"ऋग्वेदः सूक्तं १०.१४५" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः २५:
{{सायणभाष्यम्|
' इमाम्' इति षडृचं सप्तदशं सूक्तमिन्द्राण्या आर्षम् । षष्ठी पङ्क्तिः शिष्टा अनुष्टुभः । अनेन सूक्तेन सपन्या बाधनं प्रतिपाद्यते । अत एतत्सूक्तजपादिना सपन्या विनाशो भवति । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तम्---- ‘ इमामिन्द्राण्युपनिषत्सपत्नीबाधनमानुष्टुभं तु पङ्क्त्यन्तम् इति । अस्य सूक्तस्य विनियोगो भगवतापस्तम्बेन कस्मिंश्चित् सपत्नीघ्नप्रयोगविशेषे दर्शितः -- ‘ त्रिःसप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामीति । श्वोभूत उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया। वश्यो भवति । सपत्नीबाधनं च ' ( आप. गृ. ९. ५. ८/[https://sa.wikisource.org/s/t6m ३.९.८]) इति । अयमर्थः । आद्यया पाठा नामौषधिः खातव्या । ततस्तिसृभिरोषधेरभि, मन्त्रणम् ।
|