"ब्रह्मपुराणम्/अध्यायः १७" इत्यस्य संस्करणे भेदः

new page

No edit summary
पङ्क्तिः ८:
| notes =

<poem>
'''स्यमन्तकोपाख्यानवर्मनम् '''

'''लोमहर्षण उवाच'''
यत्तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्।
ददावहारयद्‌बभ्रुर्भोजेन शतधन्वना॥ १७.१ ॥

सदा हि प्रार्थयामास सत्यभामामनिन्दिताम्।
अक्रूरोऽन्तरमन्विषयन्मणिं चैव स्यमन्तकम्॥ १७.२ ॥

सत्राजितं ततो हत्वा शतधन्वा महाबलः।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान्॥ १७.३ ॥

अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम्।
समयं कारयाञ्चक्रे नावेद्योऽहं त्वयेत्युत॥ १७.४ ॥

वयमभ्युत्‌प्रपत्‌स्यामः कृष्णेन त्वां प्रधर्षितम्।
ममाद्य द्वारका सर्व्व वसे तिष्ठत्यसंशयम्॥ १७.५ ॥

हते पितरि दुःखार्त्ता सत्यभामा मनस्विनी।
प्रययौ रथमारुह्य नगरं वारणावतम्॥ १७.६ ॥

सत्यभामा तु तद्‌वृत्तं भोजस्य शतधन्वनः।
भर्त्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत्॥ १७.७ ॥

पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम्।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम्॥ १७.८ ॥

ततस्त्वरितमागम्य द्वारकां मधुसूदनः।
पूर्व्वजं हलिनं श्रीमानिदं वचनमब्रवीत्॥ १७.९ ॥

'''श्रीकृष्ण उवाच'''
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना।
स्यमन्तकस्तु मद्गामी तस्य प्रभुरहं विभो॥ १७.१० ॥

तदारोह रथं शीघ्रं भोजं हत्वा महारथम्।
स्यमन्तको महाबाहो अस्माकं स भविष्यति॥ १७.११ ॥

'''लोमहर्षण उवाच॥'''
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः।
शतधन्वा ततोऽक्रूरं सर्व्वतोदिशमैक्षत॥ १७.१२ ॥

संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ।
शक्तोऽपि सापाद्धार्दिक्यमक्रूरो नान्वपद्यत॥ १७.१३ ॥

अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत॥ १७.१४ ॥

विख्याता हृदया नाम शतयोजनगामिनी।
भोजस्य वडवा विप्रा यया शतधन्वानमद्‌र्दयत् ॥ १७.१५ ॥

क्षीणां जवेन हृदयामध्वनः शतयोजने।
दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमद्‌र्दयत्॥ १७.१६ ॥

ततस्तस्या हतायास्तु श्रमात् खेदाच्च भो द्विजाः।
खमुत्पेतुरथ प्राणाः कुष्णो राममथाब्रवीत्॥ १७.१७ ॥

'''श्रीकृष्ण उवाच॥'''
तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया।
पद्‌भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्॥ १७.१८ ॥

पद्‌भ्यामेव ततो गत्वा शतधन्वानमच्युतः।
मिथिलामभितो विप्रा जघान परमास्त्रवित्॥ १७.१९ ॥

स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम्।
निवृत्तं चाब्रवीत् कृष्णं मणिं चदेहीति लाङ्गली॥ १७.२० ॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः।
धिक्‌शब्दपूर्व्वमसकृत् प्रत्युवाच जनाद्‌र्दनम्॥ १७.२१ ॥

'''बलराम उवाच'''
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्।
कृत्यं न मे द्वारकया नत्वया न च वृष्णिभिः॥ १७.२२ ॥

प्रविवेश ततो रामो मिथिलामरिमद्‌र्दनः।
सर्व्वकामैरुपहृतैर्मिथिलेनाभिपूजितः॥ १७.२३ ॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः।
नानारूपान् क्रतून् सर्व्वानाजहार निरर्गलान्॥ १७.२४ ॥

दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशा॥ १७.२५ ॥

अथ रत्नानि चान्यानि धनानि विविधानि च।
षष्टिं वर्षाणि धर्म्मात्मा यज्ञेष्वेव न्ययोजयत्॥ १७.२६ ॥

अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः।
बह्वन्नदक्षिणाः सर्व्वे सर्व्वकामप्रदायिन॥ १७.२७ ॥

अथ दुर्य्योधनो राजा गत्वा स मिथिलां प्रभुः।
गदाशिक्षां ततो दिव्यां बलदेवादवाप्तवान्॥ १७.२८ ॥

सप्प्रसाद्य ततो रामो वृष्णयन्धकमहार्थैः।
आनीतो द्वारकामेव कृष्णेन च महात्मना॥ १७.२९ ॥

अक्रूरश्चान्धकैः सार्द्धमायातः पुरुषर्षभः।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः॥ १७.३० ॥

ज्ञातिभेदभयात्कृषणस्तमुपेक्षितवांस्तदा।
अपयाते तदाक्रूरे नावर्षत्पाकशासनः॥ १७.३१ ॥

अनावृष्ट्या तदा राष्ट्रमभवद्बहुधा कृशम्।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः॥ १७.३२ ॥

पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः।
प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा॥ १७.३३ ॥

कन्यां च वासुदेवाय स्वसारं शीलसम्मताम्।
अक्रूरः प्रददौ धीमान् प्रीत्यर्थ मुनिसत्तमाः॥ १७.३४ ॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्।
सभामध्यगतः प्राह तमक्रूरं जनद्‌र्दनः॥ १७.३५ ॥

'''श्रीकृष्ण उवाच'''
यत्तद्रत्नं मणिवरं तव हस्तगतं विभो।
तत्प्रयच्छ च मानार्ह मयि मानार्य्यकं कृथाः॥ १७.३६ ॥

षष्टिवर्षगते काले यो रोषोऽभून्ममानघ।
स संरुढोऽसकृत् प्राप्तस्ततः कालात्ययो महान्॥ १७.३७ ॥

स ततः कृष्णवचनात् सर्व्वसात्तवतसंसदि।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः॥ १७.३८ ॥

ततस्तमार्जवात् प्राप्तं बभ्रोर्हस्तादरिन्दमः।
ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः॥ १७.३९ ॥

स कृष्णहस्तान् सम्प्राप्तं मणिरत्नं स्यमन्तकम्।
आबध्य गान्दिनीपुत्रो विरराजशुंमानिव॥ १७.४० ॥

इति श्रब्राह्मे महापुराणे सोमवंशकथनं नाम सप्तदशोऽध्यायः॥ १७ ॥

</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१७" इत्यस्माद् प्रतिप्राप्तम्