"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
अध । प्र । सु । नः । उप । यन्तु । धीतयः । देवान् । अच्छ । न । धीतयः ॥१
 
अहं “पुरः पुरत उत्तरवेद्याम् “अग्निम् आहवनीयाख्यं “धिया प्रणयनादिकर्मणा “दधे धारितवानस्मि । “तच्छर्धः तादृशं बलवन्तं वा अग्निं यद्वा तच्छर्धः तादृशं मरुतां स्वरूपं बलं “दिव्यं दिवि भवं “नु क्षिप्रम् “आ “वृणीमहे आभिमुख्येन संभजामहे । किंच “इन्द्रवायू “वृणीमहे । “यत् यस्मात् कारणात् “विवस्वति दीप्तिमति “नाभा नाभौ भूम्या नाभिस्थाने देवयजने वेदिरूपे । यद्वा । नाभौ सर्वफलस्य संबन्धके यज्ञे । ‘ यज्ञमाहुर्भुवनस्य नाभिम् ' (तै. सं. ७.४.१८. २) इति श्रुतेः । “क्राणा कुर्वाणा स्वार्थप्रकाशनं “नव्यसी नवतरा स्तुतिरूपा वाक् “संदायि संबध्यते ॥ छान्दसः कर्मणि लुङ् ॥ अस्माभिः प्रयुज्यते इत्यर्थः। यस्मात् स्तुतिः क्रियते तस्मात् “अस्तु "श्रौषट् अस्याः स्तुतेः श्रवणं भवतु । श्रोता भवतु वा मरुतां गणोऽग्निर्वा । इन्द्रवायुपक्षे प्रत्येकापेक्षा एकवचनम् । “अध अनन्तरं “नः “धीतयः अस्मदीयानि कमॉणिकर्माणि स्तुत्यादिरूपाणि “प्र “सु “उप “यन्तु प्रकर्षेण सुष्ठु युष्मानुपगच्छन्तु । किंच "देवाँ “अच्छा "न अग्न्यादिदेवान् आभिमुख्येन प्राप्तमिव “धीतयः अस्मदीयानि कर्माणि उप यन्तु ते समीपं प्राप्नुवन्तु ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३९" इत्यस्माद् प्रतिप्राप्तम्