च पाशानां आलभेत शराणुना ।। ८१ ।।
 
तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः।
पुष्पादिपूजितस्यास्य नेत्रे नेत्रेण वा हृदा ।। ८२ ।।
 
बध्वामन्त्रितवस्त्रेण सितेन सदशेन च।
प्रदक्षिणक्रमादेनं प्रवेश्य शिवदक्षिणं ।। ८३ ।।
 
सवस्त्रमासनं दद्यात् यथावर्णं निवेदयेत्।
संहारमुद्रयात्मानं मूर्त्या तस्य हृदम्बुजे ।। ८४ ।।
 
निरुध्य शोधिते काये न्यासं कृत्वा तमर्चयेत्।
पूर्व्वाननस्य शिष्यष्य मूलमन्त्रेण मस्तके ।। ८५ ।।
 
शिवहस्तं प्रदातव्यं रुद्रेशपददायकं।
शिवसेवाग्रहोपायं दत्तहस्तं शिवाणुना ।। ८६ ।।
 
शिवे प्रक्षेपयंत् पुष्पमपनीयार्च्चकान्तरं ।
तत्पात्रस्थानमन्त्राढ्यं शिवदेवगणानुगं ।। ८७ ।।
 
विप्रादीनां क्रमान्नाम कुर्य्याद्वा स्वेच्छया गुरुः।
प्रणतिं कुम्भवर्द्धन्योः कारयित्वाऽनलान्तिकं ।। ८८ ।।
 
सदक्षिणासने तद्वत् सौम्यास्यमुपवेशयेत्।
शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत् ।। ८९ ।।
 
निजविग्रहलीनाञ्च दर्भमूलेन मन्त्रितं।
दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे ।। ९० ।।
 
तन्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे।
शिष्यष्य हृदयं गत्वा रेचकेन शिवाणुना ।। ९१ ।।
 
पूरकेण समागत्य स्वकीयं हृदयान्तरं।
शिवाग्निना पुनः कृत्वा नाडीसन्धानमीद्दशं ।। ९२ ।।
 
हृदा तत्‌सन्निधानार्थञ्जुहुयादाहुतित्रयं।
शिवहस्तस्थिरत्वार्थं शतं मूलेन होमयेत् ।। ९३ ।।
 
इत्थं समयदीक्षायां भवेद्योग्यो भवार्च्चने ।। ९४ ।।
 
इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम एकाशीतितमोऽध्यायः॥
 
</poem>
१,४५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/24332" इत्यस्माद् प्रतिप्राप्तम्