"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१८" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
मप्रियाया इदानीमदर्शनात् कुसुमसनाथे तस्याः केशपाशेऽसति अस्य घनरुचिरकलापः निरुपमतामाप्त इति मत्वा परमहर्षपरिप्लुतोऽयं मयूरो विद्यते इति परव्यसनसुखितमेनं नाहं पृच्छामीति कृत्वा ततः प्रचलितः । तदनु च विहङ्गपण्डितां परभृतमालोक्य तत्पुरो जानुभ्यां स्थित्वा अप्यन्यपुष्टे ! यतस्त्वां कामिनः कामदूतिं व्याहरन्ति, त्वञ्च मानिनीनां भामिनीनां मानावभङ्गेऽमोघमस्त्रम् इति हेतोः, प्रियतमाया अन्तिकं मामाशु प्रापयेति प्रार्थयस्तदीयकुहूरवं निशम्य कथं सा त्वामनुरक्तं विहाय गतेति पृच्छसीति विचार्य तां प्रत्युत्तरं ददाति यदहं मया कृतं तस्याः कोपहेतुं न स्मरामि, किन्तु रमणीनां रमणेषु प्रभुता भावस्खलितानि
मप्रियाया इदानीमदर्शनात् कुसुमसनाथे तस्याः केशपाशेऽसति अस्य घनरुचिरकलापः निरुपमतामाप्त इति मत्वा परमहर्षपरिप्लुतोऽयं मयूरो विद्यते इति परव्यसनसुखितमेनं नाहं पृच्छामीति कृत्वा ततः प्रचलितः । तदनु च विहङ्गपण्डितां परभृतमालोक्य तत्पुरो जानुभ्यां स्थित्वा अप्यन्यपुष्टे ! यतस्त्वां कामिनः कामदूतिं व्याहरन्ति, त्वञ्च मानिनीनां भामिनीनां मानावभङ्गेऽमोघमस्त्रम् इति हेतोः, प्रियतमाया अन्तिकं मामाशु प्रापयेति प्रार्थयस्तदीयकुहूरवं निशम्य कथं सा त्वामनुरक्तं विहाय गतेति पृच्छसीति विचार्य तां प्रत्युत्तरं ददाति यदहं मया कृतं तस्याः कोपहेतुं न स्मरामि, किन्तु रमणीनां रमणेषु प्रभुता भावस्खलितानि नह्यपेक्षते इति प्रोच्य ससंभ्रममुपविश्य तां स्वकार्यनिपुणामवधार्य "महदपि परदुःखं शीतलं सम्यगाहु" रिति सामान्यं वचो ददत् प्रियेव मञ्जुस्वनेयमिति न मे कोपोऽस्यामिति तां परिहाय किञ्चिद्दूरं गतः । तत्र च प्रियापदनिक्षेपशंसिनं नूपूररवमाकर्ण्य तदनुसरणपरायणः मानसोत्सुकानां राजहंसानां कूजितमिदं न तु नूपूरशिञ्जितमिति विभाव्य परं दुःखमाप्नुवानः तदन्यतमतः प्रियावार्ता ज्ञातव्येति निश्चित्य तं अहो जलविहङ्गराजेति सम्बोध्य त्वं मानसं पश्चात् गमिष्यसि भूयो ग्रहणाय पाथेयभूतमिदं बिसं परित्यज्य मद्दयितावृत्तान्तदानेन मदीयं शोकशल्यमुद्धरेति अभ्यर्थ्य “स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव” इति साधारणी वाचमनूद्यस्वपक्षं दृढतां नयति । राजा च तदवमानिनं तमुत्पतन्तं विलोक्य रे हंस यदि त्वया मे प्रिया नावलोकिता कथं त्वया तदीयं मदखेलपदं चोरितं स्यात्किन्तु मां स्तेनानुशासिनं राजानं मत्वा भयात्पलायितोऽसीति अधिक्षिप्य अन्यमवकाशमवगाहते। प्रियासहायं रथाङ्गनामानं वीक्ष्य तं प्रियाप्रवृत्तिं पृच्छन् तमपि च जायास्नेहात् पृथस्थितिभीरुमत एव स्वसमानदुःखं जानन् ततः प्रस्थितः। परिक्रम्य अन्तर्गुञ्जितषट्पदम् पद्मं तस्याः दष्टाधरं ससीत्कारमिवाननं परिज्ञाय कमलसेविनि भ्रमरे प्रणयं कर्तुं प्रवृत्तः । अञ्जलिं बध्द्वा मधुकरं तं मदिरेक्षणायास्तस्याः उदन्तं शंसितुमभ्यर्थयन् विकल्प्य च यत्त्वया सा वरतनुर्न दृष्टा, यतो यदि त्वं तद्वदनोच्छ्वासगन्धं सुरभिमवाप्स्यस्तदा तवाऽस्मिन् वराके पुण्डरीके न रतिरभविष्यदिति तं हीनभाग्यं त्यजति । करिणीसहायं नागाधिराजं सुखेन निषण्णं समीक्ष्य तदन्तिकमेत्य प्रियोपलब्धिसूचकेन मधुरकण्ठगर्जितेन समाश्वासितः यथा त्वं नागाधिराजः तथाहं राजाधिराजः, यथा त्वं दानी तथैवाहं, यथा तवेयं यूथे वशा तथा मम प्रियोर्वशी इति समानत्वं वीक्ष्य त्वयि मे भूयसी प्रीतिरिति निवेद्य परितो दृष्ट्वा अये ! अयमसौ अप्सरसां प्रियतमः सुरभिकन्दरो नाम सानुमान्, अपि नाम सुतनुरस्योपत्यकायां लभ्येतेति मृगतृष्णिकया प्रेरितः तमधिरोहति । तत्रान्धकारसान्द्रं सर्वं समीक्ष्य विद्युत्प्रकाशेनालोकयामीति कृतमन्त्रः मेघोदयमपि सौदामिनीविरहितं दृष्ट्वा शिलोच्चयमेवैनं "अपि वनान्तरमल्पभुजान्तरा श्रयति पर्वतपर्वसु सन्नता; इयमनङ्गपरिग्रहमङ्गला पृथुनितम्बनितम्बवती तवेति" परममाधुर्यसन्दानितेन विनयमहिम्नोपबृंहितेन वचसा तं पृष्ट्वोत्तरमनुपलभ्य शङ्के विप्रकर्षान्नायं शृणोति समीपमस्य गत्वा पृच्छामीति मत्वान्तिकं प्राप्य प्रियोदन्तं
नह्यपेक्षते इति प्रोच्य ससंभ्रममुपविश्य तां स्वकार्यनिपुणामवधार्य "महदपि परदुःखं शीतलं सम्यगाहु" रिति सामान्यं वचो ददत् प्रियेव मञ्जुस्वनेयमिति न मे कोपोऽस्यामिति तां परिहाय किञ्चिद्दूरं गतः । तत्र च प्रियापदनिक्षेपशंसिनं नूपूररवमाकर्ण्य तदनुसरणपरायणः मानसोत्सुकानां राजहंसानां कूजितमिदं न तु नूपूरशिञ्जितमिति विभाव्य परं दुःखमाप्नुवानः तदन्यतमतः प्रियावार्ता ज्ञातव्येति निश्चित्य तं अहो जलविहङ्गराजेति सम्बोध्य त्वं मानसं पश्चात् गमिष्यसि भूयो ग्रहणाय पाथेयभूतमिदं बिसं परित्यज्य मद्दयितावृत्तान्तदानेन मदीयं शोकशल्यमुद्धरेति अभ्यर्थ्य “स्वार्थात्सतां गुरुतरा प्रणयिक्रियेव” इति साधारणी वाचमनूद्य
स्वपक्षं दृढतां नयति । राजा च तदवमानिनं तमुत्पतन्तं विलोक्य रे हंस यदि त्वया मे प्रिया नावलोकिता कथं त्वया तदीयं मदखेलपदं चोरितं स्यात्किन्तु मां स्तेनानुशासिनं राजानं मत्वा भयात्पलायितोऽसीति अधिक्षिप्य अन्यमवकाशमवगाहते। प्रियासहायं रथाङ्गनामानं वीक्ष्य तं प्रियाप्रवृत्तिं पृच्छन् तमपि च जायास्नेहात् पृथस्थितिभीरुमत एव स्वसमानदुःखं जानन् ततः प्रस्थितः। परिक्रम्य अन्तर्गुञ्जितषट्पदम् पद्मं तस्याः दष्टाधरं ससीत्कारमिवाननं परिज्ञाय कमलसेविनि भ्रमरे प्रणयं कर्तुं प्रवृत्तः । अञ्जलिं बध्द्वा वा मधुकरं तं मदिरेक्षणायास्तस्याः उदन्तं शंसितुमभ्यर्थयन् विकल्प्य च यत्त्वया सा वरतनुर्न दृष्टा, यतो यदि त्वं तद्वदनोच्छ्वासगन्धं सुरभिमवाप्स्यस्तदा तवाऽस्मिन् वराके पुण्डरीके न रतिरभविष्यदिति तं हीनभाग्यं त्यजति । करिणीसहायं नागाधिराजं सुखेन निषण्णं समीक्ष्य तदन्तिकमेत्य प्रियोपलब्धिसूचकेन मधुरकण्ठगर्जितेन समाश्वासितः यथा त्वं नागाधिराजः तथाहं राजाधिराजः, यथा त्वं दानी तथैवाहं, यथा तवेयं यूथे वशा तथा मम प्रियोर्वशी इति समानत्वं वीक्ष्य त्वयि मे भूयसी प्रीतिरिति निवेद्य परितो दृष्ट्वा अये ! अयमसौ अप्सरसां प्रियतमः सुरभिकन्दरो नाम सानुमान्, अपि नाम सुतनुरस्योपत्यकायां लभ्येतेति मृगतृष्णिकया प्रेरितः तमधिरोहति । तत्रान्धकारसान्द्रं सर्वं समीक्ष्य विद्युत्प्रकाशेनालोकयामीति कृतमन्त्रः मेघोदयमपि सौदामिनीविरहितं दृष्ट्वा शिलोच्चयमेवैनं "अपि वनान्तरमल्पभुजान्तरा श्रयति पर्वतपर्वसु सन्नता; इयमनङ्गपरिग्रहमङ्गला पृथुनितम्बनितम्बवती तवेति" परममाधुर्यसन्दानितेन विनयमहिम्नोपबृंहितेन वचसा तं पृष्ट्वोत्तरमनुपलभ्य शङ्के विप्रकर्षान्नायं शृणोति समीपमस्य गत्वा पृच्छामीति गत्वान्तिकं प्राप्य प्रियोदन्तं