"ऋग्वेदः सूक्तं १.६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९४:
दधानाः । नाम । यज्ञियम् ॥४
 
अत्रास्ति विशेषविनियोगः । चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे ‘ आदह स्वधामनु' इति द्वे ऋचौ । ‘इन्द्रेण सं हि दृक्षसे' इत्येका । अयं तृचः पळहस्तोत्रियसंज्ञकःषळहस्तोत्रियसंज्ञकः । तथा च सूत्रितं ‘ चतुर्विंशे होताजनिष्ट' इति खण्डे-’ इन्द्रेण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे च' (आश्व. श्रौ. ७.२) इति । यद्यप्येतदैन्द्रं सूक्तं तथापि ‘आदह' इत्यादिषु षट्सु मरुतो वर्ण्यन्ते। ‘प्रायेणैन्द्रे मरुतः इति अनुक्रमणिकायामुक्तत्वात् (अनु. २. २२)। आत् इत्ययम् आनन्तर्यार्थो निपातः। अह इत्यवधरणार्थः। “आदह वर्षर्तोरनन्तरमेव । “स्वधामनु। इतः परं जनिष्यमाणमन्नमुदकं वा अनुलक्ष्य मरुतो देवाः "गर्भत्वम् “एरिरे मेघमध्ये जलस्य गर्भाकारं प्रेरितवन्तः। जलस्य कर्तारं पर्जन्यं प्रेरितवन्तः । प्रतिसंवत्सरमेवं कुर्वन्तीति दर्शयितुं पुनःशब्दः प्रयुक्तः। कीदृशा मरुतः । “यज्ञियं यज्ञार्हं "नाम “दधानाः धारयन्तः । सप्तसु गणेषु मरुताम् ‘ईदृङ्चान्यादृङ्च' इत्यादीनि यज्ञयोग्यानि नामानि अन्यत्राम्नातानि । ‘ अन्धः' इत्यादिष्वष्टाविंशतिसंख्याकेष्वन्ननामसु “ ऊर्क् रसः स्वधा' (नि. २. ७. १७ ) इति पठितम् । अर्णः' इत्यादिष्वेकशतसंख्याकेषूदकनामसु ‘तेजः स्वधा अक्षरम्' (नि. १. १२. ९७) इति पठितम् ॥ आदह निपातावाद्युदात्तौ । स्वधाम् । स्वं लोकं दधाति पुष्णातीति स्वधा । आतोऽनुपसर्गे कः ' ( पा. सू. ३. २. ३ )। कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुपुनःशब्दौ निपातावाद्युदात्तौ । गर्भस्य भावो गर्भत्वम् । प्रत्ययस्वरः । एरिरे । अन्तर्भावितण्यर्थात् ‘ईर गतौ ' इत्यस्मात् अनुदात्तेतः परस्य लिटो झस्य इरेच् (पा. सू. ३. ४. ८१ )। चित्त्वादन्तोदात्तः । ‘सह सुपा' (पा. सू. २. १. ४ ) इत्यत्र सुपेति योगविभागात् आङा सह तिङः समासेऽपि ‘ समासस्य ' ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वम् । इजादेश्च गुरुमतोऽनृच्छः ' ( पा. सू. ३. १. ३६ ) इति आम् न भवति मन्त्रत्वात् । अहशब्दयोगात् निघाताभावः, ‘तुपश्यपश्यताहैः पूजयाम्' (पा. सू. ८.१.३९) इति निषेधात् । दधानाः । शानचश्चित्त्वादन्तोदात्तत्वे प्राप्ते ' अभ्यस्तानामादिः ' (पा. सू. ६.१.१८९) इत्याद्युदात्तत्वम् । यज्ञमर्हति यज्ञियम् । ‘ यज्ञर्त्विग्भ्यां घखञौ ' ( पा. सू. ५. १. ७१ ) इति घप्रत्ययः । आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ' ( पा. सू. ७. १. २ ) इति इयादेशः । प्रत्ययस्वरेण इकार उदात्तः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६" इत्यस्माद् प्रतिप्राप्तम्