"ब्रह्मपुराणम्/अध्यायः १२१" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथैकविंशत्यधिकशततमोऽध्यायः'''
'''विदर्भासंगमरेवतीसंगमादितीर्थवर्णनम्'''
'''ब्रह्मोवाच'''
विदर्भासगमं पुण्यं रेवतीसंगमं तथा।
तत्र यद्धत्तमाख्यास्ये यत्पुराणविदो विदुः।। १२१.१ ।।
 
भरद्वाज इति ख्याता ऋषिरासीत्तपोऽधिकः।
तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा।। १२१.२ ।।
 
तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान्।
चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे।। १२१.३ ।।
 
कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम्।
न कश्चित्प्रतिगृहणाति दातव्या च स्वसा तथा।। १२१.४ ।।
 
अहो भूयान्न कस्यापि कन्या दुःखैककारणम्।
मरणं जीवतोऽप्यस्य प्राणिनस्तु पदे पदे।। १२१.५ ।।
 
एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने।
द्रष्टुं मिनिवरः प्रायाद्भरद्वाजं ननाम सः।। १२१.६ ।।
 
द्व्चष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः।
नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः।। १२१.७ ।।
 
विधिवत्पूज्य तं विप्रं भरद्वाजः कठं तदा।
तस्याऽऽगमनकार्यं च पप्रच्छ पुरतः स्थितः।। १२१.८ ।।
 
कठोऽप्याह भरद्वाजं विद्यार्थ्यहमुपागतः।
तथा च दर्शनाकाङ्क्षी यद्युक्तं तद्विधीयताम्।। १२१.९ ।।
 
भरद्वाजः कठं प्राह अधीष्व यदभीप्सितम्।
पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः।। १२१.१० ।।
 
सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम्।
कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः।।
अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते।। १२१.११ ।।
 
कठ उवाच
अघ्यापयस्व भो ब्रह्मञ्शिष्यं मां वीतकल्मषम्।
शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम्।। १२१.१२ ।।
 
ब्रह्मोवाच
तथेत्युक्त्वा भरद्वाजः प्रादाद्विद्यामशेषतः।
प्राप्तविद्यः कठः प्रीतो भरद्वाजमथाब्रवीत्।। १२१.१३ ।।
 
इत्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम्।
वदस्व दुर्लभं वाऽपि गुरो तुभ्यं नमोऽस्तु ते।। १२१.१४ ।।
 
विद्यां प्राप्यापि ये मोहात्स्वगुरोः पारितोषिकम्।
न प्रयच्छन्ति निरयं ते यान्त्याचन्द्रतारकम्।। १२१.१५ ।।
 
भरद्वाज उवाच
गृहाण कन्यां विधिवद्भार्यां कुरु मम स्वसाम्।
अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणामिमाम्।। १२१.१६ ।।
 
कठ उवाच
भ्रातृवत्पुत्रवच्चापि शिष्यः स्यात्तु गुरोः सदा।
गुरुश्च पितृवच्च स्यात्संबन्धोऽत्र कथं भवेत्।। १२१.१७ ।।
 
भरद्वाज उवाच
मद्वाक्यं कुरु सत्यं त्वं ममाऽज्ञा तव दक्षिणा।
सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः।। १२१.१८ ।।
 
ब्रह्मोवाच
तथेत्युक्त्वा गुरोर्वाक्यात्कठो जग्राह पाणिना।
रेवतीं विधिवद्दत्तां तां समीक्ष्य कठस्त्वथ।। १२१.१९ ।।
 
तत्रैव पूजयामास देवेशं शंकरं तदा।
रेवत्या रूपसंपत्त्यै शिवप्रीत्यै च रेवती।। १२१.२० ।।
 
सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते।
अभिषेकोदके तत्र रेवत्या यद्विनिःसृतम्।। १२१.२१ ।।
 
साऽभवत्तत्र गङ्गायां तस्मात्तन्नामतो नदी।
रेवतीति समाख्याता रूपसौभग्यदायिनी।। १२१.२२ ।।
 
पुनर्दर्भैश्च विविधैरभिषेकं चकार सः।
पुण्यरूपत्वसंसिद्घ्यै विदर्भा तदभून्नदी।। १२१.२३ ।।
 
श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर्नरः।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।। १२१.२४ ।।
 
तथा विदर्भागौतम्योः संगमे श्रद्धया मुने।
स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात्।। १२१.२५ ।।
 
उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम्।
सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम्।। १२१.२६ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये विदर्भासंगमरेवतीसंगमादितीर्थवर्मनं नामैकविंशत्यधिकशततमोऽध्यायः।। १२१ ।।
 
गौतमीमाहात्म्ये द्विपञ्चाशत्तमोऽध्यायः।। ५२ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१२१" इत्यस्माद् प्रतिप्राप्तम्