"पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: २३२ किरातार्जुनीये सन एवंभूते धैर्य इव निषण्ण... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०९:५५, ८ जुलै २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ किरातार्जुनीये सन एवंभूते धैर्य इव निषण्णं स्थितं प्रकृतौ स्वभावे स्थितमपि । निर्विकारमपीत्यर्थः। अत एवालङ्घनीयमनतिक्रमणीयमत एच निवातनिष्कम्पं वाताभावानिश्चलम् । 'निवा- तावाश्रयावातौ' इत्यमरः । आपगापति समुद्रमिव स्थितम् ॥ उपेयुषीं बिभ्रतमन्तकार्ति वधाददूरे पतितस्य दष्ट्रिणः । पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनामिव हृतमध्वरे ॥३८॥ उपेयुषीमिति ॥ पुनश्च । अदूरे समीपे पतितस्य दंष्ट्रिणो वराहस्य । ब्रीह्यादित्वादि- निप्रत्ययः । बधाद्धेतोरुपेयुपी प्राप्तामन्तकस्येव यमस्येव द्युतिस्तां विभ्रतं धारयन्तम् । तथा च द्विजैब्राह्मणैरध्वरे यो । 'यज्ञः सवोऽध्वरो यागः' इत्यमरः । हूतमातं पुरो- ऽग्रे समावेशितः स्थापितः सत्पशुर्यज्ञीयपशुर्यस्य तं पशूनां पति रुद्रामिव स्थितम् ॥ निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा । वनोदयेनेव धनोरुवीरुधा समन्धकारीकतमुत्तमाचलम् ॥ ३९॥ निजेनेति ॥ पुनश्च । निजेन नैसर्गिकेण भूयसा बहुलेन धैर्यमेव गुणस्तेन विजितम- न्येषां गौरवं गाम्भीर्य यस्मिन्कर्मणि तथा गभीरतां दुरवगाहत्वं नीतम् । अत एव धनाः सान्द्रा उरवश्च महत्यो वीरुधो लताश्च यसिंस्तेन धनोरवीरुधा बनोदयेनार- ण्यप्रादुर्भावेन समन्धकारीकृतं दुरवगाहीकृतमुत्तमाचलमिव स्थितम् । समन्ततोऽन्ध- कारो यस्य स इति विग्रहः ॥ महर्षभस्कन्धमनूनकंधरं बेहाच्छिलावप्रघनेन यक्षसा। समुजिहीर्षु जगतीं महाभरां महावराहं महतोऽर्णवादिव ॥ ४०॥ महर्षभेति ॥ महर्षभस्य महावृषभस्य स्कन्ध दव स्कन्धावंसौ यस्य तम् । उपमान- पूर्वपदत्वादुत्तरस्कन्धलोपः । 'ऋषभो वृषभो वृषः' इत्यमरः । 'स्कन्धो भुजशिरों- ऽसोऽस्त्री' इत्यमरः । अनूनकंधरं स्थूलग्रीवम् । 'अथ ग्रीवायां शिरोधिः कंधरेत्यपि' इत्यमरः। बृहच्छिलावनं महाशिलातदं तद्वद्धनेन कठिनेन वक्षसोपलक्षितम् । महाभरा दुष्टैरतिभारवती जगती महीं समुजिहीर्ष दुष्टराजकार्णवात्समुद्धर्तुमिच्छुम् । अत एव महत्तोऽर्णवाजगती समुजिहीर्षमुक्तविशेषणविशिष्टं च महावराहमिव स्थितम् । अर्थ- समय दियमुपमा नश्लेषः । शब्दमात्रसाधम्र्येण तस्य विधानादिति रहस्यम् ॥ हरिन्मणिश्याममुदयविग्रहं प्रकाशमानं परिभूय देहिनः । मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम्॥४१॥ हरिदिति ॥ पुनश्च । हरिन्मणिश्यामं मरकतमणिश्यामलमुग्रविग्रहमुदारमूर्ति दे- हिनः सत्त्वान्परिभूय तिरस्कृत्य प्रकाशमानम् । जलमेवादों मुकुरस्तसिन्नंशुमालिनं १. 'पोत्रिणः' इति पाठः २. 'समावेदित' इति पाठः. ३. 'महच्छिला' इति पाठः, ।