"विष्णुपुराणम्/चतुर्थांशः/अध्यायः २" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
पाशार उवाच ।
यावज्व ब्रह्मलोकात् ककुझी रेवतो नामाभ्येति तावत्
पुणयजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं जघ्रुः ।। ४-२-१ ।।
 
पृषदश्वो जज्ञे । ततश्व रथीतरः । तत्रायं श्लोकः ।
एते क्षत्रप्रसूता वै पुनश्वाङ्गिरसः स्मृताः ।
रथीतराणां प्रवराः क्षत्रोपेता द्रितजातयः ।। ४-२-२ ।।
 
क्षुवतश्व मनोरिक्ष्वाकुर्घ्राणतः पुत्रो जज्ञे ।
तस्य पुत्रशतप्रवरा विकुक्षि-निमि-दण्डाख्यास्त्रयः पुत्राः ।
शकुनिप्रमुखाः पञ्चाशत् पुत्राउत्तरा पथरक्षितारो बभूवुः ।
चत्वारिंशदष्टौ च दक्षिणापथे भूपालाः ।। ४-२-३ ।।
 
स च इक्ष्वाकुरष्टकायामुतपाद्य श्राद्धार्हमांस
भानयेति विकुक्षिमा ज्ञापयामास ।। ४-२-४ ।।
 
स तथेति गृहीताज्ञो वनमभ्येत्यानेकान् मृगान् हत्वा
अतिश्रान्तोऽतिक्षुतूपरीतो विकुक्षिरेकं शश मभक्षयत्,
शेषञ्च मांसमानीय पित्रे निवेदयामास ।
इक्ष्वाकुणापि इक्ष्वाकुकुलाचार्य्यस्ततूप्रोक्षणाय वशिष्ठः
प्रचोदितः प्राह अलमनेनामेध्येनामिषेण ।
दुरात्मनानेन ते पुत्रेणा एतन्मांसमुपहतम यतोऽनेन शशको भक्षितः ।
ततश्वासौ विकुक्षिः गुरुणौवमुक्तः शशादसंज्ञा मवाप, पित्रापि च परित्यक्तः ।
पितर्य्युपरते चाखिलामेतां पृथ्वीं धर्म्मतः शशास !
शशादस्य च परञ्जयो नाम पूत्रोऽभवत् ।। ४-२-५ ।।
 
इदञ्चान्यत्पुरा हि त्रेतायां दैवासुरमतीव भीषणं युद्धमासीत् ।
तत्र चातिबलिभिरमुरैरमराः पराजिता भगवन्तं विष्णमाराधयाञ्चक्रुः ।। ४-२-६ ।।
 
प्रसन्नश्व देवानामनेदिनिधनः सकलजगतपरायणो नारायणः प्राह, ज्ञातमेव मया युष्माभिर्यदभिलषितम्, तदर्थमिदं श्रूयताम् ।। ४-२-७ ।।
 
परञ्जयो हि नाम शशादस्य च राजर्षेस्तनयः क्षत्रियवर्य्यः । तच्छरीरेहऽहमंशेन स्वयमेवावतीर्य्य तानशेषानसुरान् निहनिष्यामि, तद्भवद्भिः परञ्जयोऽसुरवधार्थाय इह कार्य्योद्योगः कार्य्य इति । एतच्छ्रु त्वा प्रणम्य भगवन्तं विष्णूममराः परञ्जयसकाशमाजग्मुः ।। ४-२-८ ।।
 
ऊचुश्चैनं भोः भोः क्षत्रियवर्य्य ! अस्माभिरभ्य र्थितेन
भवता अस्मा कमरातिवधोद्यतानां साहायक कृतमिच्छामः ।। ४-२-९ ।।
 
तद्भवता अस्माकमभ्यागतानां प्रणयभङ्गो न कार्य्यः ।
इत्युक्तः परञ्जयः प्राह, सकलत्रैलोक्यनाथो योऽयं युष्माकमिन्द्रः शतक्रतुः ,
अस्य यद्यहं स्कन्धमारूढ़ो युष्मदरातिभिः सह योतूस्ये, तदाहं भवतां सहायः ।
इत्याकर्ण्य समस्तदेवैरिन्द्रेण च बाढ़ मित्येवमन्वीप्सितम् ।। ४-२-१० ।।
 
राचरगुरोरच्युतस्य तेजसाप्य यितो देवासुरसंग्रामे समस्तानेवासुरान् निजघान यतश्व
वृषभककुतूस्थन राज्ञा निसूदितमसुरबलम्, ततश्वासौ ककुत्स्थ संज्ञामवाप ।। ४-२-११ ।।
 
ककुत्स्थस्याप्यनेनाः पुत्रोऽभूत् । अनेनसः पृथुः, पृथोर्विशवगश्वः, तस्य चार्द्रोऽभूत्, अर्द्रस्य युवनाश्वः तस्य श्रावस्तः, यः श्रावस्तीं पुरीं निवेख यामास ।
श्रावस्तस्य बृहदश्वः, बृहदश्वस्यापि कुवलयाश्वः योऽसावुत
ङ्कस्य महर्षेरपकारिणां धुन्धवुनामानमसुरं वैष्णवेन तेजताप्यायितः
पुत्रसहस्त्रैरेकविंशतिभिः परिवृतो जघान, धुन्धुमारसंज्ञामवाप ।
तस्य च समस्ता एव पुत्रा धुन्धुमुखनिः खासाग्रिना विप्लुष्टा विनेशुः ।। ४-२-१२ ।।
 
दृढ़ाश्व-चन्द्राश्व-कपिलाशास्त्रयः केवलमवशेषिताः । दृढ़शाद् वार्य्यश्वः तस्मादू निकुम्भः निकुम्भात् संहताश्वः, ततश्व कृशाश्वः तस्मात् प्रसेनजित्, ततो युवनाश्वोऽभवत् । तस्य चापुत्र स्यातिनिर्व्वेदादू मुनीनामाश्वममणडले निवसतः कृपालुभिस्तैर्मुनिभिरपत्योत्पादनाय इष्टिः कृता । तस्याञ्च मध्यरात्रे निवृत्तायां मन्त्रपूतजलपूर्णाकलसं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः ।। ४-२-१३ ।।
 
तेषु च सुप्तेषु अतीव तृटूपरीतः स भूपालस्तमा श्रमं विवेश, सुप्तांश्व तानृ,ीन् नैवोत्थापयामास ।। ४-२-१४ ।।
 
तज्व कलसजलमपरिमेयमाहात्म्यं मन्त्रपूतं पपौ प्रबुद्धाश्व ऋषयः पप्रच्छुः-केनैतन्मन्त्रपूतं वारि पीतम् ? अत्र हि पीते राज्ञोऽस्य युवना श्वस्य पती महाबलपराक्रमं पुत्रं जनयिष्यति । इत्याकणर्य स राजा अजानता मया पीतमित्याह ।। ४-२-१५ ।।
 
गर्भश्व युवनाश्वोदरेऽभवत् क्रमेण च ववृदे । प्राप्तसमयश्व दक्षिणं कुक्षिमवनीपतेनिंर्भिद्य निश्वक्राम न चासौ राजा ममार ।। ४-२-१६ ।।
 
जातो नामैष कं धास्यतीति ते मुनयः प्रोजुः ।
अथागम्य देवराड़ब्रवीत् मामयं धास्यतीति ।
ततो मान्धाता नामतोऽभवत्, वक्ते चास्य प्रदेशिनी देवराजेन न्यस्ता, तां पपौ । ताञ्चामृतस्त्राविणीमासाद्य पीत्वा चाह्नवै व्यवर्द्धत ।
त तु मान्धाता चक्रवर्त्ती सप्तद्रीपां मही बुभुजे ।
भवति चात्र श्लोकः यावत् सूर्य्य उदेति स्म यावज्व प्रतितिष्ठति ।
सर्व्वं तद यौवनाशवस्य मान्धातुः क्षेत्रमुच्यते ।। ४-२-१७ ।।
 
मान्धाता च शशबिन्दुदुहितरं बिन्दुमतीमुपयेमे पुरुकुत्समम्बरीषं मुचु कुन्दञ्च तस्यामपत्यत्रयमुतूपादयामास । पञ्चाशज्व दुहितरस्तस्य नूपतेर्बभूवुः ।। ४-२-१८ ।।
 
बह्वृचश्व सौभरिर्नाम ऋषिरन्तर्जले द्रादशाव्दं काल मुवास ।। ४-२-१९ ।।
 
तत्र चान्तर्जले सम्मदनामातिबहुप्रजोऽतिप्रमाणो मीनाधिपतिरासीत् तस्य पुत्र पौत्र दौहित्राः पाश्वैतः पृष्ठतोऽग्रतो वक्षः पुच्छ-शिर साञ्चोपरि भ्रमन्तस्तैनैव सहाहर्निशमतिनिर्वृता रेमिरे । स चापि तत्स्पर्शोपचीयमानहर्षप्रकर्षो बहुप्रकारं तस्यर्षेः पश्यतस्तैरात्मज पौत्र दौहि त्रादिभिः सहानुदिवसं बहूप्रकारं रेमे । अथान्तर्जलावस्थितः स सौभरिरै काग्रतासमाधानमपहायानुदिनं तत् तस्य मत्स्यस्या त्मजपौत्रदौहित्रादिभिः सहातिरमणीयं ललितमवे क्ष्याचिन्तयत् ।। ४-२-२० ।।
 
अहो धन्योऽयमीदृशमपि अनभिमतं योन्यन्तरम वाप्य एभिरात्मजपौत्रा दिभिः सह रममाणोऽतीवा स्माकं स्पृहामुत्पादयति । वयमप्येवं पुत्रादिभिः सह रमयिष्यामः । इत्येवमभिसमीक्ष्य स तस्मादन्तर्ज लान्निष्कम्य निर्व्वेष्टुकामः कन्यार्थं मान्धातार राजानमगच्छत् ।। ४-२-२१ ।।
 
अथागमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यग अर्ध्यादिना पूजितः कृतासनपरिग्रहः सौभरि रुवाच । निर्व्वेष्टकामोऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभाङ्क्षीः ।
न ह्यर्थिनः कार्य्यवशाभ्युपेताः ककुतूस्थगोत्रे विमुखाः प्रयान्ति ।। ४-२-२२ ।।
 
अन्येऽपि सन्त्येव नृपाः पृथिव्यां क्ष्मापाल येषां तनयाः प्रभूताः ।
किन्त्वर्थिनामर्थितदानदीक्षा कृतव्रत श्लाघ्यमिदं कुलं ते ।। ४-२-२३ ।।
 
शतार्द्धसङ्खयास्तव सन्ति कन्या स्तासां ममैकां नृपते ! प्रयच्छ ।
यत् प्रार्थनाभङ्गभयाद बिभेमि तस्मादहं राजवरातिदुः खात् ।। ४-२-२४ ।।
 
इति ऋषिवचनमाकर्ण्य स राजा जराजर्ज्जरित देहं तमृषिमालोक्य प्रत्याख्यानकातरस्तस्माज्व भगवतः शापतो बिभ्यत् किञ्चिदधोमुखश्विरं दध्यौ नरेन्द्र! कस्मात् समुपैषि चिन्तामशक्यमुक्तं न मयात्र किञ्चित् । याऽवश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धम् ।। ४-२-२५ ।।
 
अथ तस्य शापबीतः सप्रश्रयमुवाचासौ राजा ।
भगवन् ! अस्मतूकुलस्थितिरियम् य एव कन्यायाअभिरुचितोऽभिजनवा वरः,
तस्मै कन्या प्रदीयते । भगवदूयाचूञा चास्मन्मनोरथानामप्यगोचर वर्त्तिनी कथमप्येषा सञ्जाता ।
तदेवमवस्थिते न विद्मः किं कुर्म्म इति, तन्मया चिन्त्यत इत्यभिहिते
तेन भूभुजा मुनिरचिन्तयत् । अहो अयमन्योऽस्मतूप्रत्याख्यानो पायः ।
वृद्धोऽयमनभिमतः स्त्रीणं किमुत कन्याना मिति अमुना सञ्चिन्त्यैवमभिहितम् ।। ४-२-२६ ।।
 
एवमस्तु तथा करिष्यामीति सञ्चिन्त्य मान्धातार मुवान् ।। ४-२-२७ ।।
 
यद्येवं तदादिश्यतामस्माकं प्रवेशाय कन्यान्तः पुरवर्षवरः ।। ४-२-२८ ।।
 
यदि कन्यैव काचिन्मामभिलषति, तदाहं दारपरि ग्रहं करिष्यामीति
अन्यथा चैतदलमस्याकम् एतेनातीतालारम्भेणोत्युत्तवा विरराम ।
ततश्व मान्धात्रा मुनिशापशाङ्कितेन कन्यान्तः पुरवर्षवरः समाज्ञप्तः कन्यान्तः पुरं प्रविशन्नेव भगवानखिल सिद्ध-गन्धर्व्व-मनुष्येभ्योऽतिशयेन कमनीयं रूप मकरोत् । प्रवेश्य च तमृषिमन्तः पुरवर्षवरस्ताः कन्यकाः प्राह भवतीनां जनयिता महाराजः समाज्ञापयति अयमस्मान ब्रह्मर्षिः कन्यार्थी समभ्यागतः मया चास्य प्रतिज्ञातं, यद्यस्मत्कन्यका काचिदू भगवन्त
वरयात्, तत्कन्यायाश्छन्द नाह परिपन्थानं करिष्यामि, इत्याकर्ण्य सर्व्वा एव ताः कन्यकाः सानुरागाः समन्मथाः करेणाव इवभयूथपतिं तमृषिमहमहमिकया वरयाम्बभूवुरूचुश्व ।। ४-२-२९ ।।
 
अलं भगिन्योऽहमिमं वृणोमि वृतो मया नैष तवानुरूपः ।
ममैव भर्त्ता विधिनैष सृष्टः सृष्टाहमस्योपशमं प्रयाहि ।। ४-२-३० ।।
 
वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम् ।
मया मयेति क्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ।। ४-२-३१ ।।
 
यदा तु सर्व्वाभिरतीव हार्द्दादू धृतः स कन्याभिरनिन्द्यकीर्त्तिः ।
तदा स कन्याधिकृतो नृपाय यथावदाचष्ट विनम्रमूर्त्तिः ।। ४-२-३२ ।।
 
तदवगमात् किमेतत् कथय, किं करोमीति किं मयाभिहितमित्याकुल मतिरनिच्छन्नपि कथमपि राजानुमेने । कृतानुरूपविवाहश्व महषिः सकला एव ताः कन्यकाः स्वमाश्रममनयत् ।
तत्र चाशेष शिल्पिशिल्पप्रणेतारं विधातारमिवान्य विश्वकर्म्माणमाहूय सकलकन्यानामेकैकस्याः प्रोतूफुलु पङ्गजकूजतूकलहंसकारणडवादिविहमङ्ग भिरामजलाशयाः सोपवनाः सविकाशाः साधुशय्यासनपरिच्छदूः
प्रासादाः क्रियन्तामित्यादिदेश ।। ४-२-३३ ।।
 
तज्व तथैवानुष्ठितमशेषशिल्पविशेषाचार्य्यस्त्वष्टा दर्शितवान् ।। ४-२-३४ ।।
 
ततश्व परमर्षिणा सौभरिणाज्ञप्तस्तेषु गुहेष्वनपाया नन्दनामा महानिधि रासाञ्चक्र ।। ४-२-३५ ।।
 
ततोऽनवरतभक्ष्यभोज्यलेह्याद्यु पभोगैरागतानुगत भृत्यादीनहर्निशमशेष गृहेषु ताः क्षितीशदुहितरो भोजयामासुः ।। ४-२-३६ ।।
 
एकदा तु दुहितृस्नेहाकृष्टह्टदयः स महीपतिरतिदुः खितास्ताः सुखिता वा इति विचिन्त्य तस्य महर्षेराश्रममुपेत्य स्फुरदंशुमालां स्फटिकमयीं प्रासाढमालामतिरम्योपवनजलाशयां ददर्श ।। ४-२-३७ ।।
 
प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृत्तस्नेहनय नामबुगर्भनयनोऽब्रवीत् ।। ४-२-३८ ।।
 
अप्यत्र वतूसे भवत्याः सुखमुत किञ्चिदसुखम् अपि ते महर्षिः स्नेहवान्, उत संस्मर्य्यतेऽस्मदूगृहवासस्य ? इत्युक्ता तत्तनया पितरमाह,--तात! अतिशयरमणीयः प्रासादोऽत्र-अतिमनोज्ञमुपवनम् अतिकलवाक्यविहगाभिरुताः प्रोतूफुल्लपद्माकरजलाशयाः, मनोऽनुकूलभक्ष्यभोज्यानुलेपनवस्त्रभूषण दिभोगोपभोघः, मृदूनि शय नानि, सर्व्वसम्पतूसमवेतमेतदु गार्हस्थ्यम्,
तथापि केन वा जन्मभूमिर्न स्मर्य्यते ? त्वतूप्रसादादिदम शेषमति शोभनम् ।। ४-२-३९ ।।
 
किन्तु एतन्ममैकं दुः स्वकारणम्, यदस्मदूभर्त्तास्मदूगेहान्न निः सरति । ममैव कैवलमतिप्रीत्या समीपवर्त्ती, नान्यासां मद्भगिनीनाम् एवञ्च मम सहोदरा दुः खिता इत्येवमतिदुः खकारणम्
इत्युक्तस्तया द्रितीयं प्रासाद मुपेत्य स्वतनयां परिष्वज्योपविष्टस्तथैव पृष्टवान् । तयापि तथैव सर्व्वमेतत् प्रासादाद्यु पभोगसुखमाख्यातम् । ममैव केवलं पार्श्ववर्त्ती नान्यासामस्मद्भगिनीनामित्येवमादि श्रुत्वा समस्त प्रसादेषु राजा प्रविवेश । तनयां तनयां तथैवापृच्छत्, ताभिश्व तथैवाभिहितः परितोषविस्मयनिर्भरविवशह्टदयो भगवन्तं सौभरिमेकान्ता वस्थितमुपेत्य कृतपूजोऽ ब्रवीत् ।। ४-२-४० ।।
 
दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कस्यचिदस्माभि र्विभूतिविलसितमुपलक्षितम् । कियदेतद्भगवंस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन
ऋषिवर्य्येण सह किञ्चित् कालमभिमतोपभोगं वुभुजे, स्वपुरञ्च जगाम ।। ४-२-४१ ।।
 
कालेन गच्छता तस्य राजतनयासु तासु पुत्रशतं सार्द्धमभवत् । तदनुदिनारूढ़स्नेहः स तत्रातीव ममताकृष्टह्टदयोऽभवत् ।। ४-२-४२ ।।
 
अप्येतेऽस्मतूपुत्राः कलभाषिणाः पद्भयां गच्छेयुः, अप्येते यौवनिनो भवेयुः, अपि कृतदारानेतान् पश्येयम्, अप्येतेषां पुत्रा बवेयुः, अथ ततूपुत्रान् पुत्रसमन्नितान् पश्येयम् ? एवमादिमनोरथमनुदिन कालसम्पत्ति वृत्तिमवेत्यैतत् सञ्चिन्तयामास ।। ४-२-४३ ।।
 
अहो मे मोहस्यातिविस्तारः ।
मनोरथानां न समाप्तिरस्ति वर्षायुतेनापि तथाब्दलक्षैः ।
पूर्णोषु पूर्णोषु पुनर्नवानाम् उत्पत्तयः सन्ति मनोरथानाम् ।। ४-२-४४ ।।
 
पद्भयां गता यौवनिनश्व जाता दारैश्व संयोगमिताः प्रसूताः ।
दृष्टाः सुतास्लत्तनयप्रसूतिं द्रष्टुं पुनर्वाञ्छति मेऽन्तरात्मा ।। ४-२-४५ ।।
 
द्रक्ष्यामि तेषामपि चेत् प्रसूतिं मनोरथो मे भवतिता ततोऽन्यः ।
पूर्णेऽपि तत्राप्यपरस्य जन्म निवार्य्यते केन मनोरथस्य ।। ४-२-४६ ।।
 
आ मृत्युतो नैव मनोरथाना-मन्तोऽस्ति विज्ञातमिदं मया च ।
मनोरथासक्तिपरस्य चित्तं न जायते वै परमात्मसङ्गि ।। ४-२-४७ ।।
 
स मे समाधिर्जलवासमित्र मतूस्यस्य सङ्गात् सहसैव नष्टः ।
परिग्रहः सङ्गकृतो ममाय परिग्रहोत्थाश्व महाविधित्साः ।। ४-२-४८ ।।
 
दुः खं यदेवैकशरीरजन्म शताद्धसङ्खय तदिदं प्रसूतम् ।
परिग्रहेण क्षितिपात्मनजानां सुतैरनेकैर्बहुलीकृतं तत् ।। ४-२-४९ ।।
 
सुतात्मजैस्तत्तनयैश्व भूयो भूयश्व तेषां स्वपरिग्रहेण ।
विस्तारमेष्यत्यतिदुः खहेतुः परिग्रहो वै ममतानिधानम् ।। ४-२-५० ।।
 
चीर्णं तपो यत्त जलाश्रयेण तस्यद्धिंरेषा तपसोऽन्तरायः ।
मतूस्यस्य सङ्गादभवच्च यो मे सुतादिरागो मुषितोऽस्मि तेन ।। ४-२-५१ ।।
 
निः सङ्गता मुक्तिपदं यतीनां सङ्गादशेषाः प्रभवन्ति दोषाः ।
आरूढ़योगाऽपि निपात्यतेऽधः सङ्गने योगी किमुताल्पसिद्धिः ।। ४-२-५२ ।।
 
अहं चरिष्यामि तथात्ममोऽर्थे परिग्रहग्राहगृहीतबुद्धिः ।
यथधा हि भूयः परिहीणादोषो जनस्य दुः खैर्भविता न दुः खी ।। ४-२-५३ ।।
 
सर्व्वस्य धातारमचिन्त्यरूप मणोरणीयांसमतिप्रमाणम् ।
सितासितञ्चे श्वरमीश्वराणा माराधयिष्ये तपसैव विष्णुम् ।। ४-२-५४ ।।
 
तस्मिन्नशेषौजसि सर्व्वरूपिण्यव्यक्तविस्पष्टतनावनन्ते ।
ममाचलं चित्तमपेतदोष सदास्तु विष्णावभवाय भूयः ।। ४-२-५५ ।।
 
समस्तभूतादमलादनन्तात सर्व्वेश्वरादन्यदनादिमध्यात् ।
यस्मान्न किञ्चित् तमहं गुरूणां परं गुरु संश्रयमेमि विष्णुम् ।। ४-२-५६ ।।
 
</poem>