"ब्रह्मपुराणम्/अध्यायः ७३" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथ त्रिसप्ततितमोऽध्यायः'''
'''बलिप्रशंसावर्णनम्'''
'''नारद उवाच'''
कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी।
यथा मर्त्यं गता नाथ तन्मे विस्तरतो वद।। ७३.१ ।।
 
बलिर्नाम महादैत्यो देवारिरपराजितः।
धर्मेण यशसा चैव प्रजासंरक्षणेन च।। ७३.२ ।।
 
गुरुभक्त्या च सत्येन वीर्येण च बलेन च।
त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते।। ७३.३ ।।
 
तस्यर्द्धिमुन्नतां दृष्ट्वा देवाश्चिन्तापरायणाः।
मिथः समूचुरमरा जेष्यामो वै कथं बलिम्।। ७३.४ ।।
 
तस्मिञ्शासति राज्यं तु त्रैलोक्यं हतकण्कम्।
नारयो व्याधयो वाऽपि नाऽऽधयो वा कथंचन।। ७३.५ ।।
 
अनावृष्टिरधर्मो वा नास्तिशब्दो न दुर्जनः।
स्वप्नेऽपि नैव दृश्येत बलौ राज्यं प्रशासति।। ७३.६ ।।
 
तस्योन्तिशरैर्भग्नाः कीर्तिखड्गद्विधाकृताः।
तस्याऽऽज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे।। ७३.७ ।।
 
ततः संमन्त्रयामासुः कृत्वा मात्सर्यमग्रतः।
तद्यशोग्निप्रदीप्ताङ्ग विष्णुं जग्मुः सुविह्वलाः।। ७३.८ ।।
 
देवा ऊचुः
आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर।
अस्मदर्थे भवान्नित्यमायुधामनि बिभर्ति च।। ७३.९ ।।
 
त्वयि नाथे जगन्नाथ अस्माकं दुःखमीदृशम्।
त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति।। ७३.१० ।।
 
मनसा कर्मणा वाचा त्वामेव शरणं गताः।
त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि।। ७३.११ ।।
 
यजामस्त्वां महायज्ञैर्वदामो वाग्भिरच्युत।
त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि।। ७३.१२ ।।
 
त्वद्वीर्यमाश्रिता नित्यं देवाः सेन्द्रपुरोगमाः।
त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि।। ७३.१३ ।।
 
स्त्रष्टा त्वं ब्रह्ममुर्त्या तु विष्णुर्भूत्वा तु रक्षसि।
संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि।। ७३.१४ ।।
 
ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम्।
हतैश्वर्याः सुरैशान कथं दैत्यं नमेमहि।। ७३.१५ ।।
 
अनादिस्त्वं जगद्धातरनन्तस्त्व जगद्गुरुः।
अन्तवन्तममुं शत्रुं कथं दैत्यं नमेमहि।। ७३.१६ ।।
 
तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यमोजसा।
स्थिराः स्याम सुरेशान कथं दैत्यं नमेमहि।। ७३.१७ ।।
 
ब्रह्मोवाच
इत्येतदेव वचनं श्रुत्वा दैतेयसूदनः।
उवाच सर्वानमरान्देवानां कार्यसिद्धये।। ७३.१८ ।।
 
श्रीभगवानुवाच
मद्भक्तोऽसौ बलिर्दैत्यो ह्यवध्योऽसौ सुरासुरैः।
यथा भवन्तो मत्पोष्यास्तथा पोष्यो बलिर्मम।। ७३.१९ ।।
 
विना तु संगरं हत्वा राज्यं त्रिविष्टपे।
बलिं निबन्ध मन्त्रोक्त्या राज्यं वः प्रददाम्यहम्।। ७३.२० ।।
 
ब्रह्मोवाच
तथेत्युकत्वा सुरगणाः संजग्मुर्दिवमेव हि।
भगवानपि देवेशो ह्यदित्या गर्भमाविशत्।। ७३.२१ ।।
 
तस्मिन्नुत्पद्यमाने तु उत्सवाश्च बभूविरे।
जातोऽसौ वामनो ब्रह्मन्यज्ञेशो यज्ञपूरुषः।। ७३.२२ ।।
 
एतस्मिन्नन्तरे ब्रह्मन्हयमेधाय दीक्षितः।
बलिर्बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः।। ७३.२३ ।।
 
पुरोधसा च शुक्रेण वेदवेदाङगवेदिना।
मखे तस्मिन्वर्तमाने यजमाने बलौ तथा।। ७३.२४ ।।
 
आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि।
हविर्भागार्थमासन्नदेवगन्धर्वपन्नगे।। ७३.२५ ।।
 
दीयतां भुज्यतां पूजा क्रियतां च पृथक्पृथक्।
परिपूर्णं पुनः पूर्णमेवं वाक्ये प्रवर्तति।। ७३.२६ ।।
 
शनैस्तद्देशमभ्यागाद्वामनः सामगायनः।
यज्ञवाटमनुप्राप्तो वामनश्चित्रकुण्डलः।। ७३.२७ ।।
 
प्रशंसमानस्तं यज्ञं वामनं प्रेक्ष्य भार्गवः।
ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम्।। ७३.२८ ।।
 
दातारं यज्ञतपसां फलं हन्तारं रक्षसाम्।
ज्ञात्वा त्वरन्नथोवाच राजानं भूरितेजसम्।। ७३.२९ ।।
 
जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम्।
बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे।। ७३.३० ।।
 
ध्यायन्तं यज्ञपुरुषमुत्सृजन्तं हविः पृथक्।
तमाह भृगुशार्दूलः शुक्रः परमबुद्धिमान।। ७३.३१ ।।
 
शुक्र उवाच
योऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः।
नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः।। ७३.३२ ।।
 
सिशुस्त्वां याचितुं प्राप्तो नूनं देवहिताय हि।
मया च सह संमन्त्र्य पश्चाद्देयं द्वया प्रभो।। ७३.३३ ।।
 
ब्रह्मोवाच
बलिस्तु भार्गवं प्राह पुरोधसमरिंदमः।। ७३.३४ ।।
 
बलिरुवाच
धन्योऽहं मम यज्ञेशो गृहमायाति मूर्तिमान्।
आगत्य याचते किंचित्किं मन्त्र्यमवशिष्यते।। ७३.३५ ।।
 
ब्रह्मोवाच
एवमुक्त्वा सभार्योऽसो शुक्रेण च पुरोधसा।
जगाम यत्र विप्रेन्द्रो वामनोऽदितिनन्दनः।। ७३.३६ ।।
 
कृताञ्जलिपुटो भूत्वा केनार्थित्वं तदुच्यताम्।
वामनोऽपि तदा प्राह पदत्रयमितां भुवम्।। ७३.३७ ।।
 
देहि राजेन्द्र नान्येन कार्यमस्ति धनेन किम्।
तथेत्युक्त्वा तु कलशान्नानारत्नविभूषितात्।। ७३.३८ ।।
 
वारिधारां पुरस्कृत्य वामनाय भुवं ददौ।
पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि।। ७३.३९ ।।
 
पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ।
पश्यत्सु दैत्यसंधेषु जयशब्दे प्रवर्तति।। ७३.४० ।।
 
सनैस्तु वामनः प्राह स्वस्ति राजन्सुखी भव।
देहि मे संमितां भूमिं त्रिपदामाशु गम्यते।। ७३.४१ ।।
 
तथेत्युवाच दैत्येशो यावत्पश्यति वामनम्।
यज्ञेशो यज्ञपुरुषश्चन्द्रादित्यौ स्तनान्तरे।। ७३.४२ ।।
 
यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः।
अनन्तश्चाच्युतो देवो विक्रान्तो विक्रमाकृतिः।।
तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः।। ७३.४३ ।।
 
बलिरुवाच
क्रमस्व विष्णो लोकेश यावच्छक्त्या(क्ति)जगन्मय।
जितं मया सुरेशान सर्वभावेन विश्वकृत्।। ७३.४४ ।।
 
ब्रह्मोवाच
तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः।। ७३.४५ ।।
 
विष्णुरुवाच
दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट्।। ७३.४६ ।।
 
ब्रह्मोवाच
एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः।। ७३.४७ ।।
 
ब्रह्मोवाच
कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत्।
द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम्।। ७३.४८ ।।
 
तृतीयस्य पदस्यात्र स्थानं नास्त्यसुरेश्वर।
क्व क्रमिष्ये भुवं देहि बलिं तं हरिरब्रवीत्।।
विहस्य बलिरप्याह सभार्यः स कृताञ्जलिः।। ७३.४९ ।।
 
बलिरुवाच
त्वया सृष्टं जगत्सर्वं न स्रष्टाऽहं सुरेश्वर।
त्वद्देषाटल्पमभर्वात्क करोमि जगन्मय।। ७३.५० ।।
 
तथाऽपि नानृतपूर्वं कदाचिद्वच्मि केशव।
सत्यवाक्यं च मां कुर्वन्मत्पृष्ठे हि पदं न्यस।। ७३.५१ ।।
 
ब्रह्मोवाच
ततः प्रसन्नो भगवांस्त्रयीमूर्तिः सुरार्चितः।। ७३.५२ ।।
 
भगवानुवाच
वरं वृणीष्व भद्रं ते भक्त्या प्रीतोऽस्मि दैत्यराट्।। ७३.५३ ।।
 
ब्रह्मोवाच
स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम्।
स तु प्रादात्स्वयं विष्णुः प्रीतः सन्मनसेप्सितम्।। ७३.५४ ।।
 
रसातलपतित्वं च भावि चेन्द्रपदं पुनः।
आत्माधिपत्यं च हरिरविनाशि यशो विभुः।। ७३.५५ ।।
 
एवं दत्त्वा बलेः सर्वं ससुतं भार्ययाऽन्वितम्।
रसातले हरिः स्थाप्य बलिं त्वमरवैरिणम्।। ७३.५६ ।।
 
सतक्रतोस्तथा प्रादात्सुरराज्यं यथाभवम्।
एतस्मिन्नन्तरे तत्र पदं प्रागात्सुरार्चितम्।। ७३.५७ ।।
 
द्वितीयं तत्पदं विष्णोः पितुर्मम महामते।
यत्पदं समनुप्राप्तं गृहं दृष्ट्वाऽप्यचिन्तयम्।। ७३.५८ ।।
 
किं कृत्यं यच्छुभं मे स्यात्पदे विष्णोः समागते।
सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात्कमण्डलुः।। ७३.५९ ।।
 
तद्वारि यत्पुण्यतमं दत्तं च त्रिपुरारिणा।
वरं वरेण्यं वरदं वरं शान्तिकरं परम्।। ७३.६० ।।
 
शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम्।
मातृस्वरूपं लोकानाममृतं भेषजं शुचि।। ७३.६१ ।।
 
पवित्रं पावनं पूज्य ज्येष्ठं गुणान्वितम्।
स्मरणादेव लोकानां पावनं किं नु दर्शनात्।। ७३.६२ ।।
 
तादृग्वारि शुचिर्भूत्वा कल्पयेऽर्घाय मे पितुः।
इति संचिन्त्य तद्वारि गृहीत्वाऽर्घाय कल्पितम्।। ७३.६३ ।।
 
विष्णोः पादे तु पतितमर्घवारि सुमन्त्रितम्।
तद्वारि पतितं मेरौ चतुर्धा व्यागमद्भुवम्।। ७३.६४ ।।
 
पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा।
दक्षिणे पतितं यत्तु जटाभिः शंकरो मुने।। ७३.६५ ।।
 
जग्राह पश्चिमे यत्तु पुनः प्रायात्कमण्डलुम्।
उत्तरे यत्तु पतितं विष्णुर्जग्राह तज्जलम्।। ७३.६६ ।।
 
पूर्वस्मिन्नृषयो देवा पितरो लोकपालकाः।
जगृहुः शुभदं वारि तस्माच्छ्रेष्ठं तदुच्यते।। ७३.६७ ।।
 
या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः।
विष्णुपादप्रसूतास्ता ब्रह्मण्या लोकमातरः।। ७३.६८ ।।
 
महेश्वरजटासंस्था पर्वजातशुभोदयाः।
तासां प्रभावस्मरणात्सर्वकामानवाप्नुयात्।। ७३.६९ ।।
 
इति श्रीमहापुराणे ब्राह्मो स्वयंभ्वृषिसंवादे तीर्थमाहात्म्ये गंगाया महेश्वरजटागमननिरूपणं नाम त्रिसप्ततिमोऽध्यायः।। ७३ ।।
 
गौतमोमाहात्म्ये चतुर्थोऽध्यायः।। ४ ।।
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_७३" इत्यस्माद् प्रतिप्राप्तम्