"नारदपुराणम्- पूर्वार्धः/अध्यायः ६१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनत्कुमार उवाच ।।
अशोकं शोकनाशार्थं शास्त्रं शांतिकरं शिवम् ।।
निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते ।। ६१-१ ।।
 
हर्षस्थानसहस्राणि शोकस्थानशतानि च ।।
दिवसे दिवसे मूढमाविशंति न पंडितम् ।। ६१-२ ।।
 
अनिष्टसंप्रंयोगाश्च विप्रयोगात्प्रियस्य च ।।
मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ।। ६१-३ ।।
 
द्रव्येषु समतीतेषु ये गुणास्तेन्न चिंदयेत् ।।
ताननाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते ।। ६१-४ ।।
 
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्त्तते ।।
अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते ।। ६१-५ ।।
 
नार्थो न धर्मो न यशो योऽतीतमनुशोचति ।।
अस्याभावेन युज्येतं तञ्चास्य तु निवर्तते ।। ६१-६ ।।
 
गुणैर्भूतानि युज्यंते तथैव च न युज्यते ।।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ।। ६१-७ ।।
 
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।।
दुःखेन लभते दुःखं महानर्थे प्रपद्यते ।। ६१-८ ।।
 
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते ।।
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुर्चितयेत् ।। ६१-९ ।।
 
भैषज्यमेतद्दःखस्य यदेतन्नानुचिंतयेत् ।।
चिंत्यमानं हि न व्येति भूयश्चाभिप्रवर्द्धते ।। ६१-१० ।।
 
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।।
एतद्विज्ञाय सामर्थ्यं न वान्यैः समतामियात् ।। ६१-११ ।।
 
अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः ।।
आरोग्यं प्रियसंवासं न मृध्येत्पंडितः क्वचित् ।। ६१-१२ ।।
 
नाज्ञानप्रभवं दुःखमेकं शोचितुमर्हति ।।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ।। ६१-१३ ।।
 
सुखात्प्रियतरं दुःखं जीविते नात्र संशयः ।।
जरामरणदुःखेभ्यः प्रियमात्मानमुद्धरेत् ।। ६१-१४ ।।
 
भजंति हि शारीराणि रोगाः शरीरमानसाः ।।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ।। ६१-१५ ।।
 
व्याधितस्य चिकित्साभिस्त्रस्यतो जीवितैषिणः ।।
आमयस्य विनाशाय शरीरमनुकृष्यते ।। ६१-१६ ।।
 
स्रंसंति न निवर्तंते स्रोतांसि सरितामिव ।।
आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः ।। ६१-१७ ।।
 
अपयंत्ययमत्यंतं पक्षयोः शुक्लकृष्णयोः ।।
जातं मर्त्यं जरयति निमिषं नावतिष्टते ।। ६१-१८ ।।
 
सुखदुःखाभिभूतानामजरो जरयत्यसून् ।।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ।। ६१-१९ ।।
 
अदृष्टपूर्वानादाय भावानपरिशंकितान् ।।
इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः ।। ६१-२० ।।
 
यो यदिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् ।।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ।। ६१-२१ ।।
 
संयताश्चैव तक्षाश्च मतिमंतश्च मानवाः ।।
दृश्यंते निष्फलाः संतः प्रहीनाश्च स्वकर्मभिः ।। ६१-२२ ।।
 
अपरे निष्फलाः सन्तो निर्गुणाः पुरुषाधमाः ।।
आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः ।। ६१-२३ ।।
 
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।।
वंचनायां च लोकेषु ससुखेष्वेव जीयते ।। ६१-२४ ।।
 
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्टति ।।
कश्चित्कर्माणि कुरुते न प्राप्यमधिगच्छति ।। ६१-२५ ।।
 
अपराधान्समाच्ष्टुं पुरुषस्य स्वभावतः ।।
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ।। ६१-२६ ।।
 
तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः ।।
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ।। ६१-२७ ।।
 
केषांचित्पुत्रकामानामनुसन्तानमिच्छताम् ।।
सिद्धौ प्रयतमानानां नैवांडमुपजायते ।। ६१-२८ ।।
 
गर्भादुद्विजमानानां क्रुद्धादशीविषादिव ।।
आयुष्मान् जायते पुत्रः कथं प्रेतः पितेव सः ।। ६१-२९ ।।
 
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रहेतुभिः ।।
दशमासान्परिधृता जायते कुलपांसनाः ।। ६१-३० ।।
 
अपरे धनधान्यानि भोगांश्च पितृसंचितान् ।।
विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः ।। ६१-३१ ।।
 
अन्योन्य समभिप्रेत्य मैथुनस्य समागमे ।।
उपद्रवइवादृष्टो योनौ गर्भः प्रपद्यते ।। ६१-३२ ।।
 
स्निग्धत्वादिंद्रियार्थेषु मोहान्मरणमप्रियम् ।।
परित्यजति यो दुःखं सुखमप्युभयं नरः ।। ६१-३३ ।।
 
अत्येति ब्रह्म सोऽत्यन्तं सुखमप्यश्नुते परम् ।।
दुःखमर्था हि त्यज्यंते पालने च न ते सुखाः ।। ६१-३४ ।।
 
श्रुत्वैव नाधिगमनं नाशमेषां न चिंतयेत् ।।
अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः ।। ६१-३५ ।।
 
अतृप्ता यांति विध्वंसं सन्तोषं यांति पंडिताः ।।
सर्वे क्षयांता निचयाः पतनांताः समुच्छ्रयाः ।। ६१-३६ ।।
 
संयोगा विप्रयोगांता मरणांतं हि जीवितम् ।।
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ।। ६१-३७ ।।
 
तस्मात्संतोषमेवेह धनं शंसन्ति पंडिताः ।।
निमेषमात्रमपि हि योऽधिगच्छन्न तिष्टति ।। ६१-३८ ।।
 
सशरीरेष्वनित्येषु नित्यं किमनुचिंतयेत् ।।
भूतेषु भावं संचिंत्य ये बुद्ध्या तमसः परम् ।। ६१-३९ ।।
 
न शोचंति गताध्वानः पश्यंति परमां गतिम् ।।
संचिन्वन्नेकमेवैनं कामानावितृप्तकम् ।। ६१-४० ।।
 
व्याघ्र पशुमिवासाद्य मृत्युरादाय गच्छति ।।
अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे ।। ६१-४१ ।।
 
अशोचन्नारभेन्नैव युक्तश्चाव्यसनी भवेत् ।।
शब्दे स्पर्शे रसे रूपे गंधे च परमं तथा ।। ६१-४२ ।।
 
नोपभोगात्परं किंचिद्धनिनो वाऽधनस्य वा ।।
वाक्संप्रयोगाद्भृतानां नास्ति दुःखमनामयम् ।। ६१-४३ ।।
 
विप्रयोगश्च सर्वस्य न वाचा न च विद्यया ।।
प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च ।। ६१-४४ ।।
 
विचरेदसमुन्नद्धः स सुखी स च पंडितः ।।
अध्यात्मगतमालीनो निरपेक्षो निरामिषः ।। ६१-४५ ।।
 
आत्मनैव सहायेन चश्चरेत्स सुखी भवेत् ।।
सुखदुःखविपर्यासो यदा समुपपद्यते ।। ६१-४६ ।।
 
नैनं प्रज्ञा सुनियतं त्रायते नापि पौरुषम् ।।
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ।। ६१-४७ ।।
 
उपद्रव इवानिष्टो योनिं गर्भः प्रपद्यते ।।
तानि पूर्वशरीराणि नित्यमेकं शरीरिणम् ।। ६१-४८ ।।
 
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ।।
निर्दग्धं परदेहेन परदेंहं बलाबलम् ।। ६१-४९ ।।
 
विनश्यति विनाशांते नावि नावमिवाचलाम् ।।
संगत्या जठरे न्यस्तं रेतोबिंदुमचेतनम् ।। ६१-५० ।।
 
केन यत्नेन जीवंतं गर्भं त्वमिह पश्यसि ।।
अन्नपानानि जीर्यंते यत्र भक्ष्याश्च भक्षिताः ।। ६१-५१ ।।
 
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यति ।।
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः ।। ६१-५२ ।।
 
धारणे वा विसर्गे च न कर्तुं विद्यतेऽवशः ।।
प्रभवंत्युदरे गर्भा जायमानास्तथापरे ।। ६१-५३ ।।
 
आगमेन महान्येषां विनाश उपपद्यते ।।
एतस्माद्योनिसंबंधाद्यो जीवन्परिमुच्यते ।। ६१-५४ ।।
 
पूजां न लभते कांचित्पुनर्द्धंद्वेषु मज्जति ।।
गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम् ।। ६१-५५ ।।
 
प्राप्नुवंति ततः पंच न भवंति शतायुषः ।।
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ।। ६१-५६ ।।
 
व्याधिभिश्च विवध्यंते व्याघ्रैः क्षुद्रमृगा इव ।।
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलंधनम् ।। ६१-५७ ।।
 
वेदना नापकर्षंति यतमानास्चिकित्सकाः ।। ६१-५८ ।।
 
ते चापि विविधा वैद्याः कुशला संमतौषधाः ।।
व्याधिभिः परिकृष्यंते मृगा ज्याघ्रैरिवार्दिताः ।। ६१-५९ ।।
 
ते पिबंति कषायांश्च सर्पीषि विविधानि च ।।
दृश्यंते जरया भग्ना नागैर्नागा इवोत्तमाः ।। ६१-६० ।।
 
कैर्वा भुवि चिकित्स्येंत रोगार्त्ता मृगपक्षिणः ।।
श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवंति ते ।। ६१-६१ ।।
 
घोरानपि दुराधर्षान्नृपतीनुग्रतेजस ।।
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ।। ६१-६२ ।।
 
इति लोकमनाक्रंदं मोहशोकपरिप्लुतम् ।।
स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा ।। ६१-६३ ।।
 
न धनेन न राज्येन नोग्रेण तपसा तथा ।।
स्वभावा ह्यतिवर्तंते ये निर्मुक्ताः शरीरिषु ।। ६१-६४ ।।
 
उपर्यपरि लोकस्य सर्वो भवितुमिच्छति ।।
यतते च यथाशक्ति न च तद्वर्तते तथा ।। ६१-६५ ।।
 
न म्रियेरन्नजीर्येरन्सर्वे स्युः सार्वकामिकाः ।।
नाप्रियं प्रतिपद्येरन्नुत्थानस्य फलं प्रति ।। ६१-६६ ।।
 
ऐश्वर्यमदमत्ताश्च मानान्मयमदेन च ।।
अप्रमत्ताः शठाः क्रूरा विक्रांताः पर्युपासते ।। ६१-६७ ।।
 
शोकाः प्रतिनिवर्तंते केषांचिदसमीक्षताम् ।।
स्वं स्वं च पुनरन्येषां न कंचिदतिगच्छति ।। ६१-६८ ।।
 
महञ्च फलवैषम्यं दृश्यते कर्मसंधिषु ।।
वहंति शिबिकामन्ये यांत्यन्ये शिबिकारुहः ।। ६१-६९ ।।
 
सर्वेषामृद्धिकामानामन्ये रथपुरः सराः ।।
मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः ।। ६१-७० ।।
 
द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ।।
इदमन्यत्परं पश्य नात्र मोहं करिष्यसि ।। ६१-७१ ।।
 
धर्मं चापि त्यजा धर्मं त्यज सत्यानृतां धियम् ।।
सर्वं त्यक्त्वा स्वरूपस्थः सुखी भव निरामयः ।। ६१-७२ ।।
 
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ।।
येन देवाः परित्यज्य भर्त्यलोकं दिवं गताः ।। ६१-७३ ।।
 
सनंदन उवाच ।।
इत्युक्त्वा व्यासतनयं समापृच्छ्य महामुनिः ।।
सनत्कुमारः प्रययौ पूजितस्तेन सादरम् ।। ६१-७४ ।।
 
शुकोऽपि योगिनां श्रेष्टः सम्यग्ज्ञात्वा ह्यवस्थितम् ।।
ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ ।। ६१-७५ ।।
 
ततः पित्रा समागम्य प्रणम्य च महामुनिः ।।
शुकः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम् ।। ६१-७६ ।।
 
व्यासस्तद्विरहाद्दूनः पुत्रस्नेहसमावृतः ।।
क्षणैकं स्थीयतां पुत्र इति च क्रोश दुर्मनाः ।। ६१-७७ ।।
 
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ।।
मोक्षमेवानुसंचित्य गत एव परं पदम् ।। ६१-७८ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमोऽध्यायः ।। ६१ ।।
 
</poem>