प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

सम्पादनसारांशरहितः
===निर्वाणादीक्षाकथनम्===
<poem>
ईश्वर उवाच
अथ निर्वाणदीक्षायां कुर्य्यान्मूलादिदीपनं।
पाशबन्धनशक्त्यर्थं ताडनादिकृतेन वा ।। १ ।।
 
एकैकया तदाहुत्या प्रत्येकं तत्त्रयेण वा ।
वीजगर्भशिखार्द्धन्तु हूंफडन्तध्रुवादिना ।। २ ।।
 
ओं ह्रूं ह्रौं हौं ह्रूं फडिति मूलमन्त्रस्य दीपनं ।
ओं ह्रूं हौं हौं ह्रूं फडति हृदय एवं शिरोमुखे ।। ३ ।।
 
प्रत्येकं दी पनंकुर्य्यात् सर्व्वस्मिन् क्रूरकर्म्मण।
शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना ।। ४ ।।
 
वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः।
हवनं संवरैः कुर्य्यात् सर्वत्राप्यायनादिषु ।। ५ ।।
 
ततः स्वसब्यभागस्थ मण्डले शुद्धविग्रहं।
शिष्यं सम्पूज्य तत् सूत्रं सुषुम्णेति विभावितं ।। ६ ।।
 
मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत्।
संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके ।। ७ ।।
 
पुंसस्तु दक्षिणे भागे वामे नार्य्या नियोजयेत्।
शक्ति च शक्तिमन्त्रेण पूजितान्तस्य मस्तके ।। ८ ।।
 
संहारमुद्रयाऽऽदाय सूत्रं तेनैव योकजयेत्।
नाडीन्त्वादाय मूलेन सूत्रेन्यस्य हृदार्च्चयेत् ।। ९ ।।
 
अवगुण्ठ्य तु रुद्रणे हृदयेनाहुतित्रयं।
प्रदद्यात्सन्निधानार्थं शक्तावाप्येवमेव हि ।। १० ।।
 
ओं हां वर्णाध्वनेनमो हं भवनाध्वने नमः।
ओं हां कलाध्वने नमः शाध्याध्वानं हि सूत्रके ।। ११ ।।
 
न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च।
पुष्पेण हृदी सन्ताड्य शिष्यदेहे प्रविश्य च ।। १२ ।।
 
गुरुश्च तत्र हूङ्कारयुक्तं रेचकयोगतः।
चैतन्यं हंसवीजस्थं विश्लिष्येदायुधात्मना ।।। १३ ।।
 
ओं हौं हूं फट् । आच्छिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना।
संहारमुद्रया सूत्रे नाडीभूते नियोजयेत् ।। १४ ।।
 
ओं हां हं हां आत्मने नमः ।
व्यापकं भावयेदेनं तनुत्रेणावगुण्ठयेत् ।
 
आहुतित्रितयं दद्यात् हृदा सन्निधिहेतवे ।। १५ ।।
विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं।
 
तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत् ।। १६ ।।
ओं हां हौं शान्त्यतीतकलापाशाय नम इत्यनेनावलोकयेत्।
 
द्वे तत्त्वे मन्त्रमप्येकं पदं वर्णाश्च षोडश।
तथाऽष्टौ भुवनान्यस्यां वीजनाडीकथद्वयं ।। १७ ।।
 
विषयञ्च गुणञ्चैकं कारणं च सदा शिवं।
सितायां शान्त्यतीतायामन्तर्भाव्य प्रपीडयेत् ।। १८ ।।
 
संहारमुद्रयाऽऽदाय विदध्यात् सूत्रमस्तके।
पूजयेदाहुतीस्तिस्रो दद्यात् सन्निधिहेतवे ।। १९ ।।
 
तत्त्वे द्वे अक्षरे द्वे च वीजनाडीकथद्वयं।
गुणौ मन्त्रौ तथाऽब्जस्थमेकं कारणमीश्वरं ।। २० ।।
 
पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च।
एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत् ।। २१ ।।
ताडयित्वा समादाय मुखसूत्रे नियोजयेत्।
जुहुयान्निजवीजेन सान्निध्यायाहुतित्रयं ।। २२ ।।
 
विद्यायां सप्त तत्त्वानि पादानामेकविंशतिं।
षड् वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिं ।। २३ ।।
 
गुणानान्त्रयमेकञ्च विषयं रुद्रकारणं।
अन्तर्भाव्यातिरिक्तायां वीजनाडीकथद्वयं ।। २४ ।।
 
अस्त्रमादाय दध्याच्च परं द्व्यधिकविंशति।
लोकानाञ्च कलानाञ्च षष्टिं गुणचतुष्टयं।। २५ ।।
 
मन्त्राणं त्रयमेकञ्च विषयं कारणं हरिं।
अन्तर्भाव्य प्रतिष्ठायां शुक्लायान्ताडनादिकं ।। २६ ।।
 
विधाय नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत्।
ह्रीं भुवनाना शतं साग्रं पदानामष्टविंशतिं ।। २७ ।।
 
वीजनाडीसमीराणं द्वयोरिन्द्रययोरपि।
वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकं ।। २८ ।।
 
हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणं चतुष्टयं।
निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रताडयेत् ।। २९ ।।
 
आदौ यत्तत्त्वभागान्ते सूत्रे विन्यस्य पूजयेत्।
जुहुयादाहुतीस्तिस्रः सन्निधानाय पावके ।। ३० ।।
 
इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात्।
सवीजायान्तु दी क्षायां समयाचारयागतः ।। ३१ ।।
 
देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि।
इष्टापूर्त्तादिधर्म्मार्थं व्यतिरिक्तं प्रबन्धकं ।। ३२ ।।
 
चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत्।
अमुनैव क्रमेणाय कुर्य्यात्तर्पणदीपने ।। ३३ ।।
 
आहुतिभिः स्वमन्त्रेण तिसृभिस्तिसृभिस्तथा।
ओं हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणं।
ओं हां हं हां शान्त्यतीतकलापाशाय हूम्फडित्यादिदीपनं।
तत् सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु ।। ३४ ।।
 
सङ्‌गृह्य कुङ्कुमाज्येन तत्र साङ्गं शिवं यजेत्।
हूम्‌फडन्तैः कलामन्त्रैर्भित्त्वा पाशाननुक्रमात् ।। ३५ ।।
 
नमोऽन्तैश्च प्रविश्यान्तः कुर्य्याद् ग्रहणबन्धने।
ओं हूं हां हौं हां हूं फट् सान्त्यतीतकलां गृह्णामि।
बध्नामि चेत्यादिमन्त्रैः कलानां ग्रहणबन्धनादिप्रयोगः।
पाशादीनाञ्च स्वीकारो ग्रहणं बन्धनं पुनः ।। ३६ ।।
 
पुरुषं प्रति निः शेषव्यापारप्रतिपत्तये।
उपवेश्याथ तत् सूत्रं शिष्यस्कन्धे निवेशयेत् ।। ३७ ।।
 
विस्तृताघप्रमोषाय शतं मूलेन होमयेत्।
शरावसम्पुटे पुंसः स्त्रियाश्च प्रणितोदरे ।। ३८ ।।
 
हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्च्चयेद्‌धृदा ।
सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितं ।। ३९ ।।
 
निदध्यात् कलशस्याधो रक्षां विज्ञापयेदिति।
शिष्यं पुष्पं करे दत्वा सम्पूज्य कलशादिकं ।। ४० ।।
 
प्रणमय्य वहिर्यायाद् यागमन्दिरमध्यतः।
मण्डलत्रितयं कृत्वा मुमुक्षूनुत्तराननान् ।। ४१ ।।
 
भुक्तये पूर्व्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत्।
प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयं ।। ४२ ।।
 
पाणिना कुशयुक्तेन अर्च्चितानन्तरान्तरं।
चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितं ।। ४३ ।।
 
अष्टग्रासप्रमाणं वा दर्शनस्पर्शवर्जितं।
पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके ।। ४४ ।।
 
हृदा सम्भोजनं दत्वा पूतैराचामयेज्जलैः।
दन्तकाष्ठं हृदा कृत्वा प्रक्षिपेच्छोभने शुभं ।। ४५ ।।
 
न्युनादिदोषमोषाय मूलेनाष्टोत्तरं शतं।
विधाय स्थण्डिलेशाय सर्व्वकर्म्मसमर्पणं ।। ४६ ।।
 
पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं।
 
निर्म्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः ।। ४७ ।।
कलशं लोकपालंश्च पूजयित्वा विसृज्य च।
 
विसृजेद्‌गणमग्निञ्च रक्षितं यदि वाह्यतः ।। ४८ ।।
वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं।
 
भस्मना शुद्धलोयैर्वा स्नात्वा यागालयं विशेत् ।। ४९ ।।
गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान्।
 
हृदा सद्भस्मश्य्यायां यतीन् दक्षिणमस्तकान् ।। ५० ।।
शिखाबद्धशिखानस्त्रसप्तमाणवकान्वितान्।
 
विज्ञाय स्नापयेच्छिष्यांस्ततो यायात् पुनर्वहिः ।। ५१ ।।
ओं हिलि हिलि त्रिशूलपाणये स्वाहा।
 
पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनं।
समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीं ।। ५२ ।।
 
दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद् गुरुः।
इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने ।। ५३ ।।
 
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमोऽध्यायः ॥
 
</poem>
१,४५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/24334" इत्यस्माद् पुनः प्राप्तिः