"ब्रह्मपुराणम्/अध्यायः २२९" इत्यस्य संस्करणे भेदः

new page

No edit summary
पङ्क्तिः ८:
| notes =

<poem>
'''व्यासमुनिसंवादे विष्णुभक्तिहेतुकथनम्

'''मुनय ऊचुः
</poem>
श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे।
कृष्णस्य येन चाण्डालो गतोऽसौ परमां गतिम्।। २२९.१ ।।

यथा विष्णौ भवेद्‌भक्तिस्तन्नो ब्रूहि महामते।
तपसा कर्मणा येन श्रोतुमिच्छामि सांप्रतम्।। २२९.२ ।।

'''व्यास उवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः।
यथा कृष्णे भवेद्‌भक्तिः पुरुषस्य महाफला।। २२९.३ ।।

संसारेऽस्मिन्महाघोरे सर्वभूतभयावहे।
महामोहकरे नॄणां नानादुः खशताकुले।। २२९.४ ।।

तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः।
कथंचिल्लभते जन्म देही मानुष्यकं द्विजाः।। २२९.५ ।।

मानुषत्वेऽपि विप्रत्वं विप्रत्वेऽपि विवेकिता।
विवेकाद्धर्मबुद्धिस्तु बुद्ध्या तु श्रेयसां ग्रहः।। २२९.६ ।।

यावत्पापक्षयं पुंसां न भवेज्जन्मसंचितम्।
तावन्न जायते भक्तिर्वासुदेवे जगन्मये।। २२९.७ ।।

तस्माद्वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत्।
अन्यदेवेषु या भक्तिः पुरुषस्येह जायते।। २२९.८ ।।

कर्मणा मनसा वाचा तद्‌गतेनान्तरात्मना।
तेन तस्य भवेद्‌भक्तिर्यजने मुनिसत्तमाः।। २२९.९ ।।

स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः।
तुष्टे हुताशने तस्य भक्तिर्भवति भास्करे।। २२९.१० ।।

पूजां करोति सततमादित्यस्य ततो द्विजाः।
प्रसन्ने भास्करे तस्य भक्तिर्भवति शंकरे।। २२९.११ ।।

पूजां करोति विधिवत्स तु शंभोः प्रयत्नतः।
तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे।। २२९.१२ ।।

संपूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम्।
ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः।। २२९.१३ ।।

'''मुनय ऊचुः
अवैष्णवा नरा ये तु दृश्यन्ते च महामुने।
किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज।। २२९.१४ ।।

'''व्यास उवाच
द्वौ भूतसर्गौ विख्यातौ लोकेऽस्मिन्मुनिसकत्तमाः।
आसुरश्च तथा दैवः पुरा सृष्टः स्वयंभुवा।। २२९.१५ ।।

दैवीं प्रकृतिमासाद्य पूजयन्ति ततोऽच्युतम्।
आसुरीं योनिमापन्ना दूषयन्ति नरा हरिम्।। २२९.१६ ।।

मायया हतविज्ञाना विष्णोस्ते तु नराधमाः।
अप्राप्य तं हरिं विप्रास्ततो यान्त्यधमां गतिम्।। २२९.१७ ।।

तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः।
महामोहकरी नृणां दुस्तरा चाकृतात्मभिः।। २२९.१८ ।।

'''मुनय ऊचुः
इच्छामस्तां महामायां ज्ञातुं विष्णोः सुदुस्तराम्।
वक्तुमर्हसि धर्मज्ञ परं कौतूहलं हि नः।। २२९.१९ ।।

'''व्यास उवाच
स्वप्नेन्द्रजालसंकाशा माया सा लोककर्षणी।
कः शक्नोति हरेर्मायां ज्ञातुं तां केशवादृते।। २२९.२० ।।

या वृत्ता ब्राह्मणस्याऽऽसीन्मायार्थे नारदस्य च।
विडम्बनां तु तां विप्राः श्रृणुध्वं गदतो मम।। २२९.२१ ।।

प्रागासीन्नृपतिः श्रीमानाग्नीध्र इति विश्रुतः।
नगरे कामदमनस्तस्याथ तन्यः शुचिः।। २२९.२२ ।।

धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः।
प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः।। २२९.२३ ।।

पिताऽस्य त्वकरोद्यत्नं विवाहाय न चैच्छत।
तं पिता प्राह किमिति नेच्छसे दारसंग्रहम्।। २२९.२४ ।।

सर्वमेतत्सुखार्थं हि वाञ्छन्ति मनुजाः किल।
सुखमूला हि दाराश्च तस्मात्तं त्वं समाचर।। २२९.२५ ।।

स पितुर्वचनं श्रुत्वा तूष्णीमास्ते च गौरवात्।
मुहुर्महुस्तं च पिता चोदयामास भो द्विजाः।। २२९.२६ ।।

अथासौ पितरं प्राह तात नामानुरूपता।
मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी।। २२९.२७ ।।

तं पिता प्राह संगम्य नैष धर्मोऽस्ति पुत्रक।
न विधारयितव्या स्यात्पुरुषेण विपश्चिता।। २२९.२८ ।।

कुरु मद्वचनं पुत्र प्रभुरस्मि पिता तव।
मा निमज्ज कुलं मह्यं नरके संततिक्षयात्।। २२९.२९ ।।

स हि तं पितुरादेसं श्रुत्वा प्राह सुतो वशी।
प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम्।। २२९.३० ।।

'''पुत्र उवाच
श्रृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम्।
नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव।। २२९.३१ ।।

मया जन्मसहस्राणि जरामृत्युशतानि च।
प्राप्तानि दारसंयोगवियोगानि च सर्वशः।। २२९.३२ ।।

तृणगुल्मलतावल्लीसरीसृपमृगद्विजाः।
पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया।। २२९.३३ ।।

गणकिंनरगन्धर्वविद्याधरमहोरगाः।
यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः।। २२९.३४ ।।

नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः।
सृष्टस्तु बहुशः सृष्टौ संहारे चापि संहृतः।। २२९.३५ ।।

दारसंयोगयुक्तस्य तातेदृङ्मे विडम्बना।
इतस्तृतीये यद्वृत्तं मम जन्मनि तच्छृणु।।
कथयामि समासेन तीर्थमाहात्म्यसंभवम्।। २२९.३६ ।।

अतीत्य जन्मानि बहूनि तात, नृदेवगन्धर्वमहोरगाणाम्।
विद्याधराणां खरगकिंनराणां, जातो हि वंशे सुतपा महर्षिः।। २२९.३७ ।।

ततो महाभूदचला हि भक्तिर्जनार्दने लोकपतौ मधुघ्ने।
व्रतोपवासैर्विविधैश्च भक्त्या, संतोषतश्चक्रगदास्त्रधारी।। २२९.३८ ।।

दुष्टोऽभ्यगात्पक्षिपतिं महात्मा, विष्णुः समारुह्य वरप्रदो मे।
प्राहोच्छशब्दं व्रियतां द्विजाते, वरो हि यं वाञ्छसि तं प्रदास्ये।। २२९.३९ ।।

ततोऽहमूचे हरिमीशितारं, तुष्टोऽसि चेत्केशव तद्‌वृणोमि।
या सा त्वदीया परमा हि माया, तां वेत्तुमिच्छामि जनार्दनोऽहम्।। २२९.४० ।।

अथाब्रवीन्मे मधुकैटभारिः, किं ते तया ब्रह्मन्मायया वै।
धर्मार्थकामानि ददानि तुभ्यं, पुत्राणि मुख्यानि निरामयत्वम्।। २२९.४१ ।।

ततो मुरारिं पुनरुक्तवानहं, भूयोऽर्थधर्माजिगीषितैव यत्।
माया तवेमामिह वेत्तुमिच्छे, ममाद्य तां दर्शय पुष्कराक्ष।। २२९.४२ ।।

ततोऽभ्युवाचाथ नृसिंहमुख्यः, श्रीशः प्रभुर्विष्णुरिदं वचो मे।।
'''विष्णुरुवाच
मायां मदीयां न हि वेत्ति कश्चिन्न चापि वा वेत्स्यति कश्चिदेव।। २२९.४३ ।।

पूर्वं सुरर्षिर्द्विज नारदाख्यो, ब्रह्मात्मजोऽभून्मम भक्तियुक्तः।
तेनापि पूर्वं भवता यथैव, संतोषितो भक्तिमता हि तद्वत्।। २२९.४४ ।।

वरं च दत्तं(दातुं)गतवानहं च, स चापि वव्रे वरमेतदेव।
निवारितो मामतिमूढभावाद्‌भवान्यथैवं वृतवान्वरं च।। २२९.४५ ।।

ततो मयोक्तोऽम्भसि नारदोऽसौ, मायां हि मे वेत्स्यसि संनिमग्नः।
ततो निमग्नोऽम्भसि नारदोऽसौ, कन्या बभौ काशिपतेः सुशीला।। २२९.४६ ।।

तां यौवनाढ्यामाथ चारुधर्मिणे, विदर्भराज्ञस्तनयाया वै ददौ।
स्व(सु)धर्मणे सोऽपि तया समेतःष सिषेव कामानतुलान्महर्षिः।। २२९.४७ ।।

स्वर्गे गतेऽसौ पितरि प्रतापवान्राज्यं क्रमायातमवाप्य हृष्टः।
विदर्भराष्ट्रं परिपालयानः, पुत्रैः सपौत्रेर्बहुभिर्वृतोऽभूत्।। २२९.४८ ।
अथाभवद्‌भूमिपतेः सुधर्मणः, काशीश्वरेणाथ समं सुयुद्धम्।
तत्र क्षयं प्राप्य(प)सपुत्रपौत्रं, विदर्भराट्‌काशिपतिश्च युद्धे।। २२९.४९ ।।

ततः सुशीला पितरं सपुत्रं, ज्ञात्वा पतिं चापि सपुत्रपौत्रम्।
पुराद्विनिःसृत्य रणावनिं गता, दृष्ट्वा सुशीला कदनं महान्तम्।। २२९.५० ।।

भर्तुर्बले तत्र पितुर्बले च, दुःखान्विता सा सुचिरं विलप्य।
जगाम सा मातरमार्तरूपा, भ्रातॄन्सुतान्भातृसुतान्सपौत्रान्।। २२९.५१ ।।

भर्तारमेष पितरं च गृह्य, महाश्मशाने च महाचितिं सा।
कृत्वा हुताशं प्रददौ स्वयं च, यदा समिद्धो हुतभुग्बभूव।। २२९.५२ ।।

तदा सुशीला प्रविवेश वेगाद्वा पुत्र हा पुत्र इति ब्रुवाणा।
तदा पुनः सा मुनिर्नारदोऽभूत्, स चापि वह्निः स्फटिकामलाभः।। २२९.५३ ।।

पूर्णं सरोऽभूदथ चोत्ततार, तस्याग्रतो देववरस्तु केशवः।
कस्ते तु पुत्रो वद मे महर्षे, मृतं च कं शोचसि नष्टबुद्धिः।
व्रडान्वितोऽभूदथ नारदोऽसौ, ततोऽहमेनं पुनरेव चाऽऽह।। २२९.५५ ।।

इतदृशा नारद कष्टरूपा, माया मदीया कमलासनाद्यैः।
शक्या न वेत्तुं समहेन्द्ररुद्रैः, कथं भवान्वेत्स्यति दुर्विभाव्याम्।। २२९.५६ ।।

स वाक्यमाकर्ण्य महामहर्षिरुवाच भक्तिं मम देहि विष्णो।
प्राप्तेऽथ काले स्मरणं तथैव, सदा च संदर्शनमीश तेऽस्तु।। २२९.५७ ।।

यत्राहमार्तश्चितिमद्य रूढस्तत्तीर्थमस्त्वच्युतपापहन्त्रा।
अधिष्ठितं केशव नित्यमेव, त्वया सहाऽऽसं(हेदं)कमलोद्भवेन।। २२९.५८ ।।

ततो मयोक्तो द्विज नारदोऽसौ, तीर्थं सितोदे(दं)हि चितिस्तवास्तु।
स्थास्याम्यहं चात्र सदैव विष्णुर्महेश्वरः स्थास्यति चोत्तरेण।। २२९.५९ ।।

नदा विरञ्चेर्वदनं त्रिनेत्रः स च्छेत्स्यतेयं च ममु(त्वथ चो)ग्रवाचम्।
तदा कपालस्य तु मोचनाय, समेष्यते तीर्थमिदं त्वदीयम्।। २२९.६० ।।

स्नातस्य तीर्थं त्रिपुरान्तकस्य, पतिष्यते भूमितले कपालम्।
ततस्तु तीर्थेति कपालमोचनं, ख्यातं पृथिव्यां च भविष्यते तत्।। २२९.६१ ।।

तदा प्रभृत्यम्बुदवाहनोऽसौ, न मोक्ष्यते तीर्थवरं सुपुण्यम्।
न चैव तस्मिन्द्विज संप्रचक्षते, तत्क्षेत्रमुग्रं त्वथ ब्रह्मवध्या।। २२९.६२ ।।

यदा न मोक्षत्यमरारिहन्ता, तत्क्षेत्रमुख्यं महादाप्तपुण्यम्।
तदा विमुक्तेति सुरै रहस्यं, तीर्थं स्तुतं पुण्यदमव्ययाख्यम्।। २२९.६३ ।।

कृत्वा तु पापानि नरो महान्ति, तस्मिन्प्रविष्टः शुचिरप्रमादी।
यदा तु मां चिन्तयते स शुद्धः, प्रयाति मोक्षं भगवत्प्रसादात्।। २२९.६४ ।।

भूत्वा तस्मिन्नुद्रपिशाचसंज्ञो योन्यन्तरे दुःखमुपाश्नुतेऽसौ।
विमुक्तपापो बहुवर्षपूगैरुत्पत्तिमायास्याति विप्रगेहे।। २२९.६५ ।।

शुचिर्यतात्माऽस्य ततोऽन्तकाले, रुद्रो हितं तारकमस्य कीर्तयेत्।
इत्येवमुक्त्वा द्विजवर्यं नारदं, गतोऽस्मि दुग्धार्णवमात्मगेहम्।। २२९.६६ ।।

स चापि विप्रस्त्रिदिवं चचार, गनधर्वराजेन समर्च्यमानः।
एतत्तवोक्तं ननु बोधनाय माया मदीया नहि शक्ये सा।। २२९.६७ ।।

ज्ञातुं भवानिच्छति चेत्ततोऽद्य, एवं विशस्वाप्सु च वेत्सि येन।
एवं द्विजातिर्हरिणा प्रबोधितो, भाव्यर्थयोगान्निममज्ज तोये।। २२९.६८ ।।

कोकामुके तात ततो हि कन्या, चाण्डालवेश्मन्यभवद्‌द्विजः सः।
रूपान्विता शीलगुणोपपन्ना, अवाप सा यौवनमाससाद। २२९.६९
चाण्डालपुत्रेण सुबाहुनाऽपि, विवाहिता रूपविवर्जितेन।
पतिर्न तस्या हि मतो बभूव सा तस्य चैवाभिमता बभूव।। २२९.७० ।।

पुत्रद्वयं नेत्रहीनं बभूव, कन्या च पश्चाद्‌बधिरा तथाऽन्या।
पतिर्दरिद्रस्त्वथ साऽपि मुग्धा, नदीगता रोदिति तत्र नित्यम्।। २२९.७१ ।।

गता कदाचित्कलशं गृहीत्वा, साऽन्तर्जलं स्नातुमथ प्रविष्टा।
यावद्‌द्विजोऽसौ पुनरेव तावज्जातः क्रियायोगरतः सुशीलः।। २२९.७२ ।।

तस्याः स भर्ताऽथ चिरं गतेति, द्रष्टुं जगामाथ नदीं सुपुण्याम्।
ददर्श कुम्भं न च तां तटस्थां, ततोऽतिदुःखात्प्ररुरोद नादयन्।। २२९.७३ ।।

ततोऽन्धयुग्मं बधिरा च कन्या, दुःखान्विताऽसौ समुपाजगाम।
ते वै रुदन्तं पितरं च दृष्ट्वा, दुःखान्विता वै रुरुदुर्भृशार्ताः।। २२९.७४ ।।

ततः स पप्रच्छ नदीतटस्थान्द्विजान्भवद्‌भिर्यदि योषिदेका।
दृष्टा तु तोयार्थमुपाद्रवन्ती, आख्यात ते प्रोचुरिमां प्रविष्टा।। २२९.७५ ।।

नदीं न भूयस्तु समुत्ततार, एतावदेवेह समीहितं नः।
स तद्वचो घोरतरं निशम्य, रुरोद शोकाश्रुपरिप्लुताक्षः।। २२९.७६ ।।

तं वै रुदन्तं ससुतं सकन्यं, दृष्ट्वाऽहमार्तः सुतरां बभूव।
आर्तिश्च मेऽभूदथ संस्मृतिश्च, चाण्डोलयोषाऽहमिति क्षितिश।। २२९.७७ ।।

ततोऽब्रवं तं नृपते मतङ्गं, किमर्थमार्तेन हि रुद्यते त्वया।
तस्या न लाभो भविताऽतिमोर्ख्यादाक्रन्दितेनेह वृथा हि कं ते।। २२९.७८ ।।

स मामुवाचाऽऽत्मजयुग्ममन्धं, कन्या चैका बधिरेयं तथैव।
कथं द्विजाते अधुनाऽऽर्तमतमाश्वासयिष्येप्यथ पोषयिष्ये।। २२९.७९ ।।

इत्येवमुक्त्वा स सुतैश्च सार्धं, फूत्कृत्य फूत्कृत्य च रोदिति स्म।
यथा यथा रोदिति स श्वापाकस्तथा तथा मे ह्मभवत्कृताऽपि।। २२९.८० ।।

ततोऽहमार्तं तु निवार्यं तं वै, स्ववंशवृत्तान्तमथाऽऽकृताऽपि।
ततः स दुःखात्सह पुत्रैकः संविवेश कोकामुकमार्तरूपः।। २२९.८१ ।।

प्रविष्टमात्रे सलिले मतङ्गस्तीर्थप्रभावाच्च विमुक्तपापः।
विमानमारुह्य शशिप्रकाशं, ययौ दिवं तात ममोपपश्यतः।। २२९.८२ ।।

तत्मिन्प्रविष्टे सलिले मृते च, ममार्तिरासीदतिमोहकर्त्री।
ततोऽतिपुण्ये नृपवर्य कोकाजले प्रविष्टस्त्रिदिवं गतश्च।। २२९.८३ ।।

भूयोऽभवं वैश्यकुले व्याथार्तो, जातिस्मरस्तीर्थवरप्रसादात्।
ततोऽतिनिर्विण्णमना गतोऽहं, कोकामुखं संयतवाक्यचित्तः।। २२९.८४ ।।

व्रतं समास्थाय कलेवरं स्वं, संशोषयित्वा दिवमारुरोह।
तस्माच्च्युतस्त्वद्भवने च जातो, जातिस्मरस्तात हरिप्रसादात्।। २२९.८५ ।।

सोऽहं समाराध्य मुरारिदेवं, कोकामुखे त्यक्तशुभशुभेच्छः।
इत्येवमुक्त्वा पितरं प्रणम्य, गत्वा च कोकामुखमग्रतीर्थम्।
विष्णुं समाराध्य वराहरूपमवाप सिद्धिं मनुर्षभोऽसौ।। २२९.८६ ।।

इत्थं स कामदमनः सहपुत्रपौत्रः, कोकामुखे तीर्थवरे सुपुण्ये।
त्यक्त्वा तनुं दोषमयीं ततस्तु, गतो दिवं सूर्यसमैर्विमानैः।। २२९.८७ ।।

एवं मयोक्ता परमेश्वरस्य, माया सुराणामपि दुर्विचिन्त्या।
स्वप्नेन्द्रजालप्रतिमा मुरारेर्यया जगन्मोहमुपैति विप्राः।। २२९.८८ ।।

इति श्रीमहापुराणे आदिब्राह्मे विष्णुधर्मानुकीर्तने मायाप्रादुर्भावनिरूपणं नामैकोनत्रिंशदधिकद्विशततमोऽध्यायः।। २२९ ।।
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२२९" इत्यस्माद् प्रतिप्राप्तम्