"ब्रह्मपुराणम्/अध्यायः २३" इत्यस्य संस्करणे भेदः

new page

No edit summary
पङ्क्तिः ८:
| notes =

<poem>
'''तत्रादौ भूर्भुवःस्वरादिवर्णनम् '''

'''मुनय ऊचुः '''
कथितं भवता सर्व्वमस्माकं सकलं तथा।
भुवर्लोकादिकाँल्लोकान् श्रोतुमिच्छामहे वयम्॥ २३.१ ॥

तथैव ग्रहसंस्थानं प्रमाणानि यता तथा।
समाचक्ष्व महाभाग यथावल्लोमहर्षणः॥ २३.२ ॥

'''लोमहर्षण उवाच '''
रविचन्द्रमसोर्यावन्मयूखैरवभास्यते।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता॥ २३.३ ॥

यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला।
नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम्॥ २३.४ ॥

भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम्।
लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम्॥ २३.५ ॥

पूर्णे शतसहस्रे तु योजनानां निशाकरात्।
नक्षत्रमण्डलं कृत्‌स्नमुपरिष्टात् प्रकाशते॥ २३.६ ॥

द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात्।
तावत् प्रमाणभागे तु बुधस्याप्युशना स्थितः॥ २३.७ ॥

अङ्गारकोऽपि शुक्रस्य तत्‌प्रमाणे व्यवस्थितः।
लक्षद्वियेन भौमस्य स्थितो देवपुरोहितः॥ २३.८ ॥

सौरिर्बृहस्पतेरूद्‌र्ध्वं द्विलक्षे समवस्थितः।
सप्तर्षिमण्डलं तस्माल्ल्क्षमेकं द्विजोत्तमाः॥ २३.९ ॥

ऋषिभ्यस्तु सहस्राणां शतदूद्‌र्ध्वं व्यवस्थितः।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः॥ २३.१० ॥

त्रैलोक्यमेतत् कथितं संक्षोपेण द्विजोत्तमाः।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता॥ २३.११ ॥

ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः।
एकयोजनकोटी तु महर्लोको विधोयते॥ २३.१२ ॥

द्वे कोट्यौ तु जनो लोको यत्र ब्रह्मणः सुताः।
सनन्दनाद्याः कथिता विप्राश्चामलचेतसः॥ २३.१३ ॥

चतुर्गुणोत्तरं चोद्‌र्ध्वं जनलोकात्तपः स्मृतम्।
वैराजा यत्र ते दवाः स्थिता देहविवर्ज्जिताः॥ २३.१४ ॥

षड्गुणेन तपोलोकात् सत्यलोको विराजते।
अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम्॥ २३.१५ ॥

पादगम्यं तु यत् किञ्चिवद्वस्त्वस्ति पृथिवीमयम्।
सभूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः॥ २३.१६ ॥

भूमिसूर्य्यन्तरं यत्तु सिद्धादिमुनिसेवितम्।
भूवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमाः॥ २३.१७ ॥

ध्रुवसूर्य्यान्तरं यत्तु नियुतानि चतुर्द्दश।
स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः॥ २३.१८ ॥

त्रैलोक्यमेतत् कृतकं विप्रैश्च परिपठ्यते।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्॥ २३.१९ ॥

कृतकाकृतको मध्ये महर्लोक इति स्मृतः।
शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति॥ २३.२० ॥

एते सप्त महालोका मया वः कथिता द्विजाः।
पातालानि च स्पैतव ब्रह्माण्डस्यैष विस्तरः॥ २३.२१ ॥

एतदण्डकटाहेन तिर्य्यगूर्द्ध्वमधस्तथा।
कपित्थस्य यथा बीजं सर्व्वतो वै समावृतम्॥ २३.२२ ॥

दशोत्तरेण पयसा द्विजाश्चाण्डञ्च तद्वृतम्।
स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः॥ २३.२३ ॥

वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः।
आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः॥ २३.२४ ॥

दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै।
महान्तञ्च समावृत्य प्रधानं समवस्थितम्॥ २३.२५ ॥

अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते।
तदनन्तमसंख्यातं प्रमाणेनापि वै यतः॥ २३.२६ ॥

हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः।
अण्डानान्तु सहस्राणां सहस्राण्ययुतानि च॥ २३.२७ ॥

ईदृशानां तथा तत्र कोटिकोटिशतानि च।
दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमानिह॥ २३.२८ ॥

प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः।
प्रधानञ्च पुमांश्चैव सर्व्वभूतानुभूतया॥ २३.२९ ॥

विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्म्मिणौ।
तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३० ॥

क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः।
यथा शैत्यं वातो बिभार्त्ति कणिकागतम्॥ २३.३१ ॥

जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम्।
यथा च पादपो मूलस्कन्धशाखादिसंयुतः॥ २३.३२ ॥

आद्यबीजात् प्रभवति बीजान्यन्यानि वै ततः।
प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः॥ २३.३३ ॥

तेऽपि तल्लक्षणद्रव्यकारणानुगता द्विजाः।
एवमव्याकृतात् पूर्व्व जायन्ये महदादयः २३.३४ ॥

विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः।
तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः॥ २३.३५ ॥

वीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः।
भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा॥ २३.३६ ॥

सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः।
तथैवापरिणामेन विश्वस्य भगवान् हरिः॥ २३.३७ ॥

व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा।
काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः॥। २३.३८ ॥

तुषाः पणाश्च सन्तो वै यान्त्याविर्बावमात्मनः।
प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः॥ २३.३९ ॥

तथा कर्म्मस्वनेकेषु देवाद्यास्तनवः स्थिताः।
विष्णुशवितं समासाद्य प्ररोहमुपयान्ति वै॥ २३.४० ॥

स च विष्णुः परं ब्रह्म यतः सर्व्वमिदं जगत्।
जगच्च यो यत्र चेदं यस्मिन्विलयमेष्यति॥ २३.४१ ॥

तद्ब्रह्म परमं धाम सदसत् परमं पदम्।
यस्य सर्व्वमभेदेन जगदेतच्चराचतरम्॥ २३.४२ ॥

स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः।
तस्मिन्नेव लयं सर्व्वं याति तत्र च तिष्ठति॥ २३.४३ ॥

कर्त्ता क्रियाणां च स इज्यते क्रतुः, स एव तत् कर्म्मफलञ्च तस्य यत्।
युगादि यसामाच्च भवेदशेषतोहरेर्न किञ्चिद्व्यतिरिवतमस्ति तत्॥ २३.४४ ॥

इति श्रीब्राह्मे महापुराणे भूर्भुवःस्वरादिकीर्त्तनं नाम त्रयोविंशोऽध्यायः॥ २३ ॥

</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२३" इत्यस्माद् प्रतिप्राप्तम्