"ब्रह्मपुराणम्/अध्यायः ११४" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथ चतुर्दशाधिकशततमोऽध्यायः'''
'''अविघ्नतीर्थवर्णनम्'''
'''ब्रह्मोवाच'''
अविध्नं तीर्थमाख्यातं सर्वविघ्नविनाशनम्।
तत्रापि वृत्तमाख्यास्ते श्रृणु नारद भक्तितः।। ११४.१ ।।
 
देवसत्रे प्रवृत्ते तु गौतम्याश्चोत्तरे तटे।
समाप्तिर्नैव सत्रस्य संजाता विघ्नदोषतः।। ११४.२ ।।
 
ततः सुरगणाः सर्वे मामवोचन्हरिं तदा।
ततो ध्यानगतोऽहं तानवोचं वीक्ष्य कारणम्।। ११४.३ ।।
 
विनायककृतैर्विघ्नैर्नै तत्सत्रं समाप्यते।
तस्मात्स्तुवन्तु ते सर्वे आदिदेवं विनायकम्।। ११४.४ ।।
 
तथेत्युक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे।
अस्तुवन्भक्तिततो देवा आदिदेवं गणेश्वरम्।। ११४.५ ।।
 
देवा ऊचुः
यः सर्वकार्येषु सदा सुराणामपीशविष्ण्वम्बुजसंभवानाम्।
पूज्यो नमस्यः परिचिन्तनीयस्तं विघ्नराजं शरणं व्रजामः।। ११४.६ ।।
 
न विघ्नराजेन समोऽस्ति कश्चिद्देवो मनोवाञ्छितसंप्रदाता।
निश्चित्य चैतत्त्रिपुरान्तकोऽपि, तं पूजयामास वधे पुराणाम्।। ११४.७ ।।
 
करोतु सोऽस्माकमविघ्नमस्मिन्महाक्रतौ सत्वरमाम्बिकेयः।
ध्यातेन येनाखिलदेहभाजां, पूर्णा भविष्यन्ति मनोभिलाषाः।। ११४.८ ।।
 
महोत्सवोऽभूदखिलस्य देव्या, जातः सुतश्चिन्तितमात्र एव।
अतोऽवदन्सुरसंघाः कृतार्थाः, सद्योजातं विघ्नराजं नमन्तः।। ११४.९ ।।
 
यो मातुरुत्सङ्गगतोऽथ मात्रा, निवार्यमाणोऽपि बलाच्च चन्द्रम्।
संगोपयामास पितुर्जटासु, गणाधिनाथस्य विनोद एषः।। ११४.१० ।।
 
पपौ स्तनं मातुरथापि तृप्तो, यो भ्रातृमात्सर्यकषायबुद्धिः।
लम्बोदरस्त्वं भव विघ्नराजो, लम्बोदरं नाम चकार शंभुः।। ११४.११ ।।
 
संवेष्टितो देवगणैर्महेशः, प्रवर्ततां नृत्यमितीत्युवाच।
संतोषितो नूपुररावमात्राद्गणेश्वरत्वेऽभिषिषेच पुत्रम्।। ११४.१२ ।।
 
यो विघ्नपाशं च करेण बिभ्रत्स्कंधे कुठारं च तथा परेण।
अपूजितो विघ्नमथोऽपि मातुः, करोति को विघ्नपतेः समोऽन्यः।। ११४.१३ ।।
 
धर्मार्थकामादषु पूर्वपूज्यो, देवासुरैः पूज्यत एव नित्यम्।
यस्यार्चनं नैव विनाशमस्ति, तं पूर्वपूज्यं प्रथमं नमामि।। ११४.१४ ।।
 
यस्यार्चनात्प्रार्थनयाऽनुरूपां, दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम्।
स्वतन्त्रसामर्थ्यकृतातिगर्वं, भ्रातृप्रियं त्वाखुरथं तमीडे।। ११४.१५ ।।
 
यो मातरं सरसैर्नृत्यगीतैस्तथाऽभिलाषैरखिलैर्विनोदैः।
संतोषयामास तदाऽतितुष्टं, तं श्रीगणेशं शरणं प्रपद्ये।। ११४.१६ ।।
 
सुरोपकारैरसुरैश्च युद्धैः, स्तोत्रैर्नमस्कारपरैश्च मन्त्रैः।
पितृप्रसादेन सदा समृद्धं, तं श्रीगणेशं शरणं प्रपद्ये।। ११४.१७ ।।
 
जये पुराणामकरोत्प्रतीपं, पित्राऽपि हर्षात्प्रतिपूजितो यः।
निर्विघ्नतां चापि पुनश्चकार, तस्मै गणेशाय नमस्करोमि।। ११४.१८ ।।
 
ब्रह्मोवाच
इति स्तुतः सुरगणैर्विघ्नेशः प्राह तान्पुनः। ११४.१९ ।।
 
गणेश उवाच
इति निर्विघ्नता सत्रे मत्तः स्यादसुरारिणः।। ११४.२० ।।
 
ब्रह्मोवाच
देवसत्रे निवृत्ते तु गणेशः प्राह तान्सुरान्।। ११४.२१ ।।
 
गणेश उवाच
स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः।
तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन।। ११४.२२ ।।
 
अत्र ये भक्तितः स्नानं दानं कुर्युरतन्द्रिताः।
तेषां सर्वाणि कार्याणि भवेयुरिति मन्यताम्।। ११४.२३ ।।
 
ब्रह्मोवाच
तद्वाक्यसमकालं तु तथेत्यूचुः सुरा अपि।
निवृत्ते तु मखे तस्मिन्सुरा जग्मुः स्वमालयम्।। ११४.२४ ।।
 
ततः प्रभृति तत्तर्थमविघ्नमिति गद्यते।।
सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम्।। ११४.२५ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽविघ्नतीर्थवर्णनं नाम चतुर्दशाधिकशततमोऽध्यायः।। ११४ ।।
 
गौतमीमाहात्म्ये पञ्चचत्वारिंशोऽध्यायः।। ११४ ।।
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_११४" इत्यस्माद् प्रतिप्राप्तम्