"नारदपुराणम्- पूर्वार्धः/अध्यायः ६" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती)
 
<poem>
सूत उवाच ।।
भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः ।।
पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम् ।। ६-१ ।।
 
नारद उवाच ।।
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।।
परया दयया तथवं ब्रूहिं शास्त्रार्थपारग ।। ६-२ ।।
 
सनक उवाच ।।
शुणु ब्रह्मन्तरं गुह्यं सर्वसंपत्करं परम् ।।
दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम् ।। ६-३ ।।
 
श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् ।।
सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम् ।। ६-४ ।।
 
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।।
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः ।। ५-५ ।।
 
सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः ।।
मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः ।। ५-६ ।।
 
गङ्गा पुण्यनदी ज्ञेया यतो विष्णुपदोद्भवा ।।
रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः ।। ५-७ ।।
 
स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने ।।
सर्वपापक्षयकरी सर्वोपद्रवनाशिनी ।। ५-८ ।।
 
यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले ।।
तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने ।। ६-९ ।।
 
इयाज वेधा यज्ञेन यत्र देवं रमापतिम् ।।
तथैव मुनयः सर्वे चक्रश्च विविधान्मखान् ।। ६-१० ।।
 
सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै ।।
गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ।। ६-११ ।।
 
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः ।।
सोऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान् ।। ६-१२ ।।
 
विष्णुपादोद्भवा देवी विश्वेश्वरशिरः स्थिता ।।
संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै ।। ६-१३ ।।
 
यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः ।।
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः समुज्ज्वलत् ।। ६-१४ ।।
 
यन्मज्जनं महापुण्यं दुर्लभं त्रिदिवौकसाम् ।।
सारुप्यदायकं विष्णोः किमस्मात्कथ्यते परम ।। ६-१५ ।।
 
यत्र स्नाताः पापिनोऽपि सर्वपापविवर्जिताः ।।
महद्विमानमारुढाः प्रयान्ति परमं पदम् ।। ६-१६ ।।
 
यत्र स्नाता महात्मानः पितृमातृकुलानि वै ।।
सहस्त्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ।। ६-१७ ।।
 
स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विच ।।
पुण्यक्षेत्रेषु सर्वेषउ स्थितवान्नात्र संशयः ।। ६-१८ ।।
 
यत्र स्नातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् ।।
मदङ्गस्पर्शेमात्रेण देवानामाधिपो भवेत् ।। ६-१९ ।।
 
तुलसीमूलसंभूता द्विजपादोद्भवा तथा ।।
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम् ।। ६-२० ।।
 
गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ।।
अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि ।। ६-२१ ।।
 
सद्धर्मवक्तुः पदसंभवां मृदं गङ्गोद्भवां चैव तथा तुलस्याः ।।
मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः ।। ६-२२ ।।
 
कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहम् ।।
वाञ्च्छत्यपि च यो ह्येवं सोऽपि विष्णुपदं व्रजेत् ।। ६-२३ ।।
 
गङ्गाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि ।।
न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः ।। ६-२४ ।।
 
अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ।।
यतो वै नरकं यान्ति गङ्गानात्रि स्थितेऽपि हि ।। ६-२५ ।।
 
संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ।।
तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि ।। ६-२६ ।।
 
सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।। ६-२७ ।।
 
योजनत्रितयं यस्तु गङ्गायामधिगच्छति ।।
सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि ।। ६-२८ ।।
 
सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता ।।
मेषतौलिमृगाकर्षु पावयत्यखिलं जगत् ।। ६-२९ ।।
 
गोदावरी भीमरथी कृष्णा रेवा सरस्वती ।।
तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा ।। ६-३० ।।
 
वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ।।
एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता ।। ६-३१ ।।
 
यथा सर्वगतो विष्णुर्जगव्द्याप्य प्रतिष्टितः ।।
तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी ।। ६-३२ ।।
 
अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् ।।
पुनाति पावनीत्येषा न कथं सेव्यते नृभिः ।। ६-३३ ।।
 
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ।।
वाराणसीति विख्यातं सर्वदेवनिषेवितम् ।। ६-३४ ।।
 
ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् ।।
इह श्रुतिमतां पुंसां काशी याभ्यां श्रुताऽसकृत् ।। ६-३५ ।।
 
ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् ।।
निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै ।। ६-३६ ।।
 
योजनानां शतस्थोऽपि अविमुक्तं स्मरेद्यदि ।।
बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ।। ६-३७ ।।
 
प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्वूज ।।
सोऽपि पापविनिर्मुक्तः शैवं पदमवान्पुयात् ।। ६-३८ ।।
 
काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ।।
पृथिव्यामेकराडू भूत्वा काशीं प्राप्य च मुक्तिभाक् ।। ६-३९ ।।
 
बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति ।।
नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः ।। ६-४० ।।
 
गङ्गायमुनयोर्योगोऽधिकः काश्या अपि द्विज ।।
यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् ।। ६-४१ ।।
 
मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता ।।
पुनाति स्नानपानाद्यैर्नयन्तीन्द्रपुरं जगत् ।। ६-४२ ।।
 
यो गङ्गां भजते नित्यं शंकरो लोकशंकरः ।।
लिङ्गरुपीं कथं तस्या महिमा परिकीर्त्यते ।। ६-४३ ।।
 
हरिरुपधरं लिङ्गं लिङ्गरुपधरो हरिः ।।
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ।। ६-४४ ।।
 
अनादिनिधने देवे हरिशंकरसंज्ञिते ।।
अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ।। ६-४५ ।।
 
यो देवो जगतामीशः कारणानां च कारणम् ।।
युगान्ते निगदन्त्येतद्रुद्ररुपधरो हरिः ।। ६-४६ ।।
 
रुद्रो वै विष्णुरुपेण पालयत्यखिलंजगत् ।।
ब्रह्मरुपेण सृजति प्रान्तेः हयेतत्रयं हरः ।। ६-४७ ।।
 
हरिशंकरयोर्मध्ये ब्रह्मणश्चापि यो नरः ।।
भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ।। ६-४८ ।।
 
हरं हरिं विधातारं यः पश्यत्येकरुपिणम् ।।
स याति परंमानन्दं शास्त्राणामेष निश्चयः ।। ६-४९ ।।
 
योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः ।।
नित्यं संनिहितस्तत्र लिङ्गरुपी जनार्दनः ।। ६-५० ।।
 
काशीविश्वेश्वरं लिङ्गज्योतिर्लिङ्गं तदुच्यते ।।
तं दृष्ट्वा परमं ज्योतिराप्रोति मनुजोत्तमः ।। ६-५१ ।।
 
काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ।।
सप्तद्वीपासाब्धिशैला भूः परिक्रमितामुना ।। ६-५२ ।।
 
धातुमृद्दारपाषाणलेख्याद्या मूर्तयोऽमलाः ।।
शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः ।। ६-५३ ।।
 
तुलसीकाननं यत्र यत्र पह्मवनं द्विजा ।।
पुराणपठनं यत्र यत्र संनिहितो हरिः ।। ६-५४ ।।
 
पुराणसंहितावक्ता हरिरित्यभिधीयते ।।
तद्भक्तिं कुर्वतां नॄणां गङ्गास्नानां दिने दिने ।। ६-५५ ।।
 
पुराणश्रवणे भक्तिर्गङ्गास्नानसमा द्विज ।।
तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता ।। ६-५६ ।।
 
पुराणधर्मकथनैर्यः समुद्धरते जगत् ।।
संसारसागरे मग्नं स हरिः परिकीर्तितः ।। ६-५७ ।।
 
नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः ।।
नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम् ।। ६-५८ ।।
 
वर्णानां ब्राह्मणः श्रेष्टस्तारकाणां यथा शशी ।।
यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता ।। ६-५९ ।।
 
नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः ।।
नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी ।। ६-६० ।।
 
गङ्गायाः परमं नाम पापारण्यदवानलः ।।
भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयन्ततः ।। ६-६१ ।।
 
गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ।।
एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज ।। ६-६२ ।।
 
गायत्री छन्दसां माता माता लोकस्य जाह्नवी ।।
उभे ते सर्वपापानां नाशकारणतां गते ।। ६-६३ ।।
 
यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति ।।
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ।। ६-६४ ।।
 
धर्मार्थकामरुपाणां फलरुपे निरञ्जने ।।
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ।। ६-६५ ।।
 
अतीव दुर्ल्लभा नॄणां गायत्री जाह्नवी तथा ।।
तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी ।। ६-६६ ।।
 
अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ।।
हरिलोकप्रदा दृष्टा पीता सारुप्यदायिनी ।।
।। यत्र स्नाता नरा यान्ति विष्णोः पदमनुत्तमम् ।। ६-६७ ।।
 
नारायणो जगद्धाता वासुदेवः सनातनः ।।
गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः ।। ६-६८ ।।
 
गङ्गाजलकरणेनापि यः सिक्तो मनुजोत्तमः ।।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ।। ६-६९ ।।
 
यद्विन्दुसेवनादेव सगरान्वयसम्भवः ।।
विसृज्यराक्षसं भावं संप्रात्पः परमं पदम् ।। ६-७० ।।
 
इति श्रीवृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टोऽध्यायः ।। ६ ।।
 
</poem>
१,४५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/24433" इत्यस्माद् प्रतिप्राप्तम्